वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः ६४ · ३९ श्लोकाःSarga 64 · 39 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · ६४ · १ ॥
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः । राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् । ५.६४.१ ॥

sugrīveṇaivamuktastu hṛṣṭo dadhimukhaḥ kapiḥ ।
rāghavaṁ lakṣmaṇaṁ caiva sugrīvaṁ cābhyavādayat ।
5.64.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २ ॥
प्रणम्य सुग्रीवं राघवौ महाबलौ । वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह । ५.६४.२ ॥

sa praṇamya ca sugrīvaṁ rāghavau ca mahābalau ।
vānaraiḥ sahitaiḥ śūrairdivamevotpapāta ha ।
5.64.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३ ॥
यथैवागतः पूर्वं तथैव त्वरितं गतः । निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह । ५.६४.३ ॥

sa yathaivāgataḥ pūrvaṁ tathaiva tvaritaṁ gataḥ ।
nipatya gaganādbhūmau tadvanaṁ praviveśa ha ।
5.64.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ४ ॥
प्रविष्टो मधुवनं ददर्श हरियूथपान् । विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् । ५.६४.४ ॥

sa praviṣṭo madhuvanaṁ dadarśa hariyūthapān ।
vimadānutthitān sarvān mehamānān madhūdakam ।
5.64.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ५ ॥
तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् । उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् । ५.६४.५ ॥

sa tānupāgamadvīro baddhvā karapuṭāñjalim ।
uvāca vacanaṁ ślakṣṇamidaṁ hṛṣṭavadaṅgadam ।
5.64.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ६ ॥
सौम्य रोषो कर्तव्यो यदेभिरभिवारितः । अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः । ५.६४.६ ॥

saumya roṣo na kartavyo yadebhirabhivāritaḥ ।
ajñānādrakṣibhiḥ krodhādbhavantaḥ pratiṣedhitāḥ ।
5.64.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ७ ॥
युवराजस्त्वमीशश्च वनस्यास्य महाबल । मौर्ख्यात् पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति । ५.६४.७ ॥

yuvarājastvamīśaśca vanasyāsya mahābala ।
maurkhyāt pūrvaṁ kṛto doṣastaṁ bhavān kṣantumarhati ।
5.64.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ८ ॥
आख्यातं हि मया गत्वा पितृव्यस्य तवानघ । इहोपयातं सर्वेषामेतेषां वनचारिणाम् । ५.६४.८ ॥

ākhyātaṁ hi mayā gatvā pitṛvyasya tavānagha ।
ihopayātaṁ sarveṣāmeteṣāṁ vanacāriṇām ।
5.64.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ९ ॥
त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः । प्रहृष्टो तु रुष्टो ऽसौ वनं श्रुत्वा प्रधर्षितम् । ५.६४.९ ॥

sa tvadāgamanaṁ śrutvā sahaibhirhariyūthapaiḥ ।
prahṛṣṭo na tu ruṣṭo 'sau vanaṁ śrutvā pradharṣitam ।
5.64.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · १० ॥
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः । शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः । ५.६४.१० ॥

prahṛṣṭo māṁ pitṛvyaste sugrīvo vānareśvaraḥ ।
śīghraṁ preṣaya sarvāṁstāniti hovāca pārthivaḥ ।
5.64.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ११ ॥
श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः । अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः । ५.६४.११ ॥

śrutvā dadhimukhasyedaṁ vacanaṁ ślakṣṇamaṅgadaḥ ।
abravīttān hariśreṣṭho vākyaṁ vākyaviśāradaḥ ।
5.64.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · १२ ॥
शङ्के श्रुतो ऽयं वृत्तान्तो रामेण हरियूथपाः । तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः । ५.६४.१२ ॥

śaṅke śruto 'yaṁ vṛttānto rāmeṇa hariyūthapāḥ ।
tatkṣamaṁ neha naḥ sthātuṁ kṛte kārye parantapāḥ ।
5.64.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · १३ ॥
पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः । किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः । ५.६४.१३ ॥

pītvā madhu yathākāmaṁ viśrāntā vanacāriṇaḥ ।
kiṁ śeṣaṁ gamanaṁ tatra sugrīvo yatra me guruḥ ।
5.64.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · १४ ॥
सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः । तथा ऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् । ५.६४.१४ ॥

sarve yathā māṁ vakṣyanti sametya hariyūthapāḥ ।
tathā 'smi kartā kartavye bhavadbhiḥ paravānaham ।
5.64.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · १५ ॥
नाज्ञापयितुमीशो ऽहं युवराजो ऽस्मि यद्यपि । अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया । ५.६४.१५ ॥

nājñāpayitumīśo 'haṁ yuvarājo 'smi yadyapi ।
ayuktaṁ kṛtakarmāṇo yūyaṁ dharṣayituṁ mayā ।
5.64.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · १६ ॥
ब्रुवतश्चाङ्गदश्यैवं श्रुत्वा वचनमव्ययम् । प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः । ५.६४.१६ ॥

bruvataścāṅgadaśyaivaṁ śrutvā vacanamavyayam ।
prahṛṣṭamanaso vākyamidamūcurvanaukasaḥ ।
5.64.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · १७ ॥
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ । ऐश्वर्यमदमत्तो हि सर्वो ऽहमिति मन्यते । ५.६४.१७ ॥

evaṁ vakṣyati ko rājan prabhuḥ san vānararṣabha ।
aiśvaryamadamatto hi sarvo 'hamiti manyate ।
5.64.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · १८ ॥
तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् । सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् । ५.६४.१८ ॥

tava cedaṁ susadṛśaṁ vākyaṁ nānyasya kasyacit ।
sannatirhi tavākhyāti bhaviṣyacchubhayogyatām ।
5.64.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · १९ ॥
सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः । यत्र हरिवीराणां सुग्रीवः पतिरव्ययः । ५.६४.१९ ॥

sarve vayamapi prāptāstatra gantuṁ kṛtakṣaṇāḥ ।
sa yatra harivīrāṇāṁ sugrīvaḥ patiravyayaḥ ।
5.64.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २० ॥
त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् । क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते । ५.६४.२० ॥

tvayā hyanuktairharibhirnaiva śakyaṁ padātpadam ।
kvacidgantuṁ hariśreṣṭha brūmaḥ satyamidaṁ tu te ।
5.64.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २१ ॥
एवं तु वदतां तेषामङ्गदः प्रत्यभाषत । बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः । ५.६४.२१ ॥

evaṁ tu vadatāṁ teṣāmaṅgadaḥ pratyabhāṣata ।
bāḍhaṁ gacchāma ityuktvā khamutpeturmahābalāḥ ।
5.64.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २२ ॥
उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः । कृत्वा ऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः । ५.६४.२२ ॥

utpatantamanūtpetuḥ sarve te hariyūthapāḥ ।
kṛtvā ' 'kāśaṁ nirākāśaṁ yantrotkṣiptā ivācalāḥ ।
5.64.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २३ ॥
ते ऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः । विनदन्तो महानादं घना वातेरिता यथा । ५.६४.२३ ॥

te 'mbaraṁ sahasotpatya vegavantaḥ plavaṅgamāḥ ।
vinadanto mahānādaṁ ghanā vāteritā yathā ।
5.64.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २४ ॥
अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः । उवाच शोकोपहतं रामं कमललोचनम् । ५.६४.२४ ॥

aṅgade samanuprāpte sugrīvo vānarādhipaḥ ।
uvāca śokopahataṁ rāmaṁ kamalalocanam ।
5.64.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २५ ॥
समाश्वसिहि भद्र ते दृष्टा देवी संशयः । नागन्तुमिह शक्यं तैरतीते समये हि नः । ५.६४.२५ ॥

samāśvasihi bhadra te dṛṣṭā devī na saṁśayaḥ ।
nāgantumiha śakyaṁ tairatīte samaye hi naḥ ।
5.64.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २६ ॥
मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते । युवराजो महाबाहुः प्लवतां प्रवरो ऽङ्गदः । ५.६४.२६ ॥

na matsakāśamāgacchet kṛtye hi vinipātite ।
yuvarājo mahābāhuḥ plavatāṁ pravaro 'ṅgadaḥ ।
5.64.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २७ ॥
यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः । भवेत् दीनवदनो भ्रान्तविप्लुतमानसः । ५.६४.२७ ॥

yadyapyakṛtakṛtyānāmīdṛśaḥ syādupakramaḥ ।
bhavet sa dīnavadano bhrāntaviplutamānasaḥ ।
5.64.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २८ ॥
पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम् । मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः । ५.६४.२८ ॥

pitṛpaitāmahaṁ caitat pūrvakairabhirakṣitam ।
na me madhuvanaṁ hanyādahṛṣṭaḥ plavageśvaraḥ ।
5.64.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · २९ ॥
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत । दृष्टा देवी सन्देहो चान्येन हनूमता । ५.६४.२९ ॥

kausalyā suprajā rāma samāśvasihi suvrata ।
dṛṣṭā devī na sandeho na cānyena hanūmatā ।
5.64.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३० ॥
ह्यन्यः कर्मणो हेतुः साधने ऽस्य हनूमतः । हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम । व्यवसायश्च वीर्यं सूर्य तेज इव ध्रुवम् । ५.६४.३० ॥

na hyanyaḥ karmaṇo hetuḥ sādhane 'sya hanūmataḥ ।
hanūmati hi siddhiśca matiśca matisattama ।
vyavasāyaśca vīryaṁ ca sūrya teja iva dhruvam ।
5.64.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३१ ॥
जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः । हनुमांश्चाप्यधिष्ठाता तस्य गतिरन्यथा । ५.६४.३१ ॥

jāmbavān yatra netā syādaṅgadaśca baleśvaraḥ ।
hanumāṁścāpyadhiṣṭhātā na tasya gatiranyathā ।
5.64.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३२ ॥
मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम । ५.६४.३२ ॥

mā bhūścintāsamāyuktaḥ sampratyamitavikrama ।
5.64.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३३ ॥
ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे । हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् । किष्किन्धामुपयातानां सिद्धिं कथयतामिव । ५.६४.३३ ॥

tataḥ kilakilāśabdaṁ śuśrāvāsannamambare ।
hanumatkarmadṛptānāṁ nardatāṁ kānanaukasām ।
kiṣkindhāmupayātānāṁ siddhiṁ kathayatāmiva ।
5.64.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३४ ॥
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः । आयताञ्चितलाङ्गूलः सो ऽभवद्धृष्टमानसः । ५.६४.३४ ॥

tataḥ śrutvā ninādaṁ taṁ kapīnāṁ kapisattamaḥ ।
āyatāñcitalāṅgūlaḥ so 'bhavaddhṛṣṭamānasaḥ ।
5.64.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३५ ॥
आजग्मुस्ते ऽपि हरयो रामदर्शनकांक्षिणः । अङ्गदं पुरतः कृत्वा हनूमन्तं वानरम् । ५.६४.३५ ॥

ājagmuste 'pi harayo rāmadarśanakāṁkṣiṇaḥ ।
aṅgadaṁ purataḥ kṛtvā hanūmantaṁ ca vānaram ।
5.64.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३६ ॥
ते ऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदा ऽन्विताः । निपेतुर्हरिराजस्य समीपे राघवस्य च । ५.६४.३६ ॥

te 'ṅgadapramukhā vīrāḥ prahṛṣṭāśca mudā 'nvitāḥ ।
nipeturharirājasya samīpe rāghavasya ca ।
5.64.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३७ ॥
हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः । नियतामक्षतां देवीं राघवाय न्यवेदयत् । ५.६४.३७ ॥

hanumāṁśca mahābāhuḥ praṇamya śirasā tataḥ ।
niyatāmakṣatāṁ devīṁ rāghavāya nyavedayat ।
5.64.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३८ ॥
निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे । लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत । ५.६४.३८ ॥

niścitārthastatastasmin sugrīvaḥ pavanātmaje ।
lakṣmaṇaḥ prītimān prītaṁ bahumānādavaikṣata ।
5.64.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ६४ · ३९ ॥
प्रीत्या रममाणो ऽथ राघवः परवीरहा । बहुमानेन महता हनुमन्तमवैक्षत । ५.६४.३९ ॥

prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā ।
bahumānena mahatā hanumantamavaikṣata ।
5.64.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.