वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः ५२ · २६ श्लोकाःSarga 52 · 26 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · ५२ · १ ॥
तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः । आज्ञापयद्वधं तस्य रावणः क्रोधमूर्च्छितः । ५.५२.१ ॥

tasya tadvacanaṁ śrutvā vānarasya mahātmanaḥ ।
ājñāpayadvadhaṁ tasya rāvaṇaḥ krodhamūrcchitaḥ ।
5.52.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · २ ॥
वधे तस्य समाज्ञप्ते रावणेन दुरात्मना । निवेदितवतो दौत्यं नानुमेने विभीषणः । ५.५२.२ ॥

vadhe tasya samājñapte rāvaṇena durātmanā ।
niveditavato dautyaṁ nānumene vibhīṣaṇaḥ ।
5.52.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · ३ ॥
तं रक्षोधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम् । विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः । ५.५२.३ ॥

taṁ rakṣodhipatiṁ kruddhaṁ tacca kāryamupasthitam ।
viditvā cintayāmāsa kāryaṁ kāryavidhau sthitaḥ ।
5.52.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · ४ ॥
निश्चितार्थस्ततः साम्ना ऽपूज्य शत्रुजिदग्रजम् । उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः । ५.५२.४ ॥

niścitārthastataḥ sāmnā ' 'pūjya śatrujidagrajam ।
uvāca hitamatyarthaṁ vākyaṁ vākyaviśāradaḥ ।
5.52.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · ५ ॥
क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व । वधं कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः । ५.५२.५ ॥

kṣamasva roṣaṁ tyaja rākṣasendra prasīda madvākyamidaṁ śṛṇuṣva ।
vadhaṁ na kurvanti parāvarajñā dūtasya santo vasudhādhipendrāḥ ।
5.52.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · ६ ॥
राजधर्मविरुद्धं लोकवृत्तेश्च गर्हितम् । तव चासदृशं वीर कपेरस्य प्रमापणम् । ५.५२.६ ॥

rājadharmaviruddhaṁ ca lokavṛtteśca garhitam ।
tava cāsadṛśaṁ vīra kaperasya pramāpaṇam ।
5.52.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · ७ ॥
धर्मज्ञश्च कृतज्ञश्च राजधर्मविशारदः । परावरज्ञो भूतानां त्वमेव परमार्थवित् । ५.५२.७ ॥

dharmajñaśca kṛtajñaśca rājadharmaviśāradaḥ ।
parāvarajño bhūtānāṁ tvameva paramārthavit ।
5.52.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · ८ ॥
गृह्यन्ते यदि रोषेण त्वादृशो ऽपि विपश्चितः । ततः शास्त्रधर्मविपश्चित्त्वं श्रम एव हि केवलम् । ५.५२.८ ॥

gṛhyante yadi roṣeṇa tvādṛśo 'pi vipaścitaḥ ।
tataḥ śāstradharmavipaścittvaṁ śrama eva hi kevalam ।
5.52.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · ९ ॥
तस्मात् प्रसीद शत्रुघ्न राक्षसेन्द्र दुरासद । युक्तायुक्तं विनिश्चित्य दूतदण्डे विधीयताम् । ५.५२.९ ॥

tasmāt prasīda śatrughna rākṣasendra durāsada ।
yuktāyuktaṁ viniścitya dūtadaṇḍe vidhīyatām ।
5.52.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · १० ॥
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । रोषेण महताविष्टो वाक्यमुत्तरमब्रवीत् । ५.५२.१० ॥

vibhīṣaṇavacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ ।
roṣeṇa mahatāviṣṭo vākyamuttaramabravīt ।
5.52.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · ११ ॥
पापानां वधे पापं विद्यते शत्रुसूदन । तस्मादेनं वधिष्यामि वानरं पापचारिणम् । ५.५२.११ ॥

na pāpānāṁ vadhe pāpaṁ vidyate śatrusūdana ।
tasmādenaṁ vadhiṣyāmi vānaraṁ pāpacāriṇam ।
5.52.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · १२ ॥
अधर्ममूलं बहुरोषयुक्तमनार्यजुष्टं वचनं निशम्य । उवाच वाक्यं परमार्थतत्त्वं विभीषणो बुद्धिमतां वरिष्ठः । ५.५२.१२ ॥

adharmamūlaṁ bahuroṣayuktamanāryajuṣṭaṁ vacanaṁ niśamya ।
uvāca vākyaṁ paramārthatattvaṁ vibhīṣaṇo buddhimatāṁ variṣṭhaḥ ।
5.52.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · १३ ॥
प्रसीद लङ्केश्वर राक्षसेन्द्र धर्मार्थयुक्तं वचनं शृणुष्व । दूता वध्याः समयेषु राजन् सर्वेषु सर्वत्र वदन्ति सन्तः । ५.५२.१३ ॥

prasīda laṅkeśvara rākṣasendra dharmārthayuktaṁ vacanaṁ śṛṇuṣva ।
dūtā na vadhyāḥ samayeṣu rājan sarveṣu sarvatra vadanti santaḥ ।
5.52.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · १४ ॥
असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम् । दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः । ५.५२.१४ ॥

asaṁśayaṁ śatrurayaṁ pravṛddhaḥ kṛtaṁ hyanenāpriyamaprameyam ।
na dūtavadhyāṁ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ ।
5.52.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · १५ ॥
वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं(ढ्यं) तथा लक्षणसन्निपातः । एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु दूतस्य नः श्रुतो ऽपि । ५.५२.१५ ॥

vairūpyamaṅgeṣu kaśābhighāto mauṇḍyaṁ(ḍhyaṁ) tathā lakṣaṇasannipātaḥ ।
etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi ।
5.52.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · १६ ॥
कथं धर्मार्थविनीतबुद्धिः परावरप्रत्ययनिश्चितार्थः । भवद्विधः कोपवशे हि तिष्ठेत् कोपं नियच्छन्ति हि सत्त्ववन्तः । ५.५२.१६ ॥

kathaṁ ca dharmārthavinītabuddhiḥ parāvarapratyayaniścitārthaḥ ।
bhavadvidhaḥ kopavaśe hi tiṣṭhet kopaṁ niyacchanti hi sattvavantaḥ ।
5.52.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · १७ ॥
धर्मवादे लोकवृत्ते शास्त्रबुद्धिग्रहणेषु चापि । विद्येत कश्चित्तव वीरतुल्यस्त्वं ह्युत्तमः सर्वसुरासुराणाम् । ५.५२.१७ ॥

na dharmavāde na ca lokavṛtte na śāstrabuddhigrahaṇeṣu cāpi ।
vidyeta kaścittava vīratulyastvaṁ hyuttamaḥ sarvasurāsurāṇām ।
5.52.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · १८ ॥
चाप्यस्य कपेर्घाते कञ्चित् पश्याम्यहं गुणम् । तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः । ५.५२.१८ ॥

na cāpyasya kaperghāte kañcit paśyāmyahaṁ guṇam ।
teṣvayaṁ pātyatāṁ daṇḍo yairayaṁ preṣitaḥ kapiḥ ।
5.52.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · १९ ॥
साधुर्वा यदिवा ऽसाधुः परैरेष समर्पितः । ब्रुवन् परार्थं परवान् दूतो वधमर्हति । ५.५२.१९ ॥

sādhurvā yadivā 'sādhuḥ paraireṣa samarpitaḥ ।
bruvan parārthaṁ paravān na dūto vadhamarhati ।
5.52.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · २० ॥
अपि चास्मिन् हते राजन् नान्यं पश्यामि खेचरम् । इह यः पुनरागच्छेत् परं पारं महोदधेः । ५.५२.२० ॥

api cāsmin hate rājan nānyaṁ paśyāmi khecaram ।
iha yaḥ punarāgacchet paraṁ pāraṁ mahodadheḥ ।
5.52.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · २१ ॥
तस्मान्नास्य वदे यत्नः कार्यः परपुरञ्जय । भवान् सेन्द्रेषु देवेषु यत्नमास्तातुमर्हति । ५.५२.२१ ॥

tasmānnāsya vade yatnaḥ kāryaḥ parapurañjaya ।
bhavān sendreṣu deveṣu yatnamāstātumarhati ।
5.52.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · २२ ॥
अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तौ नरराजपुत्रौ । युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ । ५.५२.२२ ॥

asmin vinaṣṭe nahi dūtamanyaṁ paśyāmi yastau nararājaputrau ।
yuddhāya yuddhapriya durvinītāvudyojayeddīrghapathāvaruddhau ।
5.52.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · २३ ॥
पराक्रमोत्साहमनस्विनां सुरासुराणामपि दुर्जयेन । त्वया मनोनन्दन नैर्ऋतानां युद्धायतिर्नाशयितुं युक्ता । ५.५२.२३ ॥

parākramotsāhamanasvināṁ ca surāsurāṇāmapi durjayena ।
tvayā manonandana nairṛtānāṁ yuddhāyatirnāśayituṁ na yuktā ।
5.52.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · २४ ॥
हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु । मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः । ५.५२.२४ ॥

hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu ।
manasvinaḥ śastrabhṛtāṁ variṣṭhāḥ koṭyagrataste subhṛtāśca yodhāḥ ।
5.52.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · २५ ॥
तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतो ऽभियान्तु । तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भावयितुं प्रभावम् । ५.५२.२५ ॥

tadekadeśena balasya tāvat kecittavādeśakṛto 'bhiyāntu ।
tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṁ prabhāvam ।
5.52.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५२ · २६ ॥
निशाचराणामधिपो ऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् । जग्राह बुद्ध्या सुरलोकशत्रुर्महाबलो राक्षसराजमुख्यः । ५.५२.२६ ॥

niśācarāṇāmadhipo 'nujasya vibhīṣaṇasyottamavākyamiṣṭam ।
jagrāha buddhyā suralokaśatrurmahābalo rākṣasarājamukhyaḥ ।
5.52.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.