वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः ५ · २७ श्लोकाःSarga 5 · 27 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · ५ · १ ॥
ततः मध्यंगतमंशुमन्तं । ज्योत्स्नावितानम् महदुद्वमन्तम् । ददर्श धीमान् दिवि भानुमन्तम् । गोष्ठे वृषं मत्तमिव भ्रामन्तम् ॥

tataḥ sa madhyaṁgatamaṁśumantaṁ ।
jyotsnāvitānam mahadudvamantam ।
dadarśa dhīmān divi bhānumantam ।
goṣṭhe vṛṣaṁ mattamiva bhrāmantam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · २ ॥
लोकस्य पापानि विनाशयन्तम् । महोदधिं चापि समेधयन्तम् । भूतानि सर्वाणि विराजयन्तम् । ददर्श शीताम्शुमथाभियान्तम् ॥

lokasya pāpāni vināśayantam ।
mahodadhiṁ cāpi samedhayantam ।
bhūtāni sarvāṇi virājayantam ।
dadarśa śītāmśumathābhiyāntam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · ३ ॥
या भाति लक्ष्मीर्भुवि मन्दरस्था । तथा प्रदोषेषु सागरस्था । तथैव तोयेषु पुष्करस्था । रराज सा चारुनिशाकरस्था ॥

yā bhāti lakṣmīrbhuvi mandarasthā ।
tathā pradoṣeṣu ca sāgarasthā ।
tathaiva toyeṣu ca puṣkarasthā ।
rarāja sā cāruniśākarasthā ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · ४ ॥
हम्सो यथा राजतपञ्जरसथः । सिम्हो यथा मन्दरकन्दरस्थः । वीरो यथा गर्वितकुञ्जरस्थ । श्चन्द्रो विबभ्राज तथामभरस्थः ॥

hamso yathā rājatapañjarasathaḥ ।
simho yathā mandarakandarasthaḥ ।
vīro yathā garvitakuñjarastha ।
ścandro vibabhrāja tathāmabharasthaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · ५ ॥
स्थितह् ककुद्मानिव तीक्ष्णशृङ्गो । महाचलः श्वेत इवोच्चशृङ्गः । हस्तीव जाम्बूनदबद्धश्^इङ्गो । रराज चन्द्रह् परिपूर्णशृङ्गः ॥

sthitah kakudmāniva tīkṣṇaśṛṅgo ।
mahācalaḥ śveta ivoccaśṛṅgaḥ ।
hastīva jāmbūnadabaddhaś^iṅgo ।
rarāja candrah paripūrṇaśṛṅgaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · ६ ॥
विनष्टशीताम्बुतुषारपङ्को । महाग्रहग्राहविनष्टपङ्कः । प्रकाशलक्ष्म्याश्रयनिर्मलाङ्को । रराज चन्द्रो भगवान् शशाङ्कः ॥

vinaṣṭaśītāmbutuṣārapaṅko ।
mahāgrahagrāhavinaṣṭapaṅkaḥ ।
prakāśalakṣmyāśrayanirmalāṅko ।
rarāja candro bhagavān śaśāṅkaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · ७ ॥
शीलातलम् प्राप्य यथा मृगेन्द्रो । महारणम् प्राप्य यथा गजेन्द्रह् । राज्यम् समासाद्य यथा नरेन्द्र । स्तथाप्रकाशो विरराज चन्द्रः ॥

śīlātalam prāpya yathā mṛgendro ।
mahāraṇam prāpya yathā gajendrah ।
rājyam samāsādya yathā narendra ।
stathāprakāśo virarāja candraḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · ८ ॥
प्रकाशचन्द्रोदयनष्टदोषः । प्रवृत्तरक्षः पिशिताशदोषः । रामाभिरामेरितचित्तदोषः । स्वर्गप्रकाशो भगवान् प्रदोषः ॥

prakāśacandrodayanaṣṭadoṣaḥ ।
pravṛttarakṣaḥ piśitāśadoṣaḥ ।
rāmābhirāmeritacittadoṣaḥ ।
svargaprakāśo bhagavān pradoṣaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · ९ ॥
तन्त्रीस्वनाह् कर्णसुखाः प्रवृत्ताः । स्वपन्ति नार्यः पतिभिः सुवृत्ताः । नक्तम्चराश्चापि तथा प्रवृत्ता । विहर्तुमत्यद्भुतरौद्रवृत्ताः ॥

tantrīsvanāh karṇasukhāḥ pravṛttāḥ ।
svapanti nāryaḥ patibhiḥ suvṛttāḥ ।
naktamcarāścāpi tathā pravṛttā ।
vihartumatyadbhutaraudravṛttāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · १० ॥
मत्तप्रमत्तानि समाकुलानि । तथाश्वभद्रासनसम्कुलानि । वीरः श्रिया चापि समाकुलानि । ददर्श धीमान् कपिः कुलानि ॥

mattapramattāni samākulāni ।
tathāśvabhadrāsanasamkulāni ।
vīraḥ śriyā cāpi samākulāni ।
dadarśa dhīmān sa kapiḥ kulāni ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · ११ ॥
परस्परं चाधिकमाक्षिपन्ति । भुआम्श्च पीनानधिनिक्षिपन्ति । मत्तप्रलापानधिकम् क्षिपन्ति । मत्तानि चान्योन्यमधिक्षिपन्ति ॥

parasparaṁ cādhikamākṣipanti ।
bhuāmśca pīnānadhinikṣipanti ।
mattapralāpānadhikam kṣipanti ।
mattāni cānyonyamadhikṣipanti ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · १२ ॥
रक्षाम्सि वक्षाम्सि विक्षिपन्ति । गात्राणि कान्तासु विक्षिपन्ति । रूपाअणि चित्राणि विक्षिपन्ति । दृढानि चापानि विक्षिपन्ति ॥

rakṣāmsi vakṣāmsi ca vikṣipanti ।
gātrāṇi kāntāsu ca vikṣipanti ।
rūpāaṇi citrāṇi ca vikṣipanti ।
dṛḍhāni cāpāni ca vikṣipanti ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · १३ ॥
ददर्श कान्ताश्च समालभन्त्य । स्तथा परास्तत्र पुनः स्वपन्त्यः । सुरूपवक्त्राश्च तथा हसन्त्यः । क्रुद्धाः पराश्चपि विनिःश्वसन्त्यः ॥

dadarśa kāntāśca samālabhantya ।
stathā parāstatra punaḥ svapantyaḥ ।
surūpavaktrāśca tathā hasantyaḥ ।
kruddhāḥ parāścapi viniḥśvasantyaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · १४ ॥
महागजैश्चापि तथा नदद्भिः । सुपूजितैश्चापि तथा सुसद्भिः । रराज वीरैश्च विनिःश्वसद्भि । र्ह्रदो भुजङ्गैरिव निःश्वसद्भिः ॥

mahāgajaiścāpi tathā nadadbhiḥ ।
supūjitaiścāpi tathā susadbhiḥ ।
rarāja vīraiśca viniḥśvasadbhi ।
rhrado bhujaṅgairiva niḥśvasadbhiḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · १५ ॥
बुद्धिप्रधानान् रुचिराभिधानान् । सम्श्रद्दधानान् जगतः प्रधानान् । नानाविधानान् रुचिराभिधानान् । ददर्श तस्याम् पुरि यातुधानान् ॥

buddhipradhānān rucirābhidhānān ।
samśraddadhānān jagataḥ pradhānān ।
nānāvidhānān rucirābhidhānān ।
dadarśa tasyām puri yātudhānān ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · १६ ॥
ननन्द दृष्ट्वा तान् सुरूपा । न्नानागुणानात्मगुणानुरूपान् । विद्योतमानान्स तदानुरूपान् । ददर्श काम्श्चिच्च पुनर्विरूपान् ॥

nananda dṛṣṭvā sa ca tān surūpā ।
nnānāguṇānātmaguṇānurūpān ।
vidyotamānānsa tadānurūpān ।
dadarśa kāmścicca punarvirūpān ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · १७ ॥
ततो वरार्हः सुविशुद्धभावा । स्तेषाम् स्त्रियस्तत्र महानुभावाह् । प्रियेषु पानेषु सक्तभावा । ददर्श ताराइव सुप्रभावाः ॥

tato varārhaḥ suviśuddhabhāvā ।
steṣām striyastatra mahānubhāvāh ।
priyeṣu pāneṣu ca saktabhāvā ।
dadarśa tārāiva suprabhāvāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · १८ ॥
श्रिया ज्वलन्तीस्त्रपयोगूढा । निशीथकाले रमणोपगूढाः । ददर्श काश्चित्प्रमदोपगूढा । यथा विहङ्गाः कुसुमोपगूढाः ॥

śriyā jvalantīstrapayogūḍhā ।
niśīthakāle ramaṇopagūḍhāḥ ।
dadarśa kāścitpramadopagūḍhā ।
yathā vihaṅgāḥ kusumopagūḍhāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · १९ ॥
अन्याः पुनर्हर्म्यतलोपविष्टा । स्तत्र प्रियाङ्केषु सुखोपविष्टाः । भर्तुः प्रिया धर्मपरा निविष्टा । ददर्श धीमान् मदनाभिविष्टाः ॥

anyāḥ punarharmyatalopaviṣṭā ।
statra priyāṅkeṣu sukhopaviṣṭāḥ ।
bhartuḥ priyā dharmaparā niviṣṭā ।
dadarśa dhīmān madanābhiviṣṭāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · २० ॥
अप्रावृताः काञ्चनराजिवर्णाः । काश्चित्परार्थ्यास्तपनीयवर्णाः । पुनश्च काश्चिच्छशलक्ष्मवर्णाः । कान्तप्रहीणारुचिराङ्गवर्णाः ॥

aprāvṛtāḥ kāñcanarājivarṇāḥ ।
kāścitparārthyāstapanīyavarṇāḥ ।
punaśca kāścicchaśalakṣmavarṇāḥ ।
kāntaprahīṇārucirāṅgavarṇāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · २१ ॥
ततह् प्रियान् प्राप्य मनोभिरामान् । सुप्रीतियुक्ताः सुमनोभिरामाः । गृहेषु हृष्टाः परमाभिरामाः । हरिप्रवीरः ददर्श रामाः ॥

tatah priyān prāpya manobhirāmān ।
suprītiyuktāḥ sumanobhirāmāḥ ।
gṛheṣu hṛṣṭāḥ paramābhirāmāḥ ।
haripravīraḥ sa dadarśa rāmāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · २२ ॥
चन्द्रप्रकाशाश्च हि वक्त्रमाला । वक्राक्षिपक्ष्माश्च सुनेत्रमालाः । विभूषाणानाम् ददर्श मालाः । शतह्रदानामिव चारुमालाः ॥

candraprakāśāśca hi vaktramālā ।
vakrākṣipakṣmāśca sunetramālāḥ ।
vibhūṣāṇānām ca dadarśa mālāḥ ।
śatahradānāmiva cārumālāḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · २३ ॥
त्वेव सीताम् परमाभिजाताम् । पथि स्थिते राजकुले प्रजाताम् । लताम् प्रपुल्लामिव साधु जाताम् । ददर्श तन्वीम् मनसाभिजाताम् ॥

na tveva sītām paramābhijātām ।
pathi sthite rājakule prajātām ।
latām prapullāmiva sādhu jātām ।
dadarśa tanvīm manasābhijātām ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · २४ ॥
सनातने वर्त्मानि सम्निविष्टाम् । रामेक्षणां तां मदनाभिविष्टाम् । भर्तुर्मनः श्रीमदनुप्रविष्टाम् । स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम् ॥

sanātane vartmāni samniviṣṭām ।
rāmekṣaṇāṁ tāṁ madanābhiviṣṭām ।
bharturmanaḥ śrīmadanupraviṣṭām ।
strībhyo varābhyaśca sadā viśiṣṭām ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · २५ ॥
उष्णार्दिताम् सानुसृतास्रकण्ठीम् । पुरा वरार्होत्तमनिष्ककण्ठीम् । सुजातपक्ष्मामभिरक्तकण्ठीम् । वनेऽप्रनृत्तामिव नीलकण्ठीम् ॥

uṣṇārditām sānusṛtāsrakaṇṭhīm ।
purā varārhottamaniṣkakaṇṭhīm ।
sujātapakṣmāmabhiraktakaṇṭhīm ।
vane'pranṛttāmiva nīlakaṇṭhīm ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · २६ ॥
अव्यक्तरेखामिव चन्द्ररेखां । पाम्सुप्रदिग्धामिव हेमरेखाम् । क्षतप्ररूढामिव बाणरेखां । वायुप्रभिन्नामिव मेघरेक्षाम् ॥

avyaktarekhāmiva candrarekhāṁ ।
pāmsupradigdhāmiva hemarekhām ।
kṣataprarūḍhāmiva bāṇarekhāṁ ।
vāyuprabhinnāmiva megharekṣām ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ५ · २७ ॥
सीतामपश्यन् मनुजेश्वरस्य । रामस्य पत्नीम् वदताम् वरस्य । बभूव दुःखाभिहतश्चिरस्य । प्लवङ्गमो मन्द इवाचिरस्य ॥

sītāmapaśyan manujeśvarasya ।
rāmasya patnīm vadatām varasya ।
babhūva duḥkhābhihataścirasya ।
plavaṅgamo manda ivācirasya ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.