वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः ४५ · १७ श्लोकाःSarga 45 · 17 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · ४५ · १ ॥
ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः । निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः । ५.४५.१ ॥

tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ ।
niryuyurbhavanāttasmāt sapta saptārcivarcasaḥ ।
5.45.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · २ ॥
महाबलपरीवारा धनुष्मन्तो महाबलाः । कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः । ५.४५.२ ॥

mahābalaparīvārā dhanuṣmanto mahābalāḥ ।
kṛtāstrāstravidāṁ śreṣṭhāḥ parasparajayaiṣiṇaḥ ।
5.45.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · ३ ॥
हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः । तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः । ५.४५.३ ॥

hemajālaparikṣiptairdhvajavadbhiḥ patākibhiḥ ।
toyadasvananirghoṣairvājiyuktairmahārathaiḥ ।
5.45.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · ४ ॥
तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः । विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः । ५.४५.४ ॥

taptakāñcanacitrāṇi cāpānyamitavikramāḥ ।
visphārayantaḥ saṁhṛṣṭāstaḍitvanta ivāmbudāḥ ।
5.45.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · ५ ॥
जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् । बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः । ५.४५.५ ॥

jananyastu tatasteṣāṁ viditvā kiṅkarān hatān ।
babhūvuḥ śokasambhrāntāḥ sabāndhavasuhṛjjanāḥ ।
5.45.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · ६ ॥
ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः । अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् । ५.४५.६ ॥

te parasparasaṅgharṣāttaptakāñcanabhūṣaṇāḥ ।
abhipeturhanūmantaṁ toraṇasthamavasthitam ।
5.45.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · ७ ॥
सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः । वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः । ५.४५.७ ॥

sṛjanto bāṇavṛṣṭiṁ te rathagarjitaniḥsvanāḥ ।
vṛṣṭimanta ivāmbhodā vicerurnairṛtāmbudāḥ ।
5.45.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · ८ ॥
अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः । अभवत् संवृताकारः शैलराडिव वृष्टिभिः । ५.४५.८ ॥

avakīrṇastatastābhirhanumāñcharavṛṣṭibhiḥ ।
abhavat saṁvṛtākāraḥ śailarāḍiva vṛṣṭibhiḥ ।
5.45.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · ९ ॥
शरान् मोघयामास तेषामाशुचरः कपिः । रथवेगं वीराणां विचरन् विमले ऽम्बरे । ५.४५.९ ॥

sa śarān moghayāmāsa teṣāmāśucaraḥ kapiḥ ।
rathavegaṁ ca vīrāṇāṁ vicaran vimale 'mbare ।
5.45.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · १० ॥
तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते । धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे । ५.४५.१० ॥

sa taiḥ krīḍan dhanuṣmadbhirvyomni vīraḥ prakāśate ।
dhanuṣmadbhiryathā meghairmārutaḥ prabhurambare ।
5.45.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · ११ ॥
कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् । चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् । ५.४५.११ ॥

sa kṛtvā ninadaṁ ghoraṁ trāsayaṁstāṁ mahācamūm ।
cakāra hanumān vegaṁ teṣu rakṣassu vīryavān ।
5.45.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · १२ ॥
तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः । मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् । ५.४५.१२ ॥

talenābhyahanat kāṁścit pādaiḥ kāṁścit parantapaḥ ।
muṣṭinā 'bhyahanat kāṁścinnakhaiḥ kāṁścid vyadārayat ।
5.45.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · १३ ॥
प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः । केचित्तस्य निनादेन तत्रैव पतिता भुवि । ५.४५.१३ ॥

pramamāthorasā kāṁścidūrubhyāmaparān kapiḥ ।
kecittasya ninādena tatraiva patitā bhuvi ।
5.45.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · १४ ॥
ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च । तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् । ५.४५.१४ ॥

tatasteṣvavasanneṣu bhūmau nipatiteṣu ca ।
tatsainyamagamatsarvaṁ diśo bhayārditam ।
5.45.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · १५ ॥
विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः । भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः । ५.४५.१५ ॥

vinedurvisvaraṁ nāgā nipeturbhuvi vājinaḥ ।
bhagnanīḍadhvajacchattrairbhūśca kīrṇā 'bhavadrathaiḥ ।
5.45.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · १६ ॥
स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि । विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा । ५.४५.१६ ॥

sravatā rudhireṇāthasravantyo darśitāḥ pathi ।
vividhaiśca svarairlaṅkā nanāda vikṛtaṁ tadā ।
5.45.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४५ · १७ ॥
तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः । युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् । ५.४५.१७ ॥

sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ ।
yuyutsuranyaiḥ punareva rākṣasaistameva vīro 'bhijagāma toraṇam ।
5.45.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.