वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः ४३ · २४ श्लोकाःSarga 43 · 24 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · ४३ · १ ॥
वनं भग्नं मया चैत्यप्रसादो विनाशितः । तस्मात् प्रासादमप्येव भीमं विध्वंसयाम्यहम् । इति ऽञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् । ५.४३.२ ॥

vanaṁ bhagnaṁ mayā caityaprasādo na vināśitaḥ ।
tasmāt prāsādamapyeva bhīmaṁ vidhvaṁsayāmyaham ।
iti 'ñcintya manasā hanumān darśayan balam ।
5.43.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · २ ॥
चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् । आरुरोह हरिश्रेष्ठो हनुमान् मारुतात्मजः । ५.४३.३ ॥

caityaprāsādamāplutya meruśṛṅgamivonnatam ।
āruroha hariśreṣṭho hanumān mārutātmajaḥ ।
5.43.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · ३ ॥
आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः । बभौ सुमहातेजाः प्रतिसूर्य इवोदितः । ५.४३.४ ॥

āruhya girisaṅkāśaṁ prāsādaṁ hariyūthapaḥ ।
babhau sa sumahātejāḥ pratisūrya ivoditaḥ ।
5.43.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · ४ ॥
संप्रधृष्य दुर्धर्षं चैत्यप्रासादमुत्तमम् । हनुमान् प्रज्वलन् लक्ष्म्या पारियात्रोपमो ऽभवत् । ५.४३.५ ॥

saṁpradhṛṣya ca durdharṣaṁ caityaprāsādamuttamam ।
hanumān prajvalan lakṣmyā pāriyātropamo 'bhavat ।
5.43.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · ५ ॥
भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः । धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् । ५.४३.६ ॥

sa bhūtvā sumahākāyaḥ prabhāvānmārutātmajaḥ ।
dhṛṣṭamāsphoṭayāmāsa laṅkāṁ śabdena pūrayan ।
5.43.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · ६ ॥
तस्यास्फोटितशब्देन महता श्रोत्रघातिना । पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः । ५.४३.७ ॥

tasyāsphoṭitaśabdena mahatā śrotraghātinā ।
peturvihaṅgamāstatra caityapālāśca mohitāḥ ।
5.43.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · ७ ॥
अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः । ५.४३.८ ॥

astravijjayatāṁ rāmo lakṣmaṇaśca mahābalaḥ ।
rājā jayati sugrīvo rāghaveṇābhipālitaḥ ।
5.43.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · ८ ॥
दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः । ५.४३.९ ॥

dāso 'haṁ kosalendrasya rāmasyākliṣṭakarmaṇaḥ ।
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ ।
5.43.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · ९ ॥
रावणसहस्रं मे युद्धे प्रतिबलं भवेत् । शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः । ५.४३.१० ॥

na rāvaṇasahasraṁ me yuddhe pratibalaṁ bhavet ।
śilābhistu praharataḥ pādapaiśca sahasraśaḥ ।
5.43.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · १० ॥
अर्दयित्वा पुरीं लङ्कामभिवाद्य मैथिलीम् । समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् । ५.४३.११ ॥

ardayitvā purīṁ laṅkāmabhivādya ca maithilīm ।
samṛddhārtho gamiṣyāmi miṣatāṁ sarvarakṣasām ।
5.43.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · ११ ॥
एमुक्त्वा विमानस्थश्चैत्यस्थान् हरियूथपः । ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम् । ५.४३.१२ ॥

emuktvā vimānasthaścaityasthān hariyūthapaḥ ।
nanāda bhīmanirhrādo rakṣasāṁ janayan bhayam ।
5.43.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · १२ ॥
तेन शब्देन महता चैत्यपालाः शतं ययुः । गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् । विसृजन्तो महाकाया मारुतिं प्रर्यवारयन् । ५.४३.१३ ॥

tena śabdena mahatā caityapālāḥ śataṁ yayuḥ ।
gṛhītvā vividhānastrān prāsān khaḍgān paraśvadhān ।
visṛjanto mahākāyā mārutiṁ praryavārayan ।
5.43.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · १३ ॥
ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः । आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः । ५.४३.१४ ॥

te gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ ।
ājaghnurvānaraśreṣṭhaṁ bāṇaiścādityasannibhaiḥ ।
5.43.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · १४ ॥
आवर्त इव गङ्गायास्तोयस्य विपुलो महान् । परिक्षिप्य हरिश्रेष्ठं बभौ रक्षसां गणः । ५.४३.१५ ॥

āvarta iva gaṅgāyāstoyasya vipulo mahān ।
parikṣipya hariśreṣṭhaṁ sa babhau rakṣasāṁ gaṇaḥ ।
5.43.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · १५ ॥
ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः । ५.४३.१६ ॥

tato vātātmajaḥ kruddho bhīmarūpaṁ samāsthitaḥ ।
5.43.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · १६ ॥
प्रासादस्य महान्तस्य स्तम्भं हेमपरिष्कृतम् । उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः । ततस्तं भ्रामयामास शताधारं महाबलः । ५.४३.१७ ॥

prāsādasya mahāntasya stambhaṁ hemapariṣkṛtam ।
utpāṭayitvā vegena hanumān pavanātmajaḥ ।
tatastaṁ bhrāmayāmāsa śatādhāraṁ mahābalaḥ ।
5.43.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · १७ ॥
तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत । ५.४३.१८ । टयित्वा वेगेन हनुमान् पवनात्मजः ॥

tatra cāgniḥ samabhavat prāsādaścāpyadahyata ।
5.43.18 ।
ṭayitvā vegena hanumān pavanātmajaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · १८ ॥
दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः । राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् । अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् । ५.४३.१९ ॥

dahyamānaṁ tato dṛṣṭvā prāsādaṁ hariyūthapaḥ ।
sa rākṣasaśataṁ hatvā vajreṇendra ivāsurān ।
antarikṣe sthitaḥ śrīmānidaṁ vacanamabravīt ।
5.43.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · १९ ॥
मादृशानां सहस्राणि विसृष्टानि महात्मनाम् । बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् । ५.४३.२० ॥

mādṛśānāṁ sahasrāṇi visṛṣṭāni mahātmanām ।
balināṁ vānarendrāṇāṁ sugrīvavaśavartinām ।
5.43.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · २० ॥
अटन्ति वसुधां कृत्स्नां वयमन्ये वानराः । ५.४३.२१ ॥

aṭanti vasudhāṁ kṛtsnāṁ vayamanye ca vānarāḥ ।
5.43.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · २१ ॥
दशनागबलाः केचित् केचिद्दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः । ५.४३.२२ ॥

daśanāgabalāḥ kecit keciddaśaguṇottarāḥ ।
kecinnāgasahasrasya babhūvustulyavikramāḥ ।
5.43.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · २२ ॥
सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः । अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः । ५.४३.२३ ॥

santi caughabalāḥ kecit kecidvāyubalopamāḥ ।
aprameyabalāścānye tatrāsan hariyūthapāḥ ।
5.43.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · २३ ॥
ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः । शतैः शतसहस्रैश्च कोटीभिरयुतैरपि । आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः । ५.४३.२४ ॥

īdṛgvidhaistu haribhirvṛto dantanakhāyudhaiḥ ।
śataiḥ śatasahasraiśca koṭībhirayutairapi ।
āgamiṣyati sugrīvaḥ sarveṣāṁ vo niṣūdanaḥ ।
5.43.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४३ · २४ ॥
नेयमस्ति पुरी लङ्का यूयं रावणः । यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना । ५.४३.२५ ॥

neyamasti purī laṅkā na yūyaṁ na ca rāvaṇaḥ ।
yasmādikṣvākunāthena baddhaṁ vairaṁ mahātmanā ।
5.43.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.