वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः ४१ · २१ श्लोकाःSarga 41 · 21 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · ४१ · १ ॥
वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया । तस्माद्देशादपक्रम्य चिन्तयामास वानरः । ५.४१.१ ॥

sa ca vāgbhiḥ praśantābhirgamiṣyan pūjitastayā ।
tasmāddeśādapakramya cintayāmāsa vānaraḥ ।
5.41.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · २ ॥
अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते । ५.४१.२ ॥

alpaśeṣamidaṁ kāryaṁ dṛṣṭeyamasitekṣaṇā ।
trīnupāyānatikramya caturtha iha dṛśyate ।
5.41.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · ३ ॥
साम रक्षस्सु गुणाय कल्पते दानमर्थोपचितेषु युज्यते । भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते । ५.४१.३ ॥

na sāma rakṣassu guṇāya kalpate na dānamarthopaciteṣu yujyate ।
na bhedasādhyā baladarpitā janāḥ parākramastveva mameha rocate ।
5.41.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · ४ ॥
चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । हतप्रवीरा हि रणे राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् । ५.४१.४ ॥

na cāsya kāryasya parākramādṛte viniścayaḥ kaścidihopapadyate ।
hatapravīrā hi raṇe rākṣasāḥ kathaṁcidīyuryadihādya mārdavam ।
5.41.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · ५ ॥
कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । पूर्वकार्याविरोधेन कार्यं कर्तुमर्हति । ५.४१.५ ॥

kārye karmaṇi nirdiṣṭe yo bahūnyapi sādhayet ।
pūrvakāryāvirodhena sa kāryaṁ kartumarhati ।
5.41.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · ६ ॥
ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । यो ह्यर्थं बहुधा वेद समर्थो ऽर्थसाधने । ५.४१.६ ॥

na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ ।
yo hyarthaṁ bahudhā veda sa samartho 'rthasādhane ।
5.41.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · ७ ॥
इहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम् । परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् । ५.४१.७ ॥

ihaiva tāvat kṛtaniścayo hyāhaṁ yadi vrajeyaṁ plavageśvarālayam ।
parātmasaṁmardaviśeṣatattvavit tataḥ kṛtaṁ syānmama bhartṛśāsanam ।
5.41.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · ८ ॥
कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । तथैव खल्वात्मबलं सारवत् संमानयेन्मां रणे दशाननः । ५.४१.८ ॥

kathaṁ nu khalvadya bhavet sukhāgataṁ prasahya yuddhaṁ mama rākṣasaiḥ saha ।
tathaiva khalvātmabalaṁ ca sāravat saṁmānayenmāṁ ca raṇe daśānanaḥ ।
5.41.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · ९ ॥
ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम् । हृदि स्थितं तस्य मतं बलं वै सुखेन मत्वा ऽहमितः पुनर्व्रजे । ५.४१.९ ॥

tataḥ samāsādya raṇe daśānanaṁ samantrivargaṁ sabalaprayāyinam ।
hṛdi sthitaṁ tasya mataṁ balaṁ ca vai sukhena matvā 'hamitaḥ punarvraje ।
5.41.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · १० ॥
इदमस्य नृशंसस्य नन्दनोपममुत्तमम् । वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् । ५.४१.१० ॥

idamasya nṛśaṁsasya nandanopamamuttamam ।
vanaṁ netramanaḥkāntaṁ nānādrumalatāyutam ।
5.41.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · ११ ॥
इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः । अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः । ५.४१.११ ॥

idaṁ vidhvaṁsayiṣyāmi śuṣkaṁ vanamivānalaḥ ।
asmin bhagne tataḥ kopaṁ kariṣyati daśānanaḥ ।
5.41.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · १२ ॥
ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः । त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति । ५.४१.१२ ॥

tato mahat sāśvamahārathadvipaṁ balaṁ samādekṣyati rākṣasādhipaḥ ।
triśūlakālāyasapaṭṭasāyudhaṁ tato mahadyuddhamidaṁ bhaviṣyati ।
5.41.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · १३ ॥
अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः । निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् । ५.४१.१३ ॥

ahaṁ tu taiḥ saṁyati caṇḍavikramaiḥ sametya rakṣobhirasahyavikramaḥ ।
nihatya tadrāvaṇacoditaṁ balaṁ sukhaṁ gamiṣyāmi kapīśvarālayam ।
5.41.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · १४ ॥
ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः । उरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् । ५.४१.१४ ॥

tato mārutavat kruddho mārutirbhīmavikramaḥ ।
uruvegena mahatā drumān kṣeptumathārabhat ।
5.41.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · १५ ॥
ततस्तु हनुमान् वीरो बभञ्च प्रमदावनम् । मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् । ५.४१.१५ ॥

tatastu hanumān vīro babhañca pramadāvanam ।
mattadvijasamāghuṣṭaṁ nānādrumalatāyutam ।
5.41.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · १६ ॥
तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः । चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् । ५.४१.१६ ॥

tadvanaṁ mathitairvṛkṣairbhinnaiśca salilāśayaiḥ ।
cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam ।
5.41.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · १७ ॥
नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः । ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । बभौ तद्वनं तत्र दावानलहतं यथा । ५.४१.१७ ॥

nānāśakuntavirutaiḥ prabhinnaiḥ salilāśayaiḥ ।
tāmraiḥ kisalayaiḥ klāntaiḥ klāntadrumalatāyutam ।
na babhau tadvanaṁ tatra dāvānalahataṁ yathā ।
5.41.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · १८ ॥
व्याकुलावरणा रेजुर्विह्वला इव ता लताः । ५.४१.१८ । किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ॥

vyākulāvaraṇā rejurvihvalā iva tā latāḥ ।
5.41.18 ।
kisalayaiḥ klāntaiḥ klāntadrumalatāyutam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · १९ ॥
लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः । शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् । ५.४१.१९ ॥

latāgṛhaiścitragṛhaiśca nāśitairmahoragairvyālamṛgaiśca nirdhutaiḥ ।
śilāgṛhairunmathitaistathā gṛhaiḥ pranaṣṭarūpaṁ tadabhūnmahadvanam ।
5.41.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · २० ॥
सा विह्वला ऽशोकलताप्रताना वनस्थली शोकलताप्रताना । जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य । ५.४१.२० ॥

sā vihvalā 'śokalatāpratānā vanasthalī śokalatāpratānā ।
jātā daśāsyapramadāvanasya kaperbalāddhi pramadāvanasya ।
5.41.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ४१ · २१ ॥
तस्य कृत्वा ऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः । युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः । ५.४१.२१ ॥

sa tasya kṛtvā 'rthapatermahākapirmahadvyalīkaṁ manaso mahātmanaḥ ।
yuyutsureko bahubhirmahābalaiḥ śriyā jvalaṁstoraṇamāsthitaḥ kapiḥ ।
5.41.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.