वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः ३१ · १९ श्लोकाःSarga 31 · 19 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · ३१ · १ ॥
एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः । संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह । ५.३१.१ ॥

evaṁ bahuvidhāṁ cintāṁ cintayitvā mahākapiḥ ।
saṁśrave madhuraṁ vākyaṁ vaidehyā vyājahāra ha ।
5.31.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · २ ॥
राजा दशरथो नाम रथकुञ्जरवाजिमान् । पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः । ५.३१.२ ॥

rājā daśaratho nāma rathakuñjaravājimān ।
puṇyaśīlo mahākīrtirṛjurāsīnmahāyaśāḥ ।
5.31.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · ३ ॥
राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः । चक्रवर्तिकुले जातः पुरन्दरसमो बले । ५.३१.३ ॥

rājarṣīṇāṁ guṇaśreṣṭastapasā carṣibhiḥ samaḥ ।
cakravartikule jātaḥ purandarasamo bale ।
5.31.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · ४ ॥
अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः । मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः । ५.३१.४ ॥

ahisāratirakṣudrau ghṛṇī satyaparākramaḥ ।
mukhyaścekṣvākuvaṁśasya lakṣmīvām̐llakṣmivardhanaḥ ।
5.31.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · ५ ॥
पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः । पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी । ५.३१.५ ॥

pārthivavyañjanairyuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ ।
pṛthivyāṁ caturantāyāṁ viśrutaḥ sukhadaḥ sukhī ।
5.31.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · ६ ॥
तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः । रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् । ५.३१.६ ॥

tasya putraḥ priyo jyeṣṭhastārādhipanibhānanaḥ ।
rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām ।
5.31.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · ७ ॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य रक्षिता । रक्षिता जीवलोकस्य धर्मस्य परन्तपः । ५.३१.७ ॥

rakṣitā svasya dharmasya svajanasya ca rakṣitā ।
rakṣitā jīvalokasya dharmasya ca parantapaḥ ।
5.31.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · ८ ॥
तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः । सभार्यः सह भ्रात्रा वीरः प्रव्राजितो वनम् । ५.३१.८ ॥

tasya satyābhisandhasya vṛddhasya vacanāt pituḥ ।
sabhāryaḥ saha ca bhrātrā vīraḥ pravrājito vanam ।
5.31.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · ९ ॥
तेन तत्र महारण्ये मृगयां परिधावता । राक्षसा निहताः शूरा बहवः कामरूपिणः । ५.३१.९ ॥

tena tatra mahāraṇye mṛgayāṁ paridhāvatā ।
rākṣasā nihatāḥ śūrā bahavaḥ kāmarūpiṇaḥ ।
5.31.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · १० ॥
जनस्थानवधं श्रुत्वा हतौ खरदूषणौ । ततस्त्वमर्षापहृता जानकी रावणेन तु । वञ्जयित्वा वने रामं मृगरूपेण मायया । ५.३१.१० ॥

janasthānavadhaṁ śrutvā hatau ca kharadūṣaṇau ।
tatastvamarṣāpahṛtā jānakī rāvaṇena tu ।
vañjayitvā vane rāmaṁ mṛgarūpeṇa māyayā ।
5.31.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · ११ ॥
मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् । आससाद वने मित्रं सुग्रीवं नाम वानरम् । ५.३१.११ ॥

sa mārgamāṇastāṁ devīṁ rāmaḥ sītāmaninditām ।
āsasāda vane mitraṁ sugrīvaṁ nāma vānaram ।
5.31.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · १२ ॥
ततः वालिनं हत्वा रामः परपुरञ्जयः । प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः । ५.३१.१२ ॥

tataḥ sa vālinaṁ hatvā rāmaḥ parapurañjayaḥ ।
prāyacchat kapirājyaṁ tat sugrīvāya mahābalaḥ ।
5.31.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · १३ ॥
सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः । दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः । ५.३१.१३ ॥

sugrīveṇāpi sandiṣṭā harayaḥ kāmarūpiṇaḥ ।
dikṣu sarvāsu tāṁ devīṁ vicinvanti sahasraśaḥ ।
5.31.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · १४ ॥
अहं संपातिवचनाच्छतयोजनमायतम् । अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः । ५.३१.१४ ॥

ahaṁ saṁpātivacanācchatayojanamāyatam ।
asyā hetorviśālākṣyāḥ sāgaraṁ vegavān plutaḥ ।
5.31.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · १५ ॥
यथारूपां यथावर्णां यथालक्ष्मीं निश्चिताम् । अश्रौषं राघवस्याहं सेयमासादिता मया । ५.३१.१५ ॥

yathārūpāṁ yathāvarṇāṁ yathālakṣmīṁ ca niścitām ।
aśrauṣaṁ rāghavasyāhaṁ seyamāsāditā mayā ।
5.31.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · १६ ॥
विररामैव मुक्त्वा ऽसौ वाचं वानरपुङ्गवः । जानकी चापि तच्छृत्वा विस्मयं परमं गता । ५.३१.१६ ॥

virarāmaiva muktvā 'sau vācaṁ vānarapuṅgavaḥ ।
jānakī cāpi tacchṛtvā vismayaṁ paramaṁ gatā ।
5.31.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · १७ ॥
ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् । उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत । ५.३१.१७ ॥

tataḥ sā vakrakeśāntā sukeśī keśasaṁvṛtam ।
unnamya vadanaṁ bhīruḥ śiṁśupāvṛkṣamaikṣata ।
5.31.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · १८ ॥
निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य । स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती । ५.३१.१८ ॥

niśamya sītā vacanaṁ kapeśca diśaśca sarvāḥ pradiśaśca vīkṣya ।
svayaṁ praharṣaṁ paramaṁ jagāma sarvātmanā rāmamanusmarantī ।
5.31.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · ३१ · १९ ॥
सा तिर्यगूर्ध्वं तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् । ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् । ५.३१.१९ ॥

sā tiryagūrdhvaṁ ca tathāpyadhastānnirīkṣamāṇā tamacintyabuddhim ।
dadarśa piṅgādhipateramātyaṁ vātātmajaṁ sūryamivodayastham ।
5.31.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.