वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः २३ · २० श्लोकाःSarga 23 · 20 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · २३ · १ ॥
तथा तासां वदन्तीनां परुषं दारुणं बहु । राक्षसीनामसौम्यानां रुरोद जनकात्मजा । ५.२३.१ ॥

tathā tāsāṁ vadantīnāṁ paruṣaṁ dāruṇaṁ bahu ।
rākṣasīnāmasaumyānāṁ ruroda janakātmajā ।
5.23.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · २ ॥
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी । उवाच परमत्रस्ता बाष्पगद्गदया गिरा । ५.२३.२ ॥

evamuktā tu vaidehī rākṣasībhirmanasvinī ।
uvāca paramatrastā bāṣpagadgadayā girā ।
5.23.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · ३ ॥
मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा करिष्यामि वो वचः । ५.२३.३ ॥

na mānuṣī rākṣasasya bhāryā bhavitumarhati ।
kāmaṁ khādata māṁ sarvā na kariṣyāmi vo vacaḥ ।
5.23.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · ४ ॥
सा राक्षसी मध्यगता सीता सुरसुतोपमा । शर्म लेभे दुःखार्ता रावणेन तर्जिता । ५.२३.४ ॥

sā rākṣasī madhyagatā sītā surasutopamā ।
na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā ।
5.23.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · ५ ॥
वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः । वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता । ५ ॥

vepate smādhikaṁ sītā viśantīvāṅgamātmanaḥ ।
vane yūthaparibhraṣṭā mṛgī kokairivārditā ।
5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · ६ ॥
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् । चिन्तयामास शोकेन भर्तारं भग्नमानसा । ५.२३.६ ॥

sā tvaśokasya vipulāṁ śākhāmālambya puṣpitām ।
cintayāmāsa śokena bhartāraṁ bhagnamānasā ।
5.23.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · ७ ॥
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः । चिन्तयन्ती शोकस्य तदान्तमधिगच्छति । ५.२३.७ ॥

sā snāpayantī vipulau stanau netrajalasravaiḥ ।
cintayantī na śokasya tadāntamadhigacchati ।
5.23.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · ८ ॥
सा वेपमाना पतिता प्रवाते कदली यथा । राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् । ५.२३.८ ॥

sā vepamānā patitā pravāte kadalī yathā ।
rākṣasīnāṁ bhayatrastā vivarṇavadanābhavat ।
5.23.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · ९ ॥
तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा । ददृशे कम्पिनी वेणी व्यालीव परिसर्पती । ५.२३.९ ॥

tasyā sā dīrghavipulā vepantyāḥ sītayā tadā ।
dadṛśe kampinī veṇī vyālīva parisarpatī ।
5.23.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · १० ॥
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना । आर्ता व्यसृजदश्रूणि मैथिली विललाप ह । ५.२३.१० ॥

sā niḥśvasantī duḥkhārtā śokopahatacetanā ।
ārtā vyasṛjadaśrūṇi maithilī vilalāpa ha ।
5.23.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · ११ ॥
हा रामेति दुःखार्ता पुनर्हा लक्ष्मणेति च । हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि । ५.२३.११ ॥

hā rāmeti ca duḥkhārtā punarhā lakṣmaṇeti ca ।
hā śvaśru mama kausalye hā sumitreti bhāvini ।
5.23.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · १२ ॥
लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः । अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा । ५.२३.१२ ॥

lokapravādaḥ satyo'yaṁ paṇḍitaiḥ samudāhṛtaḥ ।
akāle durlabho mṛtyuḥ striyā vā puruṣasya vā ।
5.23.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · १३ ॥
यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता । जीवामि हीना रामेण मुहूर्तमपि दुःखिता । ५.२३.१३ ॥

yatrāhamābhiḥ krūrābhī rākṣasībhirihārditā ।
jīvāmi hīnā rāmeṇa muhūrtamapi duḥkhitā ।
5.23.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · १४ ॥
एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् । समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता । ५.२३.१४ ॥

eṣālpapuṇyā kṛpaṇā vinaśiṣyāmyanāthavat ।
samudramadhye nau pūrṇā vāyuvegairivāhatā ।
5.23.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · १५ ॥
भर्तारं तमपश्यन्ती राक्षसीवशमागता । सीदामि खलु शोकेन कूलं तोयहतं यथा । ५.२३.१५ ॥

bhartāraṁ tamapaśyantī rākṣasīvaśamāgatā ।
sīdāmi khalu śokena kūlaṁ toyahataṁ yathā ।
5.23.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · १६ ॥
तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् । धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् । ५.२३.१६ ॥

taṁ padmadalapatrākṣaṁ siṁhavikrāntagāminam ।
dhanyāḥ paśyanti me nāthaṁ kṛtajñaṁ priyavādinam ।
5.23.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · १७ ॥
सर्वथा तेन हीनाया रामेण विदितात्मना । तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् । ५.२३.१७ ॥

sarvathā tena hīnāyā rāmeṇa viditātmanā ।
tīṣkṇaṁ viṣamivāsvādya durlabhaṁ mama jīvitam ।
5.23.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · १८ ॥
कीदृशं तु मया पापं पुरा देहान्तरे कृतम् । येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् । ५.२३.१८ ॥

kīdṛśaṁ tu mayā pāpaṁ purā dehāntare kṛtam ।
yenedaṁ prāpyate duḥkhaṁ mayā ghoraṁ sudāruṇam ।
5.23.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · १९ ॥
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता । राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया । ५.२३.१९ ॥

jīvitaṁ tyaktumicchāmi śokena mahatā vṛtā ।
rākṣasībhiśca rakṣantyā rāmo nāsādyate mayā ।
5.23.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २३ · २० ॥
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् । शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् । ५.२३.२० ॥

dhigastu khalu mānuṣyaṁ dhigastu paravaśyatām ।
na śakyaṁ yatparityaktumātmacchandena jīvitam ।
5.23.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.