वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः १९ · २९ श्लोकाःSarga 19 · 29 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · १९ · १ ॥
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः । आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः । ५.१९.१ ॥

tasya tadvacanaṁ śrutvā sītā raudrasya rakṣasaḥ ।
ārtā dīnasvarā dīnaṁ pratyuvāca śanairvacaḥ ।
5.19.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २ ॥
दुःखार्ता रुदती सीता वेपमाना तपस्विनी । चिन्तयन्ती वरारोहा पतिमेव पतिव्रता । ५.१९.२ ॥

duḥkhārtā rudatī sītā vepamānā tapasvinī ।
cintayantī varārohā patimeva pativratā ।
5.19.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · ३ ॥
तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता । निवर्तय मनो मत्तः स्वजने क्रियतां मनः । ५.१९.३ ॥

tṛṇamantarataḥ kṛtvā pratyuvāca śucismitā ।
nivartaya mano mattaḥ svajane kriyatāṁ manaḥ ।
5.19.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · ४ ॥
मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् । अकार्यं मया कार्यमेकपत्न्या विगर्हितम् । कुलं सम्प्राप्तया पुण्यं कुले महति जातया । ५.१९.४ ॥

na māṁ prārthayituṁ yuktastvaṁ siddhimiva pāpakṛt ।
akāryaṁ na mayā kāryamekapatnyā vigarhitam ।
kulaṁ samprāptayā puṇyaṁ kule mahati jātayā ।
5.19.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · ५ ॥
एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी । राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् । ५.१९.५ ॥

evamuktvā tu vaidehī rāvaṇaṁ taṁ yaśasvinī ।
rākṣasaṁ pṛṣṭhataḥ kṛtvā bhūyo vacanamabravīt ।
5.19.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · ६ ॥
नाहमौपयिकी भार्या परभार्या सती तव । साधु धर्ममवेक्षस्व साधु साधुव्रतं चर । ५.१९.६ ॥

nāhamaupayikī bhāryā parabhāryā satī tava ।
sādhu dharmamavekṣasva sādhu sādhuvrataṁ cara ।
5.19.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · ७ ॥
यथा तव तथान्येषां रक्ष्या दारा निशाचर । आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् । ५.१९.७ ॥

yathā tava tathānyeṣāṁ rakṣyā dārā niśācara ।
ātmānamupamāṁ kṛtvā sveṣu dāreṣu ramyatām ।
5.19.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · ८ ॥
अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् । नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् । ५.१९.८ ॥

atuṣṭaṁ sveṣu dāreṣu capalaṁ calitendriyam ।
nayanti nikṛtiprajñāṁ paradārāḥ parābhavam ।
5.19.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · ९ ॥
इह सन्तो वा सन्ति सतो वा नानुवर्तसे । वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः । ५.१९.९ ॥

iha santo na vā santi sato vā nānuvartase ।
vaco mithyā praṇītātmā pathyamuktaṁ vicakṣaṇaiḥ ।
5.19.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · १० ॥
अकृतात्मानमासाद्य राजानमनये रतम् । समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च । ५.१९.१० ॥

akṛtātmānamāsādya rājānamanaye ratam ।
samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca ।
5.19.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · ११ ॥
तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कुला । अपराधात्तवैकस्य नचिराद्विनशिष्यति । ५.१९.११ ॥

tatheyaṁ tvāṁ samāsādya laṅkā ratnaugha saṅkulā ।
aparādhāttavaikasya nacirādvinaśiṣyati ।
5.19.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · १२ ॥
स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः । अभिनन्दन्ति भूतानि विनाशे पापकर्मणः । ५.१९.१२ ॥

svakṛtairhanyamānasya rāvaṇādīrghadarśinaḥ ।
abhinandanti bhūtāni vināśe pāpakarmaṇaḥ ।
5.19.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · १३ ॥
एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः । दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः । ५.१९.१३ ॥

evaṁ tvāṁ pāpakarmāṇaṁ vakṣyanti nikṛtā janāḥ ।
diṣṭyaitadvyasanaṁ prāpto raudra ityeva harṣitāḥ ।
5.19.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · १४ ॥
शक्या लोभयितुं नाहमैश्वर्येण धनेन वा । अनन्या राघवेणाहं भास्करेण प्रभा यथा । ५.१९.१४ ॥

śakyā lobhayituṁ nāhamaiśvaryeṇa dhanena vā ।
ananyā rāghaveṇāhaṁ bhāskareṇa prabhā yathā ।
5.19.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · १५ ॥
उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् । कथं नामोपधास्यामि भुजमन्यस्य कस्य चित् । ५.१९.१५ ॥

upadhāya bhujaṁ tasya lokanāthasya satkṛtam ।
kathaṁ nāmopadhāsyāmi bhujamanyasya kasya cit ।
5.19.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · १६ ॥
अहमौपयिकी भार्या तस्यैव वसुधापतेः । व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः । ५.१९.१६ ॥

ahamaupayikī bhāryā tasyaiva vasudhāpateḥ ।
vratasnātasya viprasya vidyeva viditātmanaḥ ।
5.19.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · १७ ॥
साधु रावण रामेण मां समानय दुःखिताम् । वने वाशितया सार्धं करेण्वेव गजाधिपम् । ५.१९.१७ ॥

sādhu rāvaṇa rāmeṇa māṁ samānaya duḥkhitām ।
vane vāśitayā sārdhaṁ kareṇveva gajādhipam ।
5.19.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · १८ ॥
मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता । वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः । ५.१९.१८ ॥

mitramaupayikaṁ kartuṁ rāmaḥ sthānaṁ parīpsatā ।
vadhaṁ cānicchatā ghoraṁ tvayāsau puruṣarṣabhaḥ ।
5.19.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · १९ ॥
वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश् चिरम् । त्वद्विधं तु सङ्क्रुद्धो लोकनाथः राघवः । ५.१९.१९ ॥

varjayedvajramutsṛṣṭaṁ varjayedantakaś ciram ।
tvadvidhaṁ na tu saṅkruddho lokanāthaḥ sa rāghavaḥ ।
5.19.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २० ॥
रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् । शतक्रतुविसृष्टस्य निर्घोषमशनेरिव । ५.१९.२० ॥

rāmasya dhanuṣaḥ śabdaṁ śroṣyasi tvaṁ mahāsvanam ।
śatakratuvisṛṣṭasya nirghoṣamaśaneriva ।
5.19.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २१ ॥
इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः । इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः । ५.१९.२१ ॥

iha śīghraṁ suparvāṇo jvalitāsyā ivoragāḥ ।
iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ ।
5.19.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २२ ॥
रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः । असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः । ५.१९.२२ ॥

rakṣāṁsi parinighnantaḥ puryāmasyāṁ samantataḥ ।
asampātaṁ kariṣyanti patantaḥ kaṅkavāsasaḥ ।
5.19.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २३ ॥
राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् । उद्धरिष्यति वेगेन वैनतेय इवोरगान् । ५.१९.२३ ॥

rākṣasendramahāsarpānsa rāmagaruḍo mahān ।
uddhariṣyati vegena vainateya ivoragān ।
5.19.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २४ ॥
अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः । असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः । ५.१९.२४ ॥

apaneṣyati māṁ bhartā tvattaḥ śīghramarindamaḥ ।
asurebhyaḥ śriyaṁ dīptāṁ viṣṇustribhiriva kramaiḥ ।
5.19.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २५ ॥
जनस्थाने हतस्थाने निहते रक्षसां बले । अशक्तेन त्वया रक्षः कृतमेतदसाधु वै । ५.१९.२५ ॥

janasthāne hatasthāne nihate rakṣasāṁ bale ।
aśaktena tvayā rakṣaḥ kṛtametadasādhu vai ।
5.19.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २६ ॥
आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः । गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम । ५.१९.२६ ॥

āśramaṁ tu tayoḥ śūnyaṁ praviśya narasiṁhayoḥ ।
gocaraṁ gatayorbhrātrorapanītā tvayādhama ।
5.19.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २७ ॥
हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया । शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव । ५.१९.२७ ॥

na hi gandhamupāghrāya rāmalakṣmaṇayostvayā ।
śakyaṁ sandarśane sthātuṁ śunā śārdūlayoriva ।
5.19.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २८ ॥
तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् । वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः । ५.१९.२८ ॥

tasya te vigrahe tābhyāṁ yugagrahaṇamasthiram ।
vṛtrasyevendrabāhubhyāṁ bāhorekasya nigrahaḥ ।
5.19.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · १९ · २९ ॥
क्षिप्रं तव नाथो मे रामः सौमित्रिणा सह । तोयमल्पमिवादित्यः प्राणानादास्यते शरैः । ५.१९.२९ ॥

kṣipraṁ tava sa nātho me rāmaḥ saumitriṇā saha ।
toyamalpamivādityaḥ prāṇānādāsyate śaraiḥ ।
5.19.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.