वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९९ · २० श्लोकाःSarga 99 · 20 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९९ · १ ॥
रजन्यां तु प्रभातायां समानीय महामुनीन् । गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह । ७.९९.१ ॥ ॥

rajanyāṁ tu prabhātāyāṁ samānīya mahāmunīn ।
gīyatāmaviśaṅkābhyāṁ rāmaḥ putrāvuvāca ha ।
7.99.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · २ ॥
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु । भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ । ७.९९.२ ॥ ॥

tataḥ samupaviṣṭeṣu brahmarṣiṣu mahātmasu ।
bhaviṣyaduttaraṁ kāvyaṁ jagatustau kuśīlavau ।
7.99.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · ३ ॥
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा । तस्यावसाने यज्ञस्य रामः परमदुर्मनाः । ७.९९.३ ॥ ॥

praviṣṭāyāṁ tu sītāyāṁ bhūtalaṁ satyasampadā ।
tasyāvasāne yajñasya rāmaḥ paramadurmanāḥ ।
7.99.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · ४ ॥
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् । शोकेन परमायस्तो शान्तिं मनसा ऽगमत् । ७.९९.४ ॥ ॥

apaśyamāno vaidehīṁ mene śūnyamidaṁ jagat ।
śokena paramāyasto na śāntiṁ manasā 'gamat ।
7.99.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · ५ ॥
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् । जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च । ७.९९.५ ॥ ॥

visṛjya pārthivānsarvānṛkṣavānararākṣasān ।
janaughaṁ vipramukhyānāṁ vittapūrvaṁ visṛjya ca ।
7.99.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · ६ ॥
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः । ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः । ७.९९.६ ॥ ॥

evaṁ samāpya yajñaṁ tu vidhivatsa tu rāghavaḥ ।
tato visṛjya tānsarvānrāmo rājīvalocanaḥ ।
7.99.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · ७ ॥
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह । इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः । ७.९९.७ ॥ ॥

hṛdi kṛtvā tadā sītāmayodhyāṁ praviveśa ha ।
iṣṭayajño narapatiḥ putradvayasamanvitaḥ ।
7.99.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · ८ ॥
सीतायाः परां भार्यां वव्रे रघुनन्दनः । यज्ञे यज्ञे पत्न्यर्थं जानकी काञ्चनी भवत् । ७.९९.८ ॥ ॥

na sītāyāḥ parāṁ bhāryāṁ vavre sa raghunandanaḥ ।
yajñe yajñe ca patnyarthaṁ jānakī kāñcanī bhavat ।
7.99.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · ९ ॥
दशवर्षसहस्राणि वाजिमेघानथाकरोत् । वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् । ७.९९.९ ॥ ॥

daśavarṣasahasrāṇi vājimeghānathākarot ।
vājapeyāndaśaguṇāṁstathā bahusuvarṇakān ।
7.99.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · १० ॥
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः । ईजे क्रतुभिरन्यैश्च श्रीमानाप्तदक्षिणैः । ७.९९.१० ॥ ॥

agniṣṭomātirātrābhyāṁ gosavaiśca mahādhanaiḥ ।
īje kratubhiranyaiśca sa śrīmānāptadakṣiṇaiḥ ।
7.99.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · ११ ॥
एवं कालः सुमहान्राज्यस्थस्य महात्मनः । धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु । ७.९९.११ ॥ ॥

evaṁ sa kālaḥ sumahānrājyasthasya mahātmanaḥ ।
dharme prayatamānasya vyatīyādrāghavasya tu ।
7.99.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · १२ ॥
अनुरञ्जन्ति राजानमहन्यहनि राघवम् । ऋक्षवानररक्षांसि स्थिता रामस्य शासने । ७.९९.१२ ॥ ॥

anurañjanti rājānamahanyahani rāghavam ।
ṛkṣavānararakṣāṁsi sthitā rāmasya śāsane ।
7.99.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · १३ ॥
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः । हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा । ७.९९.१३ ॥ ॥

kāle varṣati parjanyaḥ subhikṣaṁ vimalā diśaḥ ।
hṛṣṭapuṣṭajanākīrṇaṁ puraṁ janapadāstathā ।
7.99.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · १४ ॥
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा । नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति । ७.९९.१४ ॥ ॥

nākāle mriyate kaścinna vyādhiḥ prāṇināṁ tathā ।
nānartho vidyate kaścidrāme rājyaṁ praśāsati ।
7.99.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · १५ ॥
अथ दीर्घस्य कालस्य राममाता यशस्विनी । पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् । ७.९९.१५ ॥ ॥

atha dīrghasya kālasya rāmamātā yaśasvinī ।
putrapautraiḥ parivṛtā kāladharmamupāgamat ।
7.99.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · १६ ॥
अन्वियाय सुमित्रा कैकेयी यशस्विनी । धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता । ७.९९.१६ ॥ ॥

anviyāya sumitrā ca kaikeyī ca yaśasvinī ।
dharmaṁ kṛtvā bahuvidhaṁ tridive paryavasthitā ।
7.99.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · १७ ॥
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च । समागता महाभागाः सर्वधर्मं लेभिरे । ७.९९.१७ ॥ ॥

sarvāḥ pramuditāḥ svarge rājñā daśarathena ca ।
samāgatā mahābhāgāḥ sarvadharmaṁ ca lebhire ।
7.99.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · १८ ॥
तासां रामो महादानं काले काले प्रयच्छति । मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु । ७.९९.१८ ॥ ॥

tāsāṁ rāmo mahādānaṁ kāle kāle prayacchati ।
māta'ṇāmaviśeṣeṇa brāhmaṇeṣu tapasviṣu ।
7.99.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · १९ ॥
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् । चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् । ७.९९.१९ ॥ ॥

pitryāṇi brahmaratnāni yajñānparamadustarān ।
cakāra rāmo dharmātmā pita'ndevānvivardhayan ।
7.99.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९९ · २० ॥
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् । यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा । ७.९९.२० ॥

evaṁ varṣasahasrāṇi bahūnyatha yayuḥ sukham ।
yajñairbahuvidhaṁ dharmaṁ vardhayānasya sarvadā ।
7.99.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.