वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९८ · २७ श्लोकाःSarga 98 · 27 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९८ · १ ॥
रसातलं प्रविष्टायां वैदेह्यां सर्ववानराः । चुक्रुशुः साधु साध्वीति मुनयो रामसन्निधौ । ७.९८.१ ॥ ॥

rasātalaṁ praviṣṭāyāṁ vaidehyāṁ sarvavānarāḥ ।
cukruśuḥ sādhu sādhvīti munayo rāmasannidhau ।
7.98.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · २ ॥
दण्डकाष्ठमवष्टभ्य बाष्पव्याकुलितेक्षणः । अवाक्छिरा दीनमना रामो ह्यासीत्सुदुःखितः । ७.९८.२ ॥ ॥

daṇḍakāṣṭhamavaṣṭabhya bāṣpavyākulitekṣaṇaḥ ।
avākchirā dīnamanā rāmo hyāsītsuduḥkhitaḥ ।
7.98.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · ३ ॥
रुदित्वा चिरं कालं बहुशो बाष्पमुत्सृजन् । क्रोधशोकसमाविष्टो रामो वचनमब्रवीत् । ७.९८.३ ॥ ॥

sa ruditvā ciraṁ kālaṁ bahuśo bāṣpamutsṛjan ।
krodhaśokasamāviṣṭo rāmo vacanamabravīt ।
7.98.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · ४ ॥
अभूतपूर्वं शोकं मे मनः स्प्रष्टुमिवेच्छति । पश्यतो मे यथा नष्टा सीता श्रीरिव रूपिणी । ७.९८.४ ॥ ॥

abhūtapūrvaṁ śokaṁ me manaḥ spraṣṭumivecchati ।
paśyato me yathā naṣṭā sītā śrīriva rūpiṇī ।
7.98.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · ५ ॥
सा ऽदर्शनं पुरा सीता लङ्कापारे महोदधेः । ततश्चापि मयानीता किं पुनर्वसुधातलात् । ७.९८.५ ॥ ॥

sā 'darśanaṁ purā sītā laṅkāpāre mahodadheḥ ।
tataścāpi mayānītā kiṁ punarvasudhātalāt ।
7.98.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · ६ ॥
वसुधे देवि भवति सीता निर्यात्यतां मम । दर्शयिष्यामि वा रोषं यथा मामवगच्छसि । ७.९८.६ ॥ ॥

vasudhe devi bhavati sītā niryātyatāṁ mama ।
darśayiṣyāmi vā roṣaṁ yathā māmavagacchasi ।
7.98.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · ७ ॥
कामं श्वश्रूर्ममैव त्वं त्वत्सकाशाद्धि मैथिली । कर्षता हलहस्तेन जनकेनोद्धृता पुरा । ७.९८.७ ॥ ॥

kāmaṁ śvaśrūrmamaiva tvaṁ tvatsakāśāddhi maithilī ।
karṣatā halahastena janakenoddhṛtā purā ।
7.98.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · ८ ॥
तस्मान्निर्यात्यतां सीता विवरं वा प्रयच्छ मे । पाताले नाकपृष्ठे वा वसेयं सहितस्तया । ७.९८.८ ॥ ॥

tasmānniryātyatāṁ sītā vivaraṁ vā prayaccha me ।
pātāle nākapṛṣṭhe vā vaseyaṁ sahitastayā ।
7.98.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · ९ ॥
आनय त्वं हि तां सीतां मत्तो ऽहं मैथिलीकृते । मे दास्यसि चेत्सीतां यथारूपां महीतले । ७.९८.९ ॥ ॥

ānaya tvaṁ hi tāṁ sītāṁ matto 'haṁ maithilīkṛte ।
na me dāsyasi cetsītāṁ yathārūpāṁ mahītale ।
7.98.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · १० ॥
सपर्वतवनां कृत्स्नां विधमिष्यामि ते स्थितम् । नाशयिष्याम्यहं भूमिं सर्वमापो भवत्विह । ७.९८.१० ॥ ॥

saparvatavanāṁ kṛtsnāṁ vidhamiṣyāmi te sthitam ।
nāśayiṣyāmyahaṁ bhūmiṁ sarvamāpo bhavatviha ।
7.98.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · ११ ॥
एवं ब्रुवाणे काकुत्स्थे क्रोधशोकसमन्विते । ब्रह्मा सुरगणैः सार्धमुवाच रघुनन्दनम् । ७.९८.११ ॥ ॥

evaṁ bruvāṇe kākutsthe krodhaśokasamanvite ।
brahmā suragaṇaiḥ sārdhamuvāca raghunandanam ।
7.98.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · १२ ॥
राम राम सन्तापं कर्तुमर्हसि सुव्रत । स्मर त्वं पूर्वकं भावं मन्त्रं चामित्रकर्शन । ७.९८.१२ ॥ ॥

rāma rāma na santāpaṁ kartumarhasi suvrata ।
smara tvaṁ pūrvakaṁ bhāvaṁ mantraṁ cāmitrakarśana ।
7.98.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · १३ ॥
खलु त्वां महाबाहो स्मारयेयमनुत्तमम् । इमं मुहूर्तं दुर्धर्ष स्मर त्वं जन्म वैष्णवम् । ७.९८.१३ ॥ ॥

na khalu tvāṁ mahābāho smārayeyamanuttamam ।
imaṁ muhūrtaṁ durdharṣa smara tvaṁ janma vaiṣṇavam ।
7.98.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · १४ ॥
सीता हि विमला साध्वी तव पूर्वपरायणा । नागलोकं सुखं प्रायात्त्वदाश्रयतपोबलात् । ७.९८.१४ ॥ ॥

sītā hi vimalā sādhvī tava pūrvaparāyaṇā ।
nāgalokaṁ sukhaṁ prāyāttvadāśrayatapobalāt ।
7.98.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · १५ ॥
स्वर्गे ते सङ्गमो भूयो भविष्यति संशयः । अस्यास्तु परिषन्मध्ये यद्ब्रवीमि निबोध तत् । ७.९८.१५ ॥ ॥

svarge te saṅgamo bhūyo bhaviṣyati na saṁśayaḥ ।
asyāstu pariṣanmadhye yadbravīmi nibodha tat ।
7.98.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · १६ ॥
एतदेव हि काव्यं ते काव्यानामुत्तमं श्रुतम् । सर्वं विस्तरतो राम व्याख्यास्यति संशयः । ७.९८.१६ ॥ ॥

etadeva hi kāvyaṁ te kāvyānāmuttamaṁ śrutam ।
sarvaṁ vistarato rāma vyākhyāsyati na saṁśayaḥ ।
7.98.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · १७ ॥
जन्मप्रभृति ते वीर सुखदुःखोपसेवनम् । भविष्यदुत्तरं चेह सर्वं वाल्मीकिना कृतम् । ७.९८.१७ ॥ ॥

janmaprabhṛti te vīra sukhaduḥkhopasevanam ।
bhaviṣyaduttaraṁ ceha sarvaṁ vālmīkinā kṛtam ।
7.98.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · १८ ॥
आदिकाव्यमिदं राम त्वयि सर्वं प्रतिष्ठितम् । नह्यन्यो ऽर्हति काव्यानां यशोभाग्राघवादृते । ७.९८.१८ ॥ ॥

ādikāvyamidaṁ rāma tvayi sarvaṁ pratiṣṭhitam ।
nahyanyo 'rhati kāvyānāṁ yaśobhāgrāghavādṛte ।
7.98.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · १९ ॥
श्रुतं ते पूर्वमेतद्धि मया सर्वं सुरैः सह । दिव्यमद्भुतरूपं सत्यवाक्यमनावृतम् । ७.९८.१९ ॥ ॥

śrutaṁ te pūrvametaddhi mayā sarvaṁ suraiḥ saha ।
divyamadbhutarūpaṁ ca satyavākyamanāvṛtam ।
7.98.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · २० ॥
त्वं पुरुषशार्दूल धर्मेण सुसमाहितः । शेषं भविष्यं काकुत्स्थ काव्यं रामायणं शृणु । ७.९८.२० ॥ ॥

sa tvaṁ puruṣaśārdūla dharmeṇa susamāhitaḥ ।
śeṣaṁ bhaviṣyaṁ kākutstha kāvyaṁ rāmāyaṇaṁ śṛṇu ।
7.98.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · २१ ॥
उत्तरं नाम काव्यस्य शेषमत्र महायशः । तच्छृणुष्व महातेज ऋषिभिः सार्धमुत्तमम् । ७.९८.२१ ॥ ॥

uttaraṁ nāma kāvyasya śeṣamatra mahāyaśaḥ ।
tacchṛṇuṣva mahāteja ṛṣibhiḥ sārdhamuttamam ।
7.98.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · २२ ॥
खल्वन्येन काकुत्स्थ श्रोतव्यमिदमुत्तमम् । परमम् ऋषिणा वीर त्वयैव रघुनन्दन । ७.९८.२२ ॥ ॥

na khalvanyena kākutstha śrotavyamidamuttamam ।
paramam ṛṣiṇā vīra tvayaiva raghunandana ।
7.98.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · २३ ॥
एतावदुक्त्वा वचनं ब्रह्मा त्रिभुवनेश्वरः । जगाम त्रिदिवं देवो देवैः सह सबान्धवैः । ७.९८.२३ ॥ ॥

etāvaduktvā vacanaṁ brahmā tribhuvaneśvaraḥ ।
jagāma tridivaṁ devo devaiḥ saha sabāndhavaiḥ ।
7.98.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · २४ ॥
ये तत्र महात्मान ऋषयो ब्राह्मलौकिकाः । ब्रह्मणा समनुज्ञाता न्यवर्तन्त महौजसः । उत्तरं श्रोतुमनसो भविष्यं यच्च राघवे । ७.९८.२४ ॥ ॥

ye ca tatra mahātmāna ṛṣayo brāhmalaukikāḥ ।
brahmaṇā samanujñātā nyavartanta mahaujasaḥ ।
uttaraṁ śrotumanaso bhaviṣyaṁ yacca rāghave ।
7.98.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · २५ ॥
ततो रामः शुभां वाणीं देवदेवस्य भाषिताम् । श्रुत्वा परमतेजस्वी वाल्मीकिमिदमब्रवीत् । ७.९८.२५ ॥ ॥

tato rāmaḥ śubhāṁ vāṇīṁ devadevasya bhāṣitām ।
śrutvā paramatejasvī vālmīkimidamabravīt ।
7.98.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · २६ ॥
भगवन् श्रोतुमनस ऋषयो ब्राह्मलौकिकाः । भविष्यदुत्तरं यन्मे श्वोभूते सम्प्रवर्तताम् । ७.९८.२६ ॥ ॥

bhagavan śrotumanasa ṛṣayo brāhmalaukikāḥ ।
bhaviṣyaduttaraṁ yanme śvobhūte sampravartatām ।
7.98.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९८ · २७ ॥
एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ । तं जनौघं विसृज्याथ पर्णशालामुपागमत् । तामेव शोचतः सीतां सा व्यतीयाय शर्वरी । ७.९८.२७ ॥

evaṁ viniścayaṁ kṛtvā sampragṛhya kuśīlavau ।
taṁ janaughaṁ visṛjyātha parṇaśālāmupāgamat ।
tāmeva śocataḥ sītāṁ sā vyatīyāya śarvarī ।
7.98.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.