वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९७ · २७ श्लोकाःSarga 97 · 27 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९७ · १ ॥
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत । प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् । ७.९७.१ ॥ ॥

vālmīkinaivamuktastu rāghavaḥ pratyabhāṣata ।
prāñjalirjagato madhye dṛṣṭvā tāṁ varavarṇinīm ।
7.97.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · २ ॥
एवमेतन्महाभाग यथा वदसि धर्मवित् । प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः । ७.९७.२ ॥ ॥

evametanmahābhāga yathā vadasi dharmavit ।
pratyayastu mama brahmaṁstava vākyairakalmaṣaiḥ ।
7.97.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · ३ ॥
प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ । शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता । लोकापवादो बलवान्येन त्यक्ता हि मैथिली । ७.९७.३ ॥ ॥

pratyayastu purā vṛtto vaidehyāḥ surasannidhau ।
śapathastu kṛtastatra tena veśma praveśitā ।
lokāpavādo balavānyena tyaktā hi maithilī ।
7.97.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · ४ ॥
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता । परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति । ७.९७.४ ॥ ॥

seyaṁ lokabhayādbrahmannapāpetyabhijānatā ।
parityaktā mayā sītā tadbhāvankṣantumarhati ।
7.97.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · ५ ॥
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ । शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे । ७.९७.५ ॥ ॥

jānāmi cemau putrau me yamajātau kuśīlavau ।
śuddhāyāṁ jagato madhye maithilyāṁ prītirastu me ।
7.97.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · ६ ॥
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः । सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः । ७.९७.६ ॥ ॥

abhiprāyaṁ tu vijñāya rāmasya surasattamāḥ ।
sītāyāḥ śapathe tasmin mahendrādyā mahaujasaḥ ।
7.97.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · ७ ॥
पितामहं पुरस्कृत्य सर्व एव समागताः । ७.९७.७ ॥ ॥

pitāmahaṁ puraskṛtya sarva eva samāgatāḥ ।
7.97.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · ८ ॥
आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः । गन्धर्वाप्सरसश्चैव सर्व एव समागताः । ७.९७.८ ॥ ॥

ādityā vasavo rudrā hyaśvinau samarudgaṇāḥ ।
gandharvāpsarasaścaiva sarva eva samāgatāḥ ।
7.97.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · ९ ॥
साध्याश्च विश्वेदेवाश्च सर्वे परमर्षयः । नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः । सीताशपथसम्भ्रान्ताः सर्व एव समागताः । ७.९७.९ ॥ ॥

sādhyāśca viśvedevāśca sarve ca paramarṣayaḥ ।
nāgāḥ suparṇāḥ siddhāśca te sarve hṛṣṭamānasāḥ ।
sītāśapathasambhrāntāḥ sarva eva samāgatāḥ ।
7.97.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · १० ॥
दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् । प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः । ७.९७.१० ॥ ॥

dṛṣṭvā devānṛṣīṁścaiva rāghavaḥ punarabravīt ।
pratyayo me naraśreṣṭhā ṛṣivākyairakalmaṣaiḥ ।
7.97.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · ११ ॥
शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे । ७.९७.११ ॥ ॥

śuddhāyāṁ jagato madhye vaidehyāṁ prītirastu me ।
7.97.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · १२ ॥
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः । तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः । ७.९७.१२ ॥ ॥

tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ ।
tajjanaughaṁ suraśreṣṭho hlādayāmāsa sarvataḥ ।
7.97.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · १३ ॥
तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः । मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा । ७.९७.१३ ॥ ॥

tadadbhutamivācintyaṁ niraikṣanta samāgatāḥ ।
mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṁ kṛtayuge yathā ।
7.97.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · १४ ॥
सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी । अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी । ७.९७.१४ ॥ ॥

sarvānsamāgatāndṛṣṭvā sītā kāṣāyavāsinī ।
abravītprāñjalirvākyamadhodṛṣṭiravāṅmukhī ।
7.97.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · १५ ॥
यथा ऽहं राघवादन्यं मनसापि चिन्तये । तथा मे माधवी देवी विवरं दातुमर्हति । ७.९७.१५ ॥ ॥

yathā 'haṁ rāghavādanyaṁ manasāpi na cintaye ।
tathā me mādhavī devī vivaraṁ dātumarhati ।
7.97.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · १६ ॥
मनसा कर्मणा वाचा यथा रामं समर्चये । तथा मे माधवी देवी विवरं दातुमर्हति । ७.९७.१६ ॥ ॥

manasā karmaṇā vācā yathā rāmaṁ samarcaye ।
tathā me mādhavī devī vivaraṁ dātumarhati ।
7.97.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · १७ ॥
यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं च । तथा मे माधवी देवी विवरं दातुमर्हति । ७.९७.१७ ॥ ॥

yathaitatsatyamuktaṁ me vedmi rāmātparaṁ na ca ।
tathā me mādhavī devī vivaraṁ dātumarhati ।
7.97.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · १८ ॥
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् । भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् । ७.९७.१८ ॥ ॥

tathā śapantyāṁ vaidehyāṁ prādurāsīttadadbhutam ।
bhūtalādutthitaṁ divyaṁ siṁhāsanamanuttamam ।
7.97.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · १९ ॥
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः । दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः । ७.९७.१९ ॥ ॥

dhriyamāṇaṁ śirobhistu nāgairamitavikramaiḥ ।
divyaṁ divyena vapuṣā divyaratnavibhūṣitaiḥ ।
7.97.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · २० ॥
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् । स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् । ७.९७.२० ॥ ॥

tasmiṁstu dharaṇī devī bāhubhyāṁ gṛhya maithilīm ।
svāgatenābhinandyaināmāsane copaveśayat ।
7.97.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · २१ ॥
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् । पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् । ७.९७.२१ ॥ ॥

tāmāsanagatāṁ dṛṣṭvā praviśantīṁ rasātalam ।
puṣpavṛṣṭiravicchinnā divyā sītāmavākirat ।
7.97.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · २२ ॥
साधुकारश्च सुमहान्देवानां सहसोत्थितः । साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् । ७.९७.२२ ॥ ॥

sādhukāraśca sumahāndevānāṁ sahasotthitaḥ ।
sādhu sādhviti vai sīte yasyāste śīlamīdṛśam ।
7.97.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · २३ ॥
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः । व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् । ७.९७.२३ ॥ ॥

evaṁ bahuvidhā vāco hyantarikṣagatāḥ surāḥ ।
vyājahrurhṛṣṭamanaso dṛṣṭvā sītāpraveśanam ।
7.97.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · २४ ॥
यज्ञवाटगताश्चापि मुनयः सर्व एव ते । राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे । ७.९७.२४ ॥ ॥

yajñavāṭagatāścāpi munayaḥ sarva eva te ।
rājānaśca naravyāghrā vismayānnoparemire ।
7.97.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · २५ ॥
अन्तरिक्षे भूमौ सर्वे स्थावरजङ्गमाः । दानवाश्च महाकायाः पाताले पन्नगाधिपाः । ७.९७.२५ ॥ ॥

antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ ।
dānavāśca mahākāyāḥ pātāle pannagādhipāḥ ।
7.97.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · २६ ॥
केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः । केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः । ७.९७.२६ ॥ ॥

kecidvineduḥ saṁhṛṣṭāḥ keciddhyānaparāyaṇāḥ ।
kecidrāmaṁ nirīkṣante kecitsītāmacetanāḥ ।
7.97.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९७ · २७ ॥
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः । तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् । ७.९७.२७ ॥

sītāpraveśanaṁ dṛṣṭvā teṣāmāsītsamāgamaḥ ।
tanmuhūrtamivātyarthaṁ samaṁ sammohitaṁ jagat ।
7.97.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.