वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९६ · २४ श्लोकाःSarga 96 · 24 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९६ · १ ॥
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः । ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः । ७.९६.१ ॥ ॥

tasyāṁ rajanyāṁ vyuṣṭāyāṁ yajñavāṭagato nṛpaḥ ।
ṛṣīnsarvānmahātejāḥ śabdāpayati rāghavaḥ ।
7.96.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · २ ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः । ७.९६.२ ॥ ॥

vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ ।
viśvāmitro dīrghatapā durvāsāśca mahātapāḥ ।
7.96.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · ३ ॥
पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः । मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः । ७.९६.३ ॥ ॥

pulastyo 'pi tathā śaktirbhārgavaścaiva vāmanaḥ ।
mārkaṇḍeyaśca dīrghāyurmaudgalyaśca mahāyaśāḥ ।
7.96.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · ४ ॥
गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् । भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः । ७.९६.४ ॥ ॥

gargaśca cyavanaścaiva śatānandaśca dharmavit ।
bharadvājaśca tejasvī hyagniputraśca suprabhaḥ ।
7.96.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · ५ ॥
नारदः पर्वतश्चैव गौतमश्च महायशाः । कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः । ७.९६.५ ॥ ॥

nāradaḥ parvataścaiva gautamaśca mahāyaśāḥ ।
kātyāyanaḥ suyajñaśca hyagastyastapasāṁ nidhiḥ ।
7.96.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · ६ ॥
एते चान्ये बहवो मुनयः संशितव्रताः । कौतूहलसमाविष्टाः सर्व एव समागताः । ७.९६.६ ॥ ॥

ete cānye ca bahavo munayaḥ saṁśitavratāḥ ।
kautūhalasamāviṣṭāḥ sarva eva samāgatāḥ ।
7.96.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · ७ ॥
राक्षसाश्च महावीर्या वानराश्च महाबलाः । सर्व एव समाजग्मुर्महात्मानः कुतूहलात् । ७.९६.७ ॥ ॥

rākṣasāśca mahāvīryā vānarāśca mahābalāḥ ।
sarva eva samājagmurmahātmānaḥ kutūhalāt ।
7.96.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · ८ ॥
क्षत्रिया ये शूद्राश्च वैश्याश्चैव सहस्रशः । नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः । ७.९६.८ ॥ ॥

kṣatriyā ye ca śūdrāśca vaiśyāścaiva sahasraśaḥ ।
nānādeśagatāścaiva brāhmaṇāḥ saṁśitavratāḥ ।
7.96.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · ९ ॥
ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे । सीताशपथवीक्षार्थं सर्व एव समागताः । ७.९६.९ ॥ ॥

jñānaniṣṭhāḥ karmaniṣṭhāḥ yoganiṣṭhāstathāpare ।
sītāśapathavīkṣārthaṁ sarva eva samāgatāḥ ।
7.96.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · १० ॥
तदा समागतं सर्वमश्मभूतमिवाचलम् । श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् । ७.९६.१० ॥ ॥

tadā samāgataṁ sarvamaśmabhūtamivācalam ।
śrutvā munivarastūrṇaṁ sasītaḥ samupāgamat ।
7.96.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · ११ ॥
तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी । कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् । ७.९६.११ ॥ ॥

tamṛṣiṁ pṛṣṭhataḥ sītā tvanvagacchadavāṅmukhī ।
kṛtāñjalirbāṣpagalā kṛtvā rāmaṁ manogatam ।
7.96.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · १२ ॥
दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् । वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् । ७.९६.१२ ॥ ॥

dṛṣṭvā śrutimivāyāntīṁ brahmāṇamanugāminīm ।
vālmīkeḥ pṛṣṭhataḥ sītāṁ sādhuvādo mahānabhūt ।
7.96.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · १३ ॥
ततो हलहलाशब्दः सर्वेषामेवमाबभौ । दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् । ७.९६.१३ ॥ ॥

tato halahalāśabdaḥ sarveṣāmevamābabhau ।
duḥkhajanmaviśālena śokenākulitātmanām ।
7.96.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · १४ ॥
साधु रामेति केचित्तु साधु सीतेति चापरे । उभावेव तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः । ७.९६.१४ ॥ ॥

sādhu rāmeti kecittu sādhu sīteti cāpare ।
ubhāveva ca tatrānye prekṣakāḥ sampracukruśuḥ ।
7.96.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · १५ ॥
ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः । सीतासहायो वाल्मीकिरिति होवाच राघवम् । ७.९६.१५ ॥ ॥

tato madhye janaughasya praviśya munipuṅgavaḥ ।
sītāsahāyo vālmīkiriti hovāca rāghavam ।
7.96.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · १६ ॥
इयं दाशरथे सीता सुव्रता धर्मचारिणी । अपवादैः परित्यक्ता ममाश्रमसमीपतः । ७.९६.१६ ॥ ॥

iyaṁ dāśarathe sītā suvratā dharmacāriṇī ।
apavādaiḥ parityaktā mamāśramasamīpataḥ ।
7.96.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · १७ ॥
लोकापवादभीतस्य तव राम महाव्रत । प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि । ७.९६.१७ ॥ ॥

lokāpavādabhītasya tava rāma mahāvrata ।
pratyayaṁ dāsyate sītā tadanujñātumarhasi ।
7.96.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · १८ ॥
इमौ तु जानकीपुत्रावुभौ यमजातकौ । सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते । ७.९६.१८ ॥ ॥

imau tu jānakīputrāvubhau ca yamajātakau ।
sutau tavaiva durdharṣau satyametadbravīmi te ।
7.96.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · १९ ॥
प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन । स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ । ७.९६.१९ ॥ ॥

pracetaso 'haṁ daśamaḥ putro rāghavanandana ।
na smarāmyanṛtaṁ vākyamimau tu tava putrakau ।
7.96.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · २० ॥
बहुवर्षसहस्राणि तपश्चर्या मया कृता । नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली । ७.९६.२० ॥ ॥

bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā ।
nopāśnīyāṁ phalaṁ tasyā duṣṭeyaṁ yadi maithilī ।
7.96.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · २१ ॥
मनसा कर्मणा वाचा भूतपूर्वं किल्बिषम् । तस्याः फलमुपाश्नीयामपापा मैथिली यदि । ७.९६.२१ ॥ ॥

manasā karmaṇā vācā bhūtapūrvaṁ na kilbiṣam ।
tasyāḥ phalamupāśnīyāmapāpā maithilī yadi ।
7.96.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · २२ ॥
अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव । विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे । ७.९६.२२ ॥ ॥

ahaṁ pañcasu bhūteṣu manaṣṣaṣṭheṣu rāghava ।
vicintya sītāṁ śuddheti jagrāha vananirjhare ।
7.96.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · २३ ॥
इयं शुद्धसमाचारा अपापा पतिदेवता । लोकापवादभीतस्य प्रत्ययं तव दास्यति । ७.९६.२३ ॥ ॥

iyaṁ śuddhasamācārā apāpā patidevatā ।
lokāpavādabhītasya pratyayaṁ tava dāsyati ।
7.96.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९६ · २४ ॥
तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा । लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा । ७.९६.२४ ॥

tasmādiyaṁ naravarātmaja śuddhabhāvā divyena dṛṣṭiviṣayeṇa tadā praviṣṭā ।
lokāpavādakaluṣīkṛtacetasā yā tyaktā tvayā priyatamā viditā 'pi śuddhā ।
7.96.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.