वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९५ · १६ श्लोकाःSarga 95 · 16 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९५ · १ ॥
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः । ७.९५.१ ॥ ॥

rāmo bahūnyahānyevaṁ tadgītaṁ paramaṁ śubham ।
śuśrāva munibhiḥ sārdhaṁ pārthivaiḥ saha vānaraiḥ ।
7.95.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · २ ॥
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । तस्याः परिषदो मध्ये रामो वचनमब्रवीत् । दूताञ्छुद्धसमाचारानाहूयात्ममनीषया । ७.९५.२ ॥ ॥

tasmingīte tu vijñāya sītāputrau kuśīlavau ।
tasyāḥ pariṣado madhye rāmo vacanamabravīt ।
dūtāñchuddhasamācārānāhūyātmamanīṣayā ।
7.95.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · ३ ॥
मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् । ७.९५.३ । परिषदो मध्ये रामो वचनमब्रवीत् । यदि शुद्धसमाचारा यदि वा वीतकल्मषा । करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् । ७.९५.४ ॥ ॥

madvaco brūta gacchadhvamito bhagavato 'ntikam ।
7.95.3 ।
pariṣado madhye rāmo vacanamabravīt ।
yadi śuddhasamācārā yadi vā vītakalmaṣā ।
karotvihātmanaḥ śuddhimanumānya mahāmunim ।
7.95.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · ४ ॥
छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । प्रत्ययं दातुकामायास्ततः शंसत मे लघु । ७.९५.५ ॥ ॥

chandaṁ muneśca vijñāya sītāyāśca manogatam ।
pratyayaṁ dātukāmāyāstataḥ śaṁsata me laghu ।
7.95.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · ५ ॥
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा । करोतु परिषन्मध्ये शोधनार्थं ममैव च । ७.९५.६ ॥ ॥

śvaḥ prabhāte tu śapathaṁ maithilī janakātmajā ।
karotu pariṣanmadhye śodhanārthaṁ mamaiva ca ।
7.95.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · ६ ॥
श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् । दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः । ७.९५.७ ॥ ॥

śrutvā tu ऱāgavasyaitadvacaḥ paramamadbhutam ।
dūtāḥ samprayayurbāṭaṁ yatrāste munipuṅgavaḥ ।
7.95.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · ७ ॥
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम् । ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च । ७.९५.८ ॥ ॥

te praṇamya mahātmānaṁ jvalantamamitaprabham ।
ūcuste rāmavākyāni mṛdūni madhurāṇi ca ।
7.95.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · ८ ॥
तेषां तद्व्याहृतं श्रुत्वा रामस्य मनोगतम् । विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् । ७.९५.९ ॥ ॥

teṣāṁ tadvyāhṛtaṁ śrutvā rāmasya ca manogatam ।
vijñāya sumahātejā munirvākyamathābravīt ।
7.95.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · ९ ॥
एवं भवतु भद्रं वो यथा वदति राघवः । तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः । ७.९५.१० ॥ ॥

evaṁ bhavatu bhadraṁ vo yathā vadati rāghavaḥ ।
tathā kariṣyate sītā daivataṁ hi patiḥ striyāḥ ।
7.95.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · १० ॥
तथोक्ता मुनिना सर्वे राजदूता महौजसम् । प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे । ७.९५.११ ॥ ॥

tathoktā muninā sarve rājadūtā mahaujasam ।
pratyetya rāghavaṁ kṣipraṁ munivākyaṁ babhāṣire ।
7.95.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · ११ ॥
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः । ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत । ७.९५.१२ ॥ ॥

tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṁ mahātmanaḥ ।
ṛṣīṁstatra sametāṁśca rājñaścaivābhyabhāṣata ।
7.95.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · १२ ॥
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः । पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते । ७.९५.१३ ॥ ॥

bhagavantaḥ saśiṣyā vai sānugāśca narādhipāḥ ।
paśyantu sītāśapathaṁ yaścaivānyo 'pi kāṅkṣate ।
7.95.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · १३ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । सर्वेषामृषिमुख्यानां साधुवादो महानभूत् । ७.९५.१४ ॥ ॥

tasya tadvacanaṁ śrutvā rāghavasya mahātmanaḥ ।
sarveṣāmṛṣimukhyānāṁ sādhuvādo mahānabhūt ।
7.95.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · १४ ॥
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् । उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः । ७.९५.१५ ॥ ॥

rājānaśca mahātmānaḥ praśaṁsanti sma rāghavam ।
upapannaṁ naraśreṣṭha tvayyeva bhuvi nānyataḥ ।
7.95.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · १५ ॥
एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः । विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः । ७.९५.१६ ॥ ॥

evaṁ viniścayaṁ kṛtvā śvobhūta iti rāghavaḥ ।
visarjayāmāsa tadā sarvāṁstāñchatrusūdanaḥ ।
7.95.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९५ · १६ ॥
इति सम्प्रविचार्य राजसिंहः श्वोभूते शपथस्य निश्चयं वै । विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो महानुभावः । ७.९५.१७ ॥

iti sampravicārya rājasiṁhaḥ śvobhūte śapathasya niścayaṁ vai ।
visasarja munīnnṛpāṁśca sarvānsa mahātmā mahato mahānubhāvaḥ ।
7.95.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.