वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९४ · ३२ श्लोकाःSarga 94 · 32 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९४ · १ ॥
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ । यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् । ७.९४.१ ॥ ॥

tau rajanyāṁ prabhātāyāṁ snātau hutahutāśanau ।
yathoktamṛṣiṇā pūrvaṁ sarvaṁ tatropagāyatām ।
7.94.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २ ॥
तां शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् । अपूर्वां पाठ्यजातिं गेयेन समलङ्कृताम् । ७.९४.२ ॥ ॥

tāṁ sa śuśrāva kākutsthaḥ pūrvācāryavijirmitām ।
apūrvāṁ pāṭhyajātiṁ ca geyena samalaṅkṛtām ।
7.94.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ३ ॥
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् । बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् । ७.९४.३ ॥ ॥

pramāṇairbahubhirbaddhāṁ tantrīlayasamanvitām ।
bālābhyāṁ rāghavaḥ śrutvā kautūhalaparo 'bhavat ।
7.94.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ४ ॥
अथ कर्मान्तरे राजा समाहूय महामुनीन् । पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा । ७.९४.४ ॥ ॥

atha karmāntare rājā samāhūya mahāmunīn ।
pārthivāṁśca naravyāghraḥ paṇḍitānnaigamāṁstathā ।
7.94.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ५ ॥
पौराणिकाञ्छब्दविदो ये वृद्धा द्विजातयः । स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् । ७.९४.५ ॥ ॥

paurāṇikāñchabdavido ye ca vṛddhā dvijātayaḥ ।
svarāṇāṁ lakṣaṇajñāṁśca utsukāndvijasattamān ।
7.94.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ६ ॥
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः । पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् । ७.९४.६ ॥ ॥

lakṣaṇajñāṁśca gāndharvānnaigamāṁśca viśeṣataḥ ।
pādākṣarasamāsajñāṁśchandaḥsu pariniṣṭhitān ।
7.94.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ७ ॥
कलामात्राविशेषज्ञाञ्ज्योतिषे परं गतान् । क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् । ७.९४.७ ॥ ॥

kalāmātrāviśeṣajñāñjyotiṣe ca paraṁ gatān ।
kriyākalpavidaścaiva tathā kāryavido janān ।
7.94.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ८ ॥
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः । हेतूपचारकुशलान् वचने चापि हैतुकान् । ७.९४.८ ॥ ॥

bhāṣājñāniṅgitajñāṁśca naigamāṁścāpyaśeṣataḥ ।
hetūpacārakuśalān vacane cāpi haitukān ।
7.94.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ९ ॥
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् । चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् । ७.९४.९ ॥ ॥

chandovidaḥ purāṇajñānvaidikāndvijasattamān ।
citrajñānvṛttasūtrajñāngītanṛtyaviśāradān ।
7.94.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · १० ॥
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् । एतान्सर्वान्समानीय गातारौ समवेशयत् । ७.९४.१० ॥ ॥

śāstrajñānnītinipuṇānvedāntārthaprabodhakān ।
etānsarvānsamānīya gātārau samaveśayat ।
7.94.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ११ ॥
दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः । पिबन्त इव चक्षुर्भ्यां राजानं गायकौ तौ । ७.९४.११ ॥ ॥

dṛṣṭvā munigaṇāḥ sarve pārthivāśca mahaujasaḥ ।
pibanta iva cakṣurbhyāṁ rājānaṁ gāyakau ca tau ।
7.94.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · १२ ॥
ऊचुः परस्परं चेदं सर्व एव समन्ततः । उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ । ७.९४.१२ ॥ ॥

ūcuḥ parasparaṁ cedaṁ sarva eva samantataḥ ।
ubhau rāmasya sadṛśau bimbādbimbamivotthitau ।
7.94.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · १३ ॥
जटिलौ यदि स्यातां वल्कलधरौ यदि । विशेषं नाधिगच्छामो गायतो राघवस्य च । ७.९४.१३ ॥ ॥

jaṭilau yadi na syātāṁ na valkaladharau yadi ।
viśeṣaṁ nādhigacchāmo gāyato rāghavasya ca ।
7.94.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · १४ ॥
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् । गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ । ७.९४.१४ ॥ ॥

teṣāṁ saṁvadatāmevaṁ śrota'ṇāṁ harṣavardhanam ।
geyaṁ pracakratustatra tāvubhau munidārakau ।
7.94.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · १५ ॥
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् । तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा । ७.९४.१५ ॥ ॥

tataḥ pravṛttaṁ madhuraṁ gāndharvamatimānuṣam ।
na ca tṛptiṁ yayuḥ sarve śrotāro gānasampadā ।
7.94.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · १६ ॥
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् । ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् । ७.९४.१६ ॥ ॥

pravṛttamāditaḥ pūrvasargaṁ nāradadarśitam ।
tataḥ prabhṛti sargāṁśca yāvadviṁśatyagāyatām ।
7.94.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · १७ ॥
ततो ऽपराह्णसमये राघवः समभाषत । श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः । ७.९४.१७ ॥ ॥

tato 'parāhṇasamaye rāghavaḥ samabhāṣata ।
śrutvā viṁśatisargāṁstānbhrātaraṁ bhrātṛvatsalaḥ ।
7.94.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · १८ ॥
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः । प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् । ददौ शीघ्रं काकुत्स्थो बालयोर्वै पृथक्पृथक् । ७.९४.१८ ॥ ॥

aṣṭādaśasahasrāṇi suvarṇasya mahātmanoḥ ।
prayaccha śīghraṁ kākutstha yadanyadabhikāṅkṣitam ।
dadau śīghraṁ sa kākutstho bālayorvai pṛthakpṛthak ।
7.94.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · १९ ॥
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ । ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ । ७.९४.१९ ॥ ॥

dīyamānaṁ suvarṇaṁ tu nāgṛhṇītāṁ kuśīlavau ।
ūcatuśca mahātmānau kimaneneti vismitau ।
7.94.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २० ॥
वन्येन फलमूलेन निरतौ वनवासिनौ । सुवर्णेन हिरण्येन किं करिष्यावहे वने । ७.९४.२० ॥ ॥

vanyena phalamūlena niratau vanavāsinau ।
suvarṇena hiraṇyena kiṁ kariṣyāvahe vane ।
7.94.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २१ ॥
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः । श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः । ७.९४.२१ ॥ ॥

tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ ।
śrotāraścaiva rāmaśca sarva eva suvismitāḥ ।
7.94.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २२ ॥
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः । पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ । ७.९४.२२ ॥ ॥

tasya caivāgamaṁ rāmaḥ kāvyasya śrotumutsukaḥ ।
papraccha tau mahātejāstāvubhau munidārakau ।
7.94.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २३ ॥
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः । कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः । ७.९४.२३ ॥ ॥

kimpramāṇamidaṁ kāvyaṁ kā pratiṣṭhā mahātmanaḥ ।
kartā kāvyasya mahataḥ kva cāsau munipuṅgavaḥ ।
7.94.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २४ ॥
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ । ७.९४.२४ ॥ ॥

pṛcchantaṁ rāghavaṁ vākyamūcaturmunidārakau ।
7.94.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २५ ॥
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् । येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् । ७.९४.२५ ॥ ॥

vālmīkirbhagavānkartā samprāpto yajñasaṁvidham ।
yenedaṁ caritaṁ tubhyamaśeṣaṁ sampradarśitam ।
7.94.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २६ ॥
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् । उपाख्यानशतं चैव भार्गवेण तपस्विना । ७.९४.२६ ॥ ॥

sannibaddhaṁ hi ślokānāṁ caturviśatsahasrakam ।
upākhyānaśataṁ caiva bhārgaveṇa tapasvinā ।
7.94.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २७ ॥
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च । काण्डानि षट् कृतानीह सोत्तराणि महात्मना । कृतानि गुरुणास्माकमृषिणा चरितं तव । ७.९४.२७ ॥ ॥

ādiprabhṛti vai rājanpañcasargaśatāni ca ।
kāṇḍāni ṣaṭ kṛtānīha sottarāṇi mahātmanā ।
kṛtāni guruṇāsmākamṛṣiṇā caritaṁ tava ।
7.94.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २८ ॥
प्रतिष्ठा ऽजीवितं यावत्तावत्सर्वस्य वर्तते । ७.९४.२८ ॥

pratiṣṭhā ' 'jīvitaṁ yāvattāvatsarvasya vartate ।
7.94.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · २९ ॥
सोत्तराणि महात्मना । यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ । कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः । ७.९४.२९ ॥ ॥

sottarāṇi mahātmanā ।
yadi buddhiḥ kṛtā rājañchravaṇāya mahāratha ।
karmāntare kṣaṇībhūtastacchṛṇuṣva sahānujaḥ ।
7.94.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ३० ॥
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् । प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः । ७.९४.३० ॥ ॥

bāḍhamityabravīdrāmastau cānujñāpya rāghavam ।
prahṛṣṭau jagmatuḥ sthānaṁ yatrāste munipuṅgavaḥ ।
7.94.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ३१ ॥
रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः । श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् । ७.९४.३१ ॥ ॥

rāmo 'pi munibhiḥ sārdhaṁ pārthivaiśca mahātmabhiḥ ।
śrutvā tadgītimādhuryaṁ karmaśālāmupāgamat ।
7.94.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९४ · ३२ ॥
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स्वरशब्दयुक्तम् । तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् । ७.९४.३२ ॥

śuśrāva tattālalayopapannaṁ sargānvitaṁ sa svaraśabdayuktam ।
tantrīlayavyañjanayogayuktaṁ kuśīlavābhyāṁ parigīyamānam ।
7.94.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.