वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९३ · १९ श्लोकाःSarga 93 · 19 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९३ · १ ॥
वर्तमाने तथाभूते यज्ञे परमाद्भुते । सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः । ७.९३.१ ॥ ॥

vartamāne tathābhūte yajñe ca paramādbhute ।
saśiṣya ājagāmāśu vālmīkirmunipuṅgavaḥ ।
7.93.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · २ ॥
दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् । ७.९३.२ ॥ ॥

sa dṛṣṭvā divyasaṅkāśaṁ yajñamadbhutadarśanam ।
ekānte ṛṣivāṭānāṁ cakāra uṭajāñchubhān ।
7.93.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · ३ ॥
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् । वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः । ७.९३.३ ॥ ॥

śakaṭāṁśca bahūnpūrṇānphalamūlaiśca śobhanān ।
vālmīkivāṭe rucire sthāpayannavidūrataḥ ।
7.93.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · ४ ॥
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः । वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् । ७.९३.४ ॥ ॥

āsītsupūjito rājñā munibhiśca mahātmabhiḥ ।
vālmīkiḥ sumahātejā nyavasatparamātmavān ।
7.93.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · ५ ॥
शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ । कृत्स्नं रामायणं काव्यं गायेथां परया मुदा । ७.९३.५ ॥ ॥

sa śiṣyāvabravīddhṛṣṭau yuvāṁ gatvā samāhitau ।
kṛtsnaṁ rāmāyaṇaṁ kāvyaṁ gāyethāṁ parayā mudā ।
7.93.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · ६ ॥
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च । रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च । ७.९३.६ ॥ ॥

ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca ।
rathyāsu rājamārgeṣu pārthivānāṁ gṛheṣu ca ।
7.93.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · ७ ॥
रामस्य भवनद्वारि यत्र कर्म कुर्वते । ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः । ७.९३.७ ॥ ॥

rāmasya bhavanadvāri yatra karma ca kurvate ।
ṛtvijāmagrataścaiva tatra geyaṁ viśeṣataḥ ।
7.93.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · ८ ॥
इमानि फलान्यत्र स्वादूनि विविधानि च । जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् । ७.९३.८ ॥ ॥

imāni ca phalānyatra svādūni vividhāni ca ।
jātāni parvatāgreṣu cāsvādyāsvādya gāyatām ।
7.93.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · ९ ॥
यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै । मूलानि सुमृष्टानि नगराद्बहिरास्यथः । ७.९३.९ ॥ ॥

na yāsyathaḥ śramaṁ vatsau bhakṣayitvā phalāni vai ।
mūlāni ca sumṛṣṭāni nagarādbahirāsyathaḥ ।
7.93.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · १० ॥
यदि शब्दापयेद्रामः श्रवणाय महीपतिः । ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् । ७.९३.१० ॥ ॥

yadi śabdāpayedrāmaḥ śravaṇāya mahīpatiḥ ।
ṛṣīṇāmupaviṣṭānāṁ tato geyaṁ pravartatām ।
7.93.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · ११ ॥
दिवसे विंशतिः सर्गा गेया मधुरया गिरा । प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा । ७.९३.११ ॥ ॥

divase viṁśatiḥ sargā geyā madhurayā girā ।
pramāṇairbahubhistatra yathoddiṣṭā mayā purā ।
7.93.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · १२ ॥
लोभश्चापि कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया । किं धनेनाश्रमस्थानां फलमूलोपजीविना । ७.९३.१२ ॥ ॥

lobhaścāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā ।
kiṁ dhanenāśramasthānāṁ phalamūlopajīvinā ।
7.93.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · १३ ॥
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ । आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् । ७.९३.१३ ॥ ॥

yadi pṛcchetsa kākutstho yuvāṁ kasyeti dārakau ।
āvāṁ vālmīkiśiṣyau svo brūtamevaṁ narādhipam ।
7.93.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · १४ ॥
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् । मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ । ७.९३.१४ ॥ ॥

imāstantrīḥ sumadhurāḥ sthānaṁ vā 'pūrvadarśanam ।
mūrcchayitvā sumadhuraṁ gāyatāṁ vigatajvarau ।
7.93.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · १५ ॥
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् । पिता हि सर्वभूतानां राजा भविति धर्मतः । ७.९३.१५ ॥ ॥

ādiprabhṛti geyaṁ syānna cāvajñāya pārthivam ।
pitā hi sarvabhūtānāṁ rājā bhaviti dharmataḥ ।
7.93.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · १६ ॥
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ । गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् । ७.९३.१६ ॥ ॥

tadyuvāṁ hṛṣṭamanasau śvaḥ prabhāte samāsthitau ।
gāyethāṁ madhuraṁ geyaṁ tantrīlayasamanvitam ।
7.93.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · १७ ॥
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा । वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः । ७.९३.१७ ॥ ॥

iti sandiśya bahuśo muniḥ prācetasastadā ।
vālmīkiḥ paramodārastūṣṇīmāsīnmahāyaśāḥ ।
7.93.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · १८ ॥
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ । तथैव करवावेति निर्जग्मतुररिन्दमौ । ७.९३.१८ ॥ ॥

sandiṣṭau muninā tena tāvubhau maithilīsutau ।
tathaiva karavāveti nirjagmaturarindamau ।
7.93.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९३ · १९ ॥
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् । ७.९३.१९ ॥

tāmadbhutāṁ tau hṛdaye kumārau niveśya vāṇīmṛṣibhāṣitāṁ tadā ।
samutsukau tau samamūṣaturniśāṁ yathā 'śvinau bhārgavanītisaṁhitām ।
7.93.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.