वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९२ · १९ श्लोकाःSarga 92 · 19 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९२ · १ ॥
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः । हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह । ७.९२.१ ॥ ॥

tatsarvamakhilenāśu prasthāpya bharatāgrajaḥ ।
hayaṁ lakṣaṇasampannaṁ kṛṣṇasāraṁ mumoca ha ।
7.92.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · २ ॥
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च । ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् । ७.९२.२ ॥ ॥

ṛtvigbhirlakṣmaṇaṁ sārdhamaśvatantre niyojya ca ।
tato 'bhyagacchatkākutsthaḥ saha sainyena naimiśam ।
7.92.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · ३ ॥
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् । प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् । ७.९२.३ ॥ ॥

yajñavāṭaṁ mahābāhurdṛṣṭvā paramamadbhutam ।
prabarṣamatulaṁ lebhe śrīmāniti vaco 'bravīt ।
7.92.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · ४ ॥
नैमिषे वसतस्तस्य सर्व एव नराधिपाः । आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् । ७.९२.४ ॥ ॥

naimiṣe vasatastasya sarva eva narādhipāḥ ।
āninyurupahārāṁśca tānrāmaḥ pratyapūjayat ।
7.92.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · ५ ॥
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः । ७.९२.५ ॥ ॥

upakāryā mahārhāśca pārthivānāṁ mahātmanām ।
sānugānāṁ naraśreṣṭho vyādideśa mahāmatiḥ ।
7.92.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · ६ ॥
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् । भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा । ७.९२.६ ॥ ॥

annapānāni vastrāṇi sānugānāṁ mahātmanām ।
bharataḥ sandadāvāśu śatrughnasahitastadā ।
7.92.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · ७ ॥
वानराश्च महात्मानः सुग्रीवसहितास्तदा । विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् । ७.९२.७ ॥ ॥

vānarāśca mahātmānaḥ sugrīvasahitāstadā ।
viprāṇāṁ praṇatāḥ sarve cakrire pariveṣaṇam ।
7.92.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · ८ ॥
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः । ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् । ७.९२.८ ॥ ॥

bibhīṣaṇaśca rakṣobhirbahubhiḥ sragvibhirvṛtaḥ ।
ṛṣīṇāmugratapasāṁ pūjāṁ cakre mahātmanām ।
7.92.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · ९ ॥
एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत । लक्ष्मणेनागुप्ता हयचर्या प्रवर्तत । ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् । ७.९२.९ ॥ ॥

evaṁ suvihito yajño hayamedho 'bhyavartata ।
lakṣmaṇenāguptā ca hayacaryā pravartata ।
īdṛśaṁ rājasiṁhasya yajñapravaramuttamam ।
7.92.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · १० ॥
नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः । छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः । ७.९२.१० ॥ ॥

nānyaḥ śabdo 'bhavattatra hayamedhe mahātmanaḥ ।
chandato dehi visrabdho yāvattuṣyanti yācakāḥ ।
7.92.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · ११ ॥
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः । विविधानि गौडानि खाण्डवानि तथैव च । ७.९२.११ ॥ ॥

tāvatsarvāṇi dattāni kratumadhye mahātmanaḥ ।
vividhāni ca gauḍāni khāṇḍavāni tathaiva ca ।
7.92.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · १२ ॥
निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् । तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत । ७.९२.१२ ॥ ॥

na nissṛtaṁ bhatatyoṣṭhādvacanaṁ yāvadarthinām ।
tāvadvānararakṣobhirdattamevābhyadṛśyata ।
7.92.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · १३ ॥
कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः । तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते । ७.९२.१३ ॥ ॥

na kaścinmalinastatra dīno vā 'pyatha kṛrśataḥ ।
tasminyajñavare rājño hṛṣṭapuṣṭajanāvṛte ।
7.92.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · १४ ॥
ये तत्र महात्मानो मुनयश्चिरजीविनः । नास्मरंस्तादृशं यज्ञं नाप्यासीत् कदाचन । ७.९२.१४ ॥ ॥

ye ca tatra mahātmāno munayaścirajīvinaḥ ।
nāsmaraṁstādṛśaṁ yajñaṁ nāpyāsīt sa kadācana ।
7.92.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · १५ ॥
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः । वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च । ७.९२.१५ ॥ ॥

yaḥ kṛtyavānsuvarṇena suvarṇaṁ labhate sma saḥ ।
vittārthī labhate vittaṁ ratnārthī ratnameva ca ।
7.92.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · १६ ॥
रजतानां सुवर्णानामश्मनामथ वाससाम् । अनिशं दीयमानानां राशिः समुपदृश्यते । ७.९२.१६ ॥ ॥

rajatānāṁ suvarṇānāmaśmanāmatha vāsasām ।
aniśaṁ dīyamānānāṁ rāśiḥ samupadṛśyate ।
7.92.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · १७ ॥
शक्रस्य धनेशस्य यमस्य वरुणस्य वा । ईदृशो दृष्टपूर्वो एवमूचुस्तपोधनाः । ७.९२.१७ ॥ ॥

na śakrasya dhaneśasya yamasya varuṇasya vā ।
īdṛśo dṛṣṭapūrvo na evamūcustapodhanāḥ ।
7.92.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · १८ ॥
सर्वत्र वानरास्तस्थुः सर्वत्रैव राक्षसाः । वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् । ७.९२.१८ ॥ ॥

sarvatra vānarāstasthuḥ sarvatraiva ca rākṣasāḥ ।
vāsodhanānnamarthibhyaḥ pūrṇahastā dadurbhṛśam ।
7.92.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९२ · १९ ॥
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः । संवत्सरमथो साग्रं वर्तते हीयते । ७.९२.१९ ॥

īdṛśo rājasiṁhasya yajñaḥ sarvaguṇānvitaḥ ।
saṁvatsaramatho sāgraṁ vartate na ca hīyate ।
7.92.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.