वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९१ · २६ श्लोकाःSarga 91 · 26 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९१ · १ ॥
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः । लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः । ७.९१.१ ॥ ॥

etadākhyāya kākutstho bhrātṛbhyāmamitaprabhaḥ ।
lakṣmaṇaṁ punarevāha dharmayuktamidaṁ vacaḥ ।
7.91.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · २ ॥
वसिष्ठं वामदेवं जाबालिमथ कश्यपम् । द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् । ७.९१.२ ॥ ॥

vasiṣṭhaṁ vāmadevaṁ ca jābālimatha kaśyapam ।
dvijāṁśca sarvapravarānaśvamedhapuraskṛtān ।
7.91.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · ३ ॥
एतान्सर्वान्समानीय मन्त्रयित्वा लक्ष्मण । हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना । ७.९१.३ ॥ ॥

etānsarvānsamānīya mantrayitvā ca lakṣmaṇa ।
hayaṁ lakṣaṇasampannaṁ vimokṣyāmi samādhinā ।
7.91.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · ४ ॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः । द्विजान्सर्वान्समाहूय दर्शयामास राघवम् । ७.९१.४ ॥ ॥

tadvākyaṁ rāghaveṇoktaṁ śrutvā tvaritavikramaḥ ।
dvijānsarvānsamāhūya darśayāmāsa rāghavam ।
7.91.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · ५ ॥
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् । राघवं सुदुराधर्षमाशीर्भिः समपूजयन् । ७.९१.५ ॥ ॥

te dṛṣṭvā devasaṅkāśaṁ kṛtapādābhivandanam ।
rāghavaṁ sudurādharṣamāśīrbhiḥ samapūjayan ।
7.91.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · ६ ॥
प्राञ्जलिः तदा भूत्वा राघवो द्विजसत्तमान् । आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः । ७.९१.६ ॥ ॥

prāñjaliḥ sa tadā bhūtvā rāghavo dvijasattamān ।
ācacakṣe 'śvamedhasya hyabhiprāyaṁ mahāyaśāḥ ।
7.91.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · ७ ॥
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् । अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः । ७.९१.७ ॥ ॥

te tu rāmasya tacchrutvā namaskṛtvā vṛṣadhvajam ।
aśvamedhaṁ dvijāḥ sarve pūjayanti sma sarvaśaḥ ।
7.91.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · ८ ॥
तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् । अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा । ७.९१.८ ॥ ॥

sa teṣāṁ dvijamukhyānāṁ vākyamadbhutadarśanam ।
aśvamedhāśritaṁ śrutvā bhṛśaṁ prīto 'bhavattadā ।
7.91.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · ९ ॥
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् । प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने । ७.९१.९ ॥ ॥

vijñāya karma tatteṣāṁ rāmo lakṣmaṇamabravīt ।
preṣayasva drutaṁ dūtān sugrīvāya mahātmane ।
7.91.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · १० ॥
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् । सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् । ७.९१.१० ॥ ॥

yathā mahadbhirharibhirbahubhiśca vanaukasām ।
sārdhamāgaccha bhadraṁ te hyanubhoktuṁ mahotsavam ।
7.91.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · ११ ॥
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः । अश्वमेधं महायज्ञमायात्वतुलविक्रमः । ७.९१.११ ॥ ॥

bibhīṣaṇaśca rakṣobhiḥ kāmagairbahubhirvṛtaḥ ।
aśvamedhaṁ mahāyajñamāyātvatulavikramaḥ ।
7.91.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · १२ ॥
राजानश्च महाभागा ये मे प्रियचिकीर्षवः । सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् । ७.९१.१२ ॥ ॥

rājānaśca mahābhāgā ye me priyacikīrṣavaḥ ।
sānugāḥ kṣipramāyāntu yajñaṁ draṣṭumanuttamam ।
7.91.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · १३ ॥
देशान्तरगता ये द्विजा धर्मसमाहिताः । आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण । ७.९१.१३ ॥ ॥

deśāntaragatā ye ca dvijā dharmasamāhitāḥ ।
āmantrayasva tānsarvānaśvamedhāya lakṣmaṇa ।
7.91.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · १४ ॥
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः । देशान्तरगताः सर्वे सदाराश्च द्विजातयः । तथैव तालावचरास्तथैव नटनर्तकाः । ७.९१.१४ ॥ ॥

ṛṣayaśca mahābāho āhūyantāṁ tapodhanāḥ ।
deśāntaragatāḥ sarve sadārāśca dvijātayaḥ ।
tathaiva tālāvacarāstathaiva naṭanartakāḥ ।
7.91.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · १५ ॥
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने । आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् । ७.९१.१५ ॥ ॥

yajñavāṭaśca sumahāngomatyā naimiśe vane ।
ājñāpyatāṁ mahābāho taddhi puṇyamanuttamam ।
7.91.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · १६ ॥
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः । ७.९१.१६ ॥ ॥

śāntayaśca mahābāho pravartyantāṁ samantataḥ ।
7.91.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · १७ ॥
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् । अनुभूय महायज्ञं नैमिशे रघुनन्दन । ७.९१.१७ ॥ ॥

śataśaścāpi dharmajñāḥ kratumukhyamanuttamam ।
anubhūya mahāyajñaṁ naimiśe raghunandana ।
7.91.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · १८ ॥
तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि । प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः । ७.९१.१८ ॥ ॥

tuṣṭaḥ puṣṭaśca sarvo 'sau mānitaśca yathāvidhi ।
prītiṁ yāsyati dharmajña śīghramāmantryatāṁ janaḥ ।
7.91.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · १९ ॥
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् । अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल । ७.९१.१९ ॥ ॥

śataṁ vāhasahasrāṇāṁ taṇḍulānāṁ vapuṣmatām ।
ayutaṁ tilamudgānāṁ prayātvagre mahābala ।
7.91.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · २० ॥
चणकानां कुलित्थानां माषाणां लवणस्य च । अतो ऽनुरूपं स्नेहं गन्धं सङ्क्षिप्तमेव च । ७.९१.२० ॥ ॥

caṇakānāṁ kulitthānāṁ māṣāṇāṁ lavaṇasya ca ।
ato 'nurūpaṁ snehaṁ ca gandhaṁ saṅkṣiptameva ca ।
7.91.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · २१ ॥
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः । अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना । ७.९१.२१ ॥ ॥

suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ ।
agrato bharataḥ kṛtvā gacchatvagre samādhinā ।
7.91.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · २२ ॥
अन्तरा पण्यवीथ्यश्च सर्वे नटनर्तकाः । सूदा नार्यश्च बहवो नित्यं यौवनशालिनः । ७.९१.२२ ॥ ॥

antarā paṇyavīthyaśca sarve ca naṭanartakāḥ ।
sūdā nāryaśca bahavo nityaṁ yauvanaśālinaḥ ।
7.91.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · २३ ॥
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः । नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः । ७.९१.२३ ॥ ॥

bharatena tu sārdhaṁ te yāntu sainyāni cāgrataḥ ।
naigamā balavṛddhāśca dvijāśca susamāhitāḥ ।
7.91.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · २४ ॥
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् । मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च । ७.९१.२४ ॥ ॥

karmāntikānvardhakinaḥ kośādhyakṣāṁśca naigamān ।
mama māta'stathā sarvāḥ kumārāntaḥpurāṇi ca ।
7.91.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · २५ ॥
काञ्चनीं मम पत्नीं दीक्षायां ज्ञांश्च कर्मणि । अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः । ७.९१.२५ ॥ ॥

kāñcanīṁ mama patnīṁ ca dīkṣāyāṁ jñāṁśca karmaṇi ।
agrato bharataḥ kṛtvā gacchatvagre mahāyaśāḥ ।
7.91.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९१ · २६ ॥
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः । ७.९१.२६ ॥

upakāryā mahārhāśca pārthivānāṁ mahaujasām ।
sānugānāṁ naraśreṣṭho vyādideśa mahābalaḥ ।
7.91.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.