वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९० · २४ श्लोकाःSarga 90 · 24 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९० · १ ॥
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् । उवाच लक्ष्मणो भूयो भरतश्च महायशाः । ७.९०.१ ॥ ॥

tathoktavati rāme tu tasya janma tadadbhutam ।
uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ ।
7.90.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · २ ॥
इला सा सोमपुत्रस्य संवत्सरमथोषिता । अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि । ७.९०.२ ॥ ॥

ilā sā somaputrasya saṁvatsaramathoṣitā ।
akarotkiṁ naraśreṣṭha tattvaṁ śaṁsitumarhasi ।
7.90.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · ३ ॥
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः । रामः पुनरुवाचेमां प्रजापतिसुते कथाम् । ७.९०.३ ॥ ॥

tayostadvākyamādhuryaṁ niśamya paripṛcchatoḥ ।
rāmaḥ punaruvācemāṁ prajāpatisute kathām ।
7.90.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · ४ ॥
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् । संवर्तं परमोदारमाजुहाव महायशाः । ७.९०.४ ॥ ॥

puruṣatvaṁ gate śūre budhaḥ paramabuddhimān ।
saṁvartaṁ paramodāramājuhāva mahāyaśāḥ ।
7.90.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · ५ ॥
च्यवनं भृगुपुत्रं मुनिं चारिष्टनेमिनम् । प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् । ७.९०.५ ॥ ॥

cyavanaṁ bhṛguputraṁ ca muniṁ cāriṣṭaneminam ।
pramodanaṁ modakaraṁ tato durvāsasaṁ munim ।
7.90.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · ६ ॥
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः । उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् । ७.९०.६ ॥ ॥

etānsarvānsamānīya vākyajñastattvadarśanaḥ ।
uvāca sarvānsuhṛdo dhairyeṇa susamāhitān ।
7.90.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · ७ ॥
अयं राजा महाबाहुः कर्दमस्य इलः सुतः । जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् । ७.९०.७ ॥ ॥

ayaṁ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ ।
jānītainaṁ yathābhūtaṁ śreyo hyatra vidhīyatām ।
7.90.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · ८ ॥
तेषां संवदतामेव तमाश्रममुपागमत् । कर्दमस्तु महातेजा द्विजैः सह महात्मभिः । ७.९०.८ ॥ ॥

teṣāṁ saṁvadatāmeva tamāśramamupāgamat ।
kardamastu mahātejā dvijaiḥ saha mahātmabhiḥ ।
7.90.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · ९ ॥
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च । ओङ्कारश्च महातेजास्तमाश्रममुपागमत् । ७.९०.९ ॥ ॥

pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca ।
oṅkāraśca mahātejāstamāśramamupāgamat ।
7.90.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · १० ॥
ते सर्वे हृष्टमनसः परस्परसमागमे । हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् । ७.९०.१० ॥ ॥

te sarve hṛṣṭamanasaḥ parasparasamāgame ।
hitaiṣiṇo bālhipateḥ pṛthagvākyānyathābruvan ।
7.90.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · ११ ॥
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् । द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि । ७.९०.११ ॥ ॥

kardamastvabravīdvākyaṁ sutārthaṁ paramaṁ hitam ।
dvijāḥ śṛṇuta madvākyaṁ yacchreyaḥ pārthivasya hi ।
7.90.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · १२ ॥
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् । नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः । तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् । ७.९०.१२ ॥ ॥

nānyaṁ paśyāmi bhaiṣajyamantarā vṛṣabhadhvajam ।
nāśvamedhātparo yajñaḥ priyaścaiva mahātmanaḥ ।
tasmādyajāmahe sarve pārthivārthe durāsadam ।
7.90.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · १३ ॥
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः । रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति । ७.९०.१३ ॥ ॥

kardamenaivamuktāstu sarva eva dvijarṣabhāḥ ।
rocayanti sma taṁ yajñaṁ rudrasyārādhanaṁ prati ।
7.90.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · १४ ॥
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः । मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् । ७.९०.१४ ॥ ॥

saṁvartasya tu rājarṣeḥ śiṣyaḥ purapurañjayaḥ ।
marutta iti vikhyātastaṁ yajñaṁ samupāharat ।
7.90.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · १५ ॥
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः । रुद्रश्च परमं तोषमाजगाम महायशाः । ७.९०.१५ ॥ ॥

tato yajño mahānāsīdbudhāśramasamīpataḥ ।
rudraśca paramaṁ toṣamājagāma mahāyaśāḥ ।
7.90.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · १६ ॥
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा । उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ । ७.९०.१६ ॥ ॥

atha yajñe samāpte tu prītaḥ paramayā mudā ।
umāpatirdvijānsarvānuvāca ilasannidhau ।
7.90.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · १७ ॥
प्रीतो ऽस्मि हयमेधेन भक्त्या द्विजसत्तमाः । अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् । ७.९०.१७ ॥ ॥

prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ ।
asya bāhlipateścaiva kiṁ karomi priyaṁ śubham ।
7.90.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · १८ ॥
तथा वदति देवेशे द्विजास्ते सुसमाहिताः । प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला । ७.९०.१८ ॥ ॥

tathā vadati deveśe dvijāste susamāhitāḥ ।
prasādayanti deveśaṁ yathā syātpuruṣastvilā ।
7.90.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · १९ ॥
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः । इलायै सुमहातेजा दत्त्वा चान्तरधीयत । ७.९०.१९ ॥ ॥

tataḥ prīto mahādevaḥ puruṣatvaṁ dadau punaḥ ।
ilāyai sumahātejā dattvā cāntaradhīyata ।
7.90.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · २० ॥
निवृत्ते हयमेधे गतश्चादर्शनं हरः । यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः । ७.९०.२० ॥ ॥

nivṛtte hayamedhe ca gataścādarśanaṁ haraḥ ।
yathāgataṁ dvijāḥ sarve hyagacchandīrghadarśinaḥ ।
7.90.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · २१ ॥
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् । निवेशयामास पुरं प्रतिष्ठानं यशस्करम् । ७.९०.२१ ॥ ॥

rājā tu bāhlimutsṛjya madhyadeśe hyanuttamam ।
niveśayāmāsa puraṁ pratiṣṭhānaṁ yaśaskaram ।
7.90.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · २२ ॥
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः । प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली । ७.९०.२२ ॥ ॥

śaśabinduśca rājarṣirbāhliṁ purapurañjayaḥ ।
pratiṣṭhāne ilo rājā prajāpatisuto balī ।
7.90.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · २३ ॥
काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् । ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् । ७.९०.२३ ॥ ॥

sa kāle prāptavām̐llokamilo brāhmamanuttamam ।
ailaḥ purūravā rājā pratiṣṭhānamavāptavān ।
7.90.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९० · २४ ॥
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ । स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् । ७.९०.२४ ॥

īdṛśo hyaśvamedhasya prabhāvaḥ puruṣarṣabhau ।
strībhūtaḥ pauruṣaṁ lebhe yaccānyadapi durlabham ।
7.90.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.