वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १०० · २५ श्लोकाःSarga 100 · 25 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १०० · १ ॥
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः । स्वगुरुं प्रेषयामास राघवाय महात्मने । गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् । ७.१००.१ ॥ ॥

kasyacittvatha kālasya yudhājitkekayo nṛpaḥ ।
svaguruṁ preṣayāmāsa rāghavāya mahātmane ।
gārgyamaṅgirasaḥ putraṁ brahmarṣimamitaprabham ।
7.100.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · २ ॥
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् । ७.१००.२ ॥ ॥

daśa cāśvasahasrāṇi prītidānamanuttamam ।
7.100.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · ३ ॥
कम्बलानि रत्नानि चित्रवस्त्रमथोत्तमम् । रामाय प्रददौ राजा शुभान्याभरणानि च । ७.१००.३ ॥ ॥

kambalāni ca ratnāni citravastramathottamam ।
rāmāya pradadau rājā śubhānyābharaṇāni ca ।
7.100.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · ४ ॥
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् । मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् । ७.१००.४ ॥ ॥

śrutvā tu rāghavo dhīmānmaharṣiṁ gārgyamāgatam ।
mātulasyāśvapatinaḥ prahitaṁ tanmahādhanam ।
7.100.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · ५ ॥
प्रत्युद्गम्य काकुत्स्थः क्रोशमात्रं सहानुजः । गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् । ७.१००.५ ॥ ॥

pratyudgamya ca kākutsthaḥ krośamātraṁ sahānujaḥ ।
gārgyaṁ sampūjayāmāsa yathā śakro bṛhaspatim ।
7.100.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · ६ ॥
तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च । पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च । उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे । ७.१००.६ ॥ ॥

tathā sampūjya tamṛṣiṁ taddhanaṁ pratigṛhya ca ।
pṛṣṭvā pratipadaṁ sarvaṁ kuśalaṁ mātulasya ca ।
upaviṣṭaṁ mahābhāgaṁ rāmaḥ praṣṭuṁ pracakrame ।
7.100.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · ७ ॥
किमाह मातुलो वाक्यं यदर्थं भगवानिह । प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः । ७.१००.७ ॥ ॥

kimāha mātulo vākyaṁ yadarthaṁ bhagavāniha ।
prāpto vākyavidāṁ śreṣṭhaḥ sākṣādiva bṛhaspatiḥ ।
7.100.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · ८ ॥
रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् । वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे । ७.१००.८ ॥ ॥

rāmasya bhāṣitaṁ śrutvā maharṣiḥ kāryavistaram ।
vaktumadbhutasaṅkāśaṁ rāghavāyopacakrame ।
7.100.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · ९ ॥
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः । युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते । ७.१००.९ ॥ ॥

mātulaste mahābāho vākyamāha nararṣabhaḥ ।
yudhājitprītisaṁyuktaṁ śrūyatāṁ yadi rocate ।
7.100.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · १० ॥
अयं गन्धर्वविषयः फलमूलोपशोभितः । सिन्धोरुभयतः पार्श्वे देशः परमशोभनः । ७.१००.१० ॥ ॥

ayaṁ gandharvaviṣayaḥ phalamūlopaśobhitaḥ ।
sindhorubhayataḥ pārśve deśaḥ paramaśobhanaḥ ।
7.100.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · ११ ॥
तं रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः । शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः । ७.१००.११ ॥ ॥

taṁ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ ।
śailūṣasya sutā vīra trikoṭyo vai mahābalāḥ ।
7.100.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · १२ ॥
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् । निवेशय महाबोहो स्वे पुरे सुसमाहिते । ७.१००.१२ ॥ ॥

tānvinirjitya kākutstha gandharvanagaraṁ śubham ।
niveśaya mahāboho sve pure susamāhite ।
7.100.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · १३ ॥
अन्यस्य गतिस्तत्र देशः परमशोभनः । रोचतां ते महाबाहो नाहं त्वामहितं वदे । ७.१००.१३ ॥ ॥

anyasya na gatistatra deśaḥ paramaśobhanaḥ ।
rocatāṁ te mahābāho nāhaṁ tvāmahitaṁ vade ।
7.100.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · १४ ॥
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च । उवाच बाढमित्येव भरतं चान्ववैक्षत । ७.१००.१४ ॥ ॥

tacchrutvā rāghavaḥ prīto maharṣermātulasya ca ।
uvāca bāḍhamityeva bharataṁ cānvavaikṣata ।
7.100.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · १५ ॥
सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् । इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः । ७.१००.१५ ॥ ॥

so 'bravīdrāghavaḥ prītaḥ sāñjalipragraho dvijam ।
imau kumārau taṁ deśaṁ brahmarṣe vicariṣyataḥ ।
7.100.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · १६ ॥
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च । मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ । ७.१००.१६ ॥ ॥

bharatasyātmajau vīrau takṣaḥ puṣkala eva ca ।
mātulena suguptau tu dharmeṇa susamāhitau ।
7.100.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · १७ ॥
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ । निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः । ७.१००.१७ ॥ ॥

bharataṁ cāgrataḥ kṛtvā kumārau sabalānugau ।
nihatya gandharvasutāndve pure vibhajiṣyataḥ ।
7.100.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · १८ ॥
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च । आगमिष्यति मे भूयः सकाशमतिधार्मिकः । ७.१००.१८ ॥ ॥

niveśya te puravare ātmajau sanniveśya ca ।
āgamiṣyati me bhūyaḥ sakāśamatidhārmikaḥ ।
7.100.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · १९ ॥
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् । आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् । ७.१००.१९ ॥ ॥

brahmarṣimevamuktvā tu bharataṁ sabalānugam ।
ājñāpayāmāsa tadā kumārau cābhyaṣecayat ।
7.100.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · २० ॥
नक्षत्रेण सौम्येन पुरस्कृत्याङ्गिरस्सुतम् । भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ । ७.१००.२० ॥ ॥

nakṣatreṇa ca saumyena puraskṛtyāṅgirassutam ।
bharataḥ saha sainyena kumārābhyāṁ viniryayau ।
7.100.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · २१ ॥
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ । राघवानुगता दूरं दुराधर्षा सुरैरपि । ७.१००.२१ ॥ ॥

sā senā śakrayukteva nagarānniryayāvatha ।
rāghavānugatā dūraṁ durādharṣā surairapi ।
7.100.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · २२ ॥
मांसादानि सत्त्वानि रक्षांसि सुमहान्ति च । अनुजग्मुर्हि भरतं रुधिरस्य पिपासया । ७.१००.२२ ॥ ॥

māṁsādāni ca sattvāni rakṣāṁsi sumahānti ca ।
anujagmurhi bharataṁ rudhirasya pipāsayā ।
7.100.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · २३ ॥
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः । गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः । ७.१००.२३ ॥ ॥

bhūtagrāmāśca bahavo māṁsabhakṣāḥ sudāruṇāḥ ।
gandharvaputramāṁsāni bhoktukāmāḥ sahasraśaḥ ।
7.100.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · २४ ॥
सिंहव्याघ्रवराहाणां खेचराणां पक्षिणाम् । बहूनि वै सहस्राणि सेनाया ययुरग्रतः । ७.१००.२४ ॥ ॥

siṁhavyāghravarāhāṇāṁ khecarāṇāṁ ca pakṣiṇām ।
bahūni vai sahasrāṇi senāyā yayuragrataḥ ।
7.100.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०० · २५ ॥
अध्यर्धमासमुषिता पथि सेना निरामया । हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् । ७.१००.२५ ॥

adhyardhamāsamuṣitā pathi senā nirāmayā ।
hṛṣṭapuṣṭajanākīrṇā kekayaṁ samupāgamat ।
7.100.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.