वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १०१ · १८ श्लोकाःSarga 101 · 18 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १०१ · १ ॥
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् । ७.१०१.१ ॥ ॥

śrutvā senāpatiṁ prāptaṁ bharataṁ kekayādhipaḥ ।
yudhājidgārgyasahitaṁ parāṁ prītimupāgamat ।
7.101.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · २ ॥
निर्ययौ जनौघेन महता केकयाधिपः । त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः । ७.१०१.२ ॥ ॥

sa niryayau janaughena mahatā kekayādhipaḥ ।
tvaramāṇo 'bhicakrāma gandharvānkāmarūpiṇaḥ ।
7.101.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · ३ ॥
भरतश्च युधाजिच्च समेतौ लघुविक्रमैः । गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ । ७.१०१.३ ॥ ॥

bharataśca yudhājicca sametau laghuvikramaiḥ ।
gandharvanagaraṁ prāptau sabalau sapadānugau ।
7.101.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · ४ ॥
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः । योद्धुकामा महावीर्या व्यनदन् वै समन्ततः । ७.१०१.४ ॥ ॥

śrutvā tu bharataṁ prāptaṁ gandharvāste samāgatāḥ ।
yoddhukāmā mahāvīryā vyanadan vai samantataḥ ।
7.101.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · ५ ॥
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् । सप्तरात्रं महाभीमं चान्यतरयोर्जयः । ७.१०१.५ ॥ ॥

tataḥ samabhavadyuddhaṁ tumulaṁ romaharṣaṇam ।
saptarātraṁ mahābhīmaṁ na cānyatarayorjayaḥ ।
7.101.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · ६ ॥
खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः । नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् । ७.१०१.६ ॥ ॥

khaḍgaśaktidhanurgrāhā nadyaḥ śoṇitasaṁsravāḥ ।
nṛkalevaravāhinyaḥ pravṛttāḥ sarvatodiśam ।
7.101.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · ७ ॥
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् । संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् । ७.१०१.७ ॥ ॥

tato rāmānujaḥ kruddhaḥ kālasyāstraṁ sudāruṇam ।
saṁvartaṁ nāma bharato gandharveṣvabhyacodayat ।
7.101.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · ८ ॥
ते बद्धाः कालपाशेन संवर्तेन विदारिताः । क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् । ७.१०१.८ ॥ ॥

te baddhāḥ kālapāśena saṁvartena vidāritāḥ ।
kṣaṇenābhihatāstena tisraḥ koṭyo mahātmanām ।
7.101.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · ९ ॥
तं घातं घोरसङ्काशं स्मरन्ति दिवौकसः । निमेषान्तरमात्रेण तादृशानां महात्मनाम् । ७.१०१.९ ॥ ॥

taṁ ghātaṁ ghorasaṅkāśaṁ na smaranti divaukasaḥ ।
nimeṣāntaramātreṇa tādṛśānāṁ mahātmanām ।
7.101.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · १० ॥
हतेषु तेषु सर्वेषु भरतः केकयीसुतः । निवेशयामास तदा समृद्धे द्वे पुरोत्तमे । ७.१०१.१० ॥ ॥

hateṣu teṣu sarveṣu bharataḥ kekayīsutaḥ ।
niveśayāmāsa tadā samṛddhe dve purottame ।
7.101.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · ११ ॥
तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते । गन्धर्वदेशे रुचिरे गान्धारविषये सः । ७.१०१.११ ॥ ॥

takṣaṁ takṣaśilāyāṁ tu puṣkalaṁ puṣkalāvate ।
gandharvadeśe rucire gāndhāraviṣaye ca saḥ ।
7.101.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · १२ ॥
धनरत्नौघसङ्कीर्णे काननैरुपशोभिते । अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः । ७.१०१.१२ ॥ ॥

dhanaratnaughasaṅkīrṇe kānanairupaśobhite ।
anyonyasaṅgharṣakṛte spardhayā guṇavistaraiḥ ।
7.101.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · १३ ॥
उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः । उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे । ७.१०१.१३ ॥ ॥

ubhe suruciraprakhye vyavahārairakilbiṣaiḥ ।
udyānayānasampūrṇe suvibhaktāntarāpaṇe ।
7.101.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · १४ ॥
उभे पुरवरे रम्ये विस्तरैरुपशोभिते । गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः । ७.१०१.१४ ॥ ॥

ubhe puravare ramye vistarairupaśobhite ।
gṛhamukhyaiḥ surucirairvimānasamavarṇibhiḥ ।
7.101.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · १५ ॥
शोभिते शोभनीयैश्च देवायतनविस्तरैः । तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते । ७.१०१.१५ ॥ ॥

śobhite śobhanīyaiśca devāyatanavistaraiḥ ।
tālaistamālaistilakairvakulairupaśobhite ।
7.101.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · १६ ॥
निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः । पुनरायान्महाबाहुरयोध्यां केकयीसुतः । ७.१०१.१६ ॥ ॥

niveśya pañcabhirvarṣairbharato rāghavānujaḥ ।
punarāyānmahābāhurayodhyāṁ kekayīsutaḥ ।
7.101.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · १७ ॥
सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् । राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः । ७.१०१.१७ ॥ ॥

so 'bhivādya mahātmānaṁ sākṣāddharmamivāparam ।
rāghavaṁ bharataḥ śrīmānbrahmāṇamiva vāsavaḥ ।
7.101.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०१ · १८ ॥
शशंस यथावृत्तं गन्धर्ववधमुत्तमम् । निवेशनं देशस्य श्रुत्वा प्रीतो ऽस्य राघवः । ७.१०१.१८ ॥

śaśaṁsa ca yathāvṛttaṁ gandharvavadhamuttamam ।
niveśanaṁ ca deśasya śrutvā prīto 'sya rāghavaḥ ।
7.101.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.