वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १०२ · १७ श्लोकाःSarga 102 · 17 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १०२ · १ ॥
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह । वाक्यं चाद्भुतसङ्काशं तदा प्रोवाच लक्ष्मणम् । ७.१०२.१ ॥ ॥

tacchrutvā harṣamāpede rāghavo bhrātṛbhiḥ saha ।
vākyaṁ cādbhutasaṅkāśaṁ tadā provāca lakṣmaṇam ।
7.102.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · २ ॥
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ । अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ । ७.१०२.२ ॥ ॥

imau kumārau saumitre tava dharmaviśāradau ।
aṅgadaścandraketuśca rājyārthe dṛḍhavikramau ।
7.102.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · ३ ॥
इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम् । रमणीयो ह्यसम्बाधो रमेतां यत्र धन्विनौ । ७.१०२.३ ॥ ॥

imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām ।
ramaṇīyo hyasambādho rametāṁ yatra dhanvinau ।
7.102.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · ४ ॥
राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् । देशो दृश्यतां सौम्य नापराध्यामहे यथा । ७.१०२.४ ॥ ॥

na rājño yatra pīḍā syānnāśramāṇāṁ vināśanam ।
sa deśo dṛśyatāṁ saumya nāparādhyāmahe yathā ।
7.102.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · ५ ॥
तथोक्तवति रामे तु भरतः प्रत्युवाच ह । अयं कारुपथो देशो रमणीयो निरामयः । ७.१०२.५ ॥ ॥

tathoktavati rāme tu bharataḥ pratyuvāca ha ।
ayaṁ kārupatho deśo ramaṇīyo nirāmayaḥ ।
7.102.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · ६ ॥
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः । चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् । ७.१०२.६ ॥ ॥

niveśyatāṁ tatra puramaṅgadasya mahātmanaḥ ।
candraketoḥ suruciraṁ candrakāntaṁ nirāmayam ।
7.102.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · ७ ॥
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः । तं कृत्वा वशे देशमङ्गदस्य न्यवेशयत् । ७.१०२.७ ॥ ॥

tadvākyaṁ bharatenoktaṁ pratijagrāha rāghavaḥ ।
taṁ ca kṛtvā vaśe deśamaṅgadasya nyaveśayat ।
7.102.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · ८ ॥
अङ्गदीया पुरी रम्याप्यङ्गदस्य निवेशिता । रमणीया सुगुप्ता रामेणाक्लिष्टकर्मणा । ७.१०२.८ ॥ ॥

aṅgadīyā purī ramyāpyaṅgadasya niveśitā ।
ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā ।
7.102.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · ९ ॥
चन्द्रकेतोश्च मल्लस्य मल्लभूम्यां निवेशिता । चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा । ७.१०२.९ ॥ ॥

candraketośca mallasya mallabhūmyāṁ niveśitā ।
candrakānteti vikhyātā divyā svargapurī yathā ।
7.102.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · १० ॥
ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा । ययुर्युद्धे दुराधर्षा अभिषेकं चक्रिरे । ७.१०२.१० ॥ ॥

tato rāmaḥ parāṁ prītiṁ lakṣmaṇo bharatastathā ।
yayuryuddhe durādharṣā abhiṣekaṁ ca cakrire ।
7.102.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · ११ ॥
अभिषिच्य कुमारौ प्रस्थापयति राघवः । अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदङ्मुखम् । ७.१०२.११ ॥ ॥

abhiṣicya kumārau sa prasthāpayati rāghavaḥ ।
aṅgadaṁ paścimāṁ bhūmiṁ candraketumudaṅmukham ।
7.102.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · १२ ॥
अङ्गदं चापि सौमित्रिर्लक्ष्मणो ऽनुजगाम ह । चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह । ७.१०२.१२ ॥ ॥

aṅgadaṁ cāpi saumitrirlakṣmaṇo 'nujagāma ha ।
candraketostu bharataḥ pārṣṇigrāho babhūva ha ।
7.102.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · १३ ॥
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः । पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् । ७.१०२.१३ ॥ ॥

lakṣmaṇastvaṅgadīyāyāṁ saṁvatsaramathoṣitaḥ ।
putre sthite durādharṣe ayodhyāṁ punarāgamat ।
7.102.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · १४ ॥
भरतो ऽपि तथैवोष्य संवत्सरमतो ऽधिकम् । अयोध्यां पुनरागम्य रामपादावुपास्त सः । ७.१०२.१४ ॥ ॥

bharato 'pi tathaivoṣya saṁvatsaramato 'dhikam ।
ayodhyāṁ punarāgamya rāmapādāvupāsta saḥ ।
7.102.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · १५ ॥
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ । कालं गतमपि स्नेहान्न जज्ञाते ऽतिधार्मिकौ । ७.१०२.१५ ॥ ॥

ubhau saumitribharatau rāmapādāvanuvratau ।
kālaṁ gatamapi snehānna jajñāte 'tidhārmikau ।
7.102.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · १६ ॥
एवं वर्षसहस्राणि दश तेषां ययुस्तदा । धर्मे प्रयतमानानां पौरकार्येषु नित्यदा । ७.१०२.१६ ॥ ॥

evaṁ varṣasahasrāṇi daśa teṣāṁ yayustadā ।
dharme prayatamānānāṁ paurakāryeṣu nityadā ।
7.102.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०२ · १७ ॥
विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः । त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्रयो ऽग्नयः । ७.१०२.१७ ॥

vihṛtya kālaṁ paripūrṇamānasāḥ śriyā vṛtā dharmapure susaṁsthitāḥ ।
trayaḥ samiddhā iva dīptatejaso mahādhvare sādhu hutāstrayo 'gnayaḥ ।
7.102.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.