वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १०३ · १७ श्लोकाःSarga 103 · 17 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १०३ · १ ॥
कस्यचित्त्वथ कालस्य रामे धर्मपरे स्थिते । कालस्तापसरूपेण राजद्वारमुपागमत् । ७.१०३.१ ॥ ॥

kasyacittvatha kālasya rāme dharmapare sthite ।
kālastāpasarūpeṇa rājadvāramupāgamat ।
7.103.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · २ ॥
सो ऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशश्विनम् । मां निवेदय रामाय सम्प्राप्तं कार्यगौरवात् । ७.१०३.२ ॥ ॥

so 'bravīllakṣmaṇaṁ vākyaṁ dhṛtimantaṁ yaśaśvinam ।
māṁ nivedaya rāmāya samprāptaṁ kāryagauravāt ।
7.103.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · ३ ॥
दूतो ऽस्म्यतिबलस्याहं महर्षेरमितौजसः । रामं दिदृक्षुरायातः कार्येण हि महाबल । ७.१०३.३ ॥ ॥

dūto 'smyatibalasyāhaṁ maharṣeramitaujasaḥ ।
rāmaṁ didṛkṣurāyātaḥ kāryeṇa hi mahābala ।
7.103.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · ४ ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरया ऽन्वितः । न्यवेदयत रामाय तापसं तं समागतम् । ७.१०३.४ ॥ ॥

tasya tadvacanaṁ śrutvā saumitristvarayā 'nvitaḥ ।
nyavedayata rāmāya tāpasaṁ taṁ samāgatam ।
7.103.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · ५ ॥
जयस्व राम धर्मेण उभौ लोकौ महाद्युते । दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः । ७.१०३.५ ॥ ॥

jayasva rāma dharmeṇa ubhau lokau mahādyute ।
dūtastvāṁ draṣṭumāyātastapasā bhāskaraprabhaḥ ।
7.103.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · ६ ॥
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह । प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृत् । ७.१०३.६ ॥ ॥

tadvākyaṁ lakṣmaṇenoktaṁ śrutvā rāma uvāca ha ।
praveśyatāṁ munistāta mahaujāstasya vākyadhṛt ।
7.103.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · ७ ॥
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् । ज्वलन्तमेव तेजोभिः प्रदहन्तमिवांशुभिः । ७.१०३.७ ॥ ॥

saumitristu tathetyuktvā prāveśayata taṁ munim ।
jvalantameva tejobhiḥ pradahantamivāṁśubhiḥ ।
7.103.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · ८ ॥
सो ऽभिगम्य रघुश्रेष्ठं दीप्यपानं स्वतेजसा । ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् । ७.१०३.८ ॥ ॥

so 'bhigamya raghuśreṣṭhaṁ dīpyapānaṁ svatejasā ।
ṛṣirmadhurayā vācā vardhasvetyāha rāghavam ।
7.103.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · ९ ॥
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम् । ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे । ७.१०३.९ ॥ ॥

tasmai rāmo mahātejāḥ pūjāmarghyapurogamām ।
dadau kuśalamavyagraṁ praṣṭumevopacakrame ।
7.103.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · १० ॥
पृष्टश्च कुशलं तेन रामेण वदतां वरः । आसने काञ्चने दिव्ये निषसाद महायशाः । ७.१०३.१० ॥ ॥

pṛṣṭaśca kuśalaṁ tena rāmeṇa vadatāṁ varaḥ ।
āsane kāñcane divye niṣasāda mahāyaśāḥ ।
7.103.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · ११ ॥
तमुवाच ततो रामः स्वागतं ते महामुने । प्रापयास्य वाक्यानि यतो दूतस्त्वमागतः । ७.१०३.११ ॥ ॥

tamuvāca tato rāmaḥ svāgataṁ te mahāmune ।
prāpayāsya ca vākyāni yato dūtastvamāgataḥ ।
7.103.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · १२ ॥
चोदितो राजसिंहेन मुनिर्वाक्यमभाषत । द्वन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे । ७.१०३.१२ ॥ ॥

codito rājasiṁhena munirvākyamabhāṣata ।
dvandvametatpravaktavyaṁ hitaṁ vai yadyapekṣase ।
7.103.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · १३ ॥
यः शृणोति निरीक्षेद्वा वध्यो भविता तव । भवेद्वै मुनिमुख्यस्य वचनं यद्यपेक्षसे । ७.१०३.१३ ॥ ॥

yaḥ śṛṇoti nirīkṣedvā sa vadhyo bhavitā tava ।
bhavedvai munimukhyasya vacanaṁ yadyapekṣase ।
7.103.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · १४ ॥
तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् । द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय । ७.१०३.१४ ॥ ॥

sa tatheti pratijñāya rāmo lakṣmaṇamabravīt ।
dvāri tiṣṭha mahābāho pratihāraṁ visarjaya ।
7.103.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · १५ ॥
मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् । ऋषेर्मम सौमित्रे पश्येद्वा शृणुयाच्च यः । ७.१०३.१५ ॥ ॥

sa me vadhyaḥ khalu bhavet kathādvandvaṁ samīritam ।
ṛṣermama ca saumitre paśyedvā śṛṇuyācca yaḥ ।
7.103.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · १६ ॥
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् । तमुवाच मुने वाक्यं कथयस्वेति राघवः । ७.१०३.१६ ॥ ॥

tato nikṣipya kākutstho lakṣmaṇaṁ dvāri saṅgraham ।
tamuvāca mune vākyaṁ kathayasveti rāghavaḥ ।
7.103.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०३ · १७ ॥
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः । कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते । ७.१०३.१७ ॥

yatte manīṣitaṁ vākyaṁ yena vā 'si samāhitaḥ ।
kathayasvāviśaṅkastvaṁ mamāpi hṛdi vartate ।
7.103.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.