वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १०४ · १९ श्लोकाःSarga 104 · 19 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १०४ · १ ॥
शृणु राजन्महासत्व यदर्थमहमागतः । पितामहेन देवेन प्रेषितो ऽस्मि महाबल । ७.१०४.१ ॥ ॥

śṛṇu rājanmahāsatva yadarthamahamāgataḥ ।
pitāmahena devena preṣito 'smi mahābala ।
7.104.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · २ ॥
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय । मायासम्भावितो वीर कालः सर्वसमाहरः । ७.१०४.२ ॥ ॥

tavāhaṁ pūrvasadbhāve putraḥ parapurañjaya ।
māyāsambhāvito vīra kālaḥ sarvasamāharaḥ ।
7.104.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · ३ ॥
पितामहश्च भगवानाह लोकपतिः प्रभुः । समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् । ७.१०४.३ ॥ ॥

pitāmahaśca bhagavānāha lokapatiḥ prabhuḥ ।
samayaste kṛtaḥ saumya lokānsamparirakṣitum ।
7.104.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · ४ ॥
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि । महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः । ७.१०४.४ ॥ ॥

saṅkṣipya hi purā lokānmāyayā svayameva hi ।
mahārṇave śayāno 'psu māṁ tvaṁ pūrvamajījanaḥ ।
7.104.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · ५ ॥
भोगवन्तं ततो नागमनन्तमुदकेशयम् । मायया जनयित्वा त्वं द्वौ सत्त्वौ महाबलौ । ७.१०४.५ ॥ ॥

bhogavantaṁ tato nāgamanantamudakeśayam ।
māyayā janayitvā tvaṁ dvau ca sattvau mahābalau ।
7.104.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · ६ ॥
मधुं कैटभं चैव ययोरस्थिचयैर्वृता । इयं पर्वतसम्बाधा मेदिनी चाभवन्मही । ७.१०४.६ ॥ ॥

madhuṁ ca kaiṭabhaṁ caiva yayorasthicayairvṛtā ।
iyaṁ parvatasambādhā medinī cābhavanmahī ।
7.104.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · ७ ॥
पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् । ७.१०४.७ ॥ ॥

padme divye 'rkasaṅkāśe nābhyāmutpādya māmapi ।
prājāpatyaṁ tvayā karma mayi sarvaṁ niveśitam ।
7.104.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · ८ ॥
सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् । रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् । ७.१०४.८ ॥ ॥

so 'haṁ sannyastabhāro hi tvāmupāse jagatpatim ।
rakṣāṁ vidhatsva bhūteṣu mama tejaskaro bhavān ।
7.104.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · ९ ॥
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् । ७.१०४.९ ॥ ॥

tatastvamapi durdharṣāttasmādbhāvātsanātanāt ।
rakṣārthaṁ sarvabhūtānāṁ viṣṇutvamupajagmivān ।
7.104.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · १० ॥
अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः । समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे । ७.१०४.१० ॥ ॥

adityāṁ vīryavānputro bhrāta'ṇāṁ vīryavardhanaḥ ।
samutpanneṣu kṛtyeṣu teṣāṁ sāhyāya kalpase ।
7.104.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · ११ ॥
त्वं वित्रास्यमानासु प्रजासु जगतां वर । रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः । ७.१०४.११ ॥ ॥

sa tvaṁ vitrāsyamānāsu prajāsu jagatāṁ vara ।
rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ ।
7.104.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · १२ ॥
दश वर्षसहस्राणि दश वर्षशतानि च । कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा । ७.१०४.१२ ॥ ॥

daśa varṣasahasrāṇi daśa varṣaśatāni ca ।
kṛtvā vāsasya niyatiṁ svayamevātmanā purā ।
7.104.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · १३ ॥
त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह । कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् । ७.१०४.१३ ॥ ॥

sa tvaṁ manomayaḥ putraḥ pūrṇāyurmānuṣeṣviha ।
kālo 'yaṁ te naraśreṣṭha samīpamupavartitum ।
7.104.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · १४ ॥
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् । वस वा वीर भद्रं एवमाह पितामहः । ७.१०४.१४ ॥ ॥

yadi bhūyo mahārāja prajā icchasyupāsitum ।
vasa vā vīra bhadraṁ ta evamāha pitāmahaḥ ।
7.104.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · १५ ॥
अथ वा विजिगीषा ते सुरलोकाय राघव । सनाथा विष्णुना देवा भवन्तु विगतज्वराः । ७.१०४.१५ ॥ ॥

atha vā vijigīṣā te suralokāya rāghava ।
sanāthā viṣṇunā devā bhavantu vigatajvarāḥ ।
7.104.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · १६ ॥
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् । राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् । ७.१०४.१६ ॥ ॥

śrutvā pitāmahenoktaṁ vākyaṁ kālasamīritam ।
rāghavaḥ prahasanvākyaṁ sarvasaṁhāramabravīt ।
7.104.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · १७ ॥
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् । प्रीतिर्हि महती जाता तवागमनसम्भवा । ७.१०४.१७ ॥ ॥

śrutvā me devadevasya vākyaṁ paramamadbhutam ।
prītirhi mahatī jātā tavāgamanasambhavā ।
7.104.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · १८ ॥
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः । भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः । ७.१०४.१८ ॥ ॥

trayāṇāmapi lokānāṁ kāryārthaṁ mama sambhavaḥ ।
bhadraṁ te 'stu gamiṣyāmi yata evāhamāgataḥ ।
7.104.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०४ · १९ ॥
हद्गतो ह्यसि सम्प्राप्तो मे तत्र विचारणा । मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् । स्थातव्यं सर्वसंहार यथा ह्याह पितामहः । ७.१०४.१९ ॥

hadgato hyasi samprāpto na me tatra vicāraṇā ।
mayā hi sarvakṛtyeṣu devānāṁ vaśavartinām ।
sthātavyaṁ sarvasaṁhāra yathā hyāha pitāmahaḥ ।
7.104.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.