वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १०५ · १८ श्लोकाःSarga 105 · 18 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १०५ · १ ॥
तथा तयोः संवदतोर्दुर्वासा भगवानृषिः । रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् । ७.१०५.१ ॥ ॥

tathā tayoḥ saṁvadatordurvāsā bhagavānṛṣiḥ ।
rāmasya darśanākāṅkṣī rājadvāramupāgamat ।
7.105.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · २ ॥
सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः । रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते । ७.१०५.२ ॥ ॥

so 'bhigamya tu saumitrimuvāca ṛṣisattamaḥ ।
rāmaṁ darśaya me śīghraṁ purā me 'rtho 'tivartate ।
7.105.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · ३ ॥
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा । अभिवाद्य महात्मानं वाक्यमेतदुवाच ह । ७.१०५.३ ॥ ॥

munestu bhāṣitaṁ śrutvā lakṣmaṇaḥ paravīrahā ।
abhivādya mahātmānaṁ vākyametaduvāca ha ।
7.105.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · ४ ॥
किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् । व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् । ७.१०५.४ ॥ ॥

kiṁ kāryaṁ brūhi bhagavanko vā 'rthaḥ kiṁ karomyaham ।
vyagro hi rāghavo brahmanmuhūrtaṁ pratipālyatām ।
7.105.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · ५ ॥
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः । उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा । ७.१०५.५ ॥ ॥

tacchrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ ।
uvāca lakṣmaṇaṁ vākyaṁ nirdahanniva cakṣuṣā ।
7.105.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · ६ ॥
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय । अस्मिन्क्षणे मां सौमित्रे निवेदयसे यदि । ७.१०५.६ ॥ ॥

asminkṣaṇe māṁ saumitre rāmāya prativedaya ।
asminkṣaṇe māṁ saumitre na nivedayase yadi ।
7.105.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · ७ ॥
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा । भरतं चैव सौमित्रे युष्माकं या सन्ततिः । ७.१०५.७ ॥ ॥

viṣayaṁ tvāṁ puraṁ caiva śapiṣye rāghavaṁ tathā ।
bharataṁ caiva saumitre yuṣmākaṁ yā ca santatiḥ ।
7.105.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · ८ ॥
हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि । तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः । चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् । ७.१०५.८ ॥ ॥

na hi śakṣyāmyahaṁ bhūyo manyuṁ dhārayituṁ hṛdi ।
tacchrutvā ghorasaṅkāśaṁ vākyaṁ tasya mahātmanaḥ ।
cintayāmāsa manasā tasya vākyasya niścayam ।
7.105.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · ९ ॥
एकस्य मरणं मे ऽस्तु मा भूत्सर्वविनाशनम् । इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् । ७.१०५.९ ॥ ॥

ekasya maraṇaṁ me 'stu mā bhūtsarvavināśanam ।
iti buddhyā viniścitya rāghavāya nyavedayat ।
7.105.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · १० ॥
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च । निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह । ७.१०५.१० ॥ ॥

lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṁ visṛjya ca ।
nissṛtya tvaritaṁ rājā atreḥ putraṁ dadarśa ha ।
7.105.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · ११ ॥
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत । ७.१०५.११ ॥ ॥

so 'bhivādya mahātmānaṁ jvalantamiva tejasā ।
kiṁ kāryamiti kākutsthaḥ kṛtāñjalirabhāṣata ।
7.105.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · १२ ॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् । प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल । ७.१०५.१२ ॥ ॥

tadvākyaṁ rāghaveṇoktaṁ śrutvā munivaraḥ prabhum ।
pratyāha rāmaṁ durvāsāḥ śrūyatāṁ dharmavatsala ।
7.105.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · १३ ॥
अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम । सो ऽहं भोजनमिच्छामि यथासिद्धं तवानघ । ७.१०५.१३ ॥ ॥

adya varṣasahasrasya samāptistapaso mama ।
so 'haṁ bhojanamicchāmi yathāsiddhaṁ tavānagha ।
7.105.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · १४ ॥
तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः । भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् । ७.१०५.१४ ॥ ॥

tacchrutvā vacanaṁ rājā rāghavaḥ prītamānasaḥ ।
bhojanaṁ munimukhyāya yathāsiddhamupāharat ।
7.105.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · १५ ॥
तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् । साधु रामेति सम्भाष्य स्वमाश्रममुपागमत् । ७.१०५.१५ ॥ ॥

sa tu bhuktvā muniśreṣṭhastadannamamṛtopamam ।
sādhu rāmeti sambhāṣya svamāśramamupāgamat ।
7.105.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · १६ ॥
तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः । संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् । ७.१०५.१६ ॥ ॥

tasmin gate munivare svāśramaṁ lakṣmaṇāgrajaḥ ।
saṁsmṛtya kālavākyāni tato duḥkhamupāgamat ।
7.105.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · १७ ॥
दुःखेन सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् । अवाङ्मुखो दीनमना व्याहर्तुं शशाक ह । ७.१०५.१७ ॥ ॥

duḥkhena ca susantaptaḥ smṛtvā tadghoradarśanam ।
avāṅmukho dīnamanā vyāhartuṁ na śaśāka ha ।
7.105.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०५ · १८ ॥
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः । नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः । ७.१०५.१८ ॥

tato buddhyā viniścitya kālavākyāni rāghavaḥ ।
naitadastīti niścitya tūṣṇīmāsīnmahāyaśāḥ ।
7.105.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.