वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १०६ · १८ श्लोकाःSarga 106 · 18 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १०६ · १ ॥
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् । राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् । ७.१०६.१ ॥ ॥

avāṅmukhamatho dīnaṁ dṛṣṭvā somamivāplutam ।
rāghavaṁ lakṣmaṇo vākyaṁ hṛṣṭo madhuramabravīt ।
7.106.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · २ ॥
संतापं महाबाहो मदर्थं कर्तुमर्हसि । पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी । ७.१०६.२ ॥ ॥

na saṁtāpaṁ mahābāho madarthaṁ kartumarhasi ।
pūrvanirmāṇabaddhā hi kālasya gatirīdṛśī ।
7.106.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · ३ ॥
जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय । हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः । ७.१०६.३ ॥ ॥

jahi māṁ saumya visrabdhaṁ pratijñāṁ paripālaya ।
hīnapratijñāḥ kākutstha prayānti narakaṁ narāḥ ।
7.106.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · ४ ॥
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि । जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव । ७.१०६.४ ॥ ॥

yadi prītirmahārāja yadyanugrāhyatā mayi ।
jahi māṁ nirviśaṅkastvaṁ dharmaṁ vardhaya rāghava ।
7.106.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · ५ ॥
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः । मन्त्रिणः समुपानीय तथैव पुरोधसम् । ७.१०६.५ ॥ ॥

lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ ।
mantriṇaḥ samupānīya tathaiva ca purodhasam ।
7.106.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · ६ ॥
अब्रवीच्च तदा वृत्तं तेषां मध्ये राघवः । दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च । ७.१०६.६ ॥ ॥

abravīcca tadā vṛttaṁ teṣāṁ madhye sa rāghavaḥ ।
durvāsobhigamaṁ caiva pratijñāṁ tāpasasya ca ।
7.106.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · ७ ॥
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत । वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह । ७.१०६.७ ॥ ॥

tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata ।
vasiṣṭhastu mahātejā vākyametaduvāca ha ।
7.106.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · ८ ॥
दृष्टमेतन्महाबाहो क्षयं ते रोमहर्षणम् । लक्ष्मणेन वियोगश्च तव राम महायशः । ७.१०६.८ ॥ ॥

dṛṣṭametanmahābāho kṣayaṁ te romaharṣaṇam ।
lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ ।
7.106.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · ९ ॥
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः । विनष्टायां प्रतिज्ञायां धर्मो ऽपि लयं व्रजेत् । ७.१०६.९ ॥ ॥

tyajainaṁ balavānkālo mā pratijñāṁ vṛthā kṛtāḥ ।
vinaṣṭāyāṁ pratijñāyāṁ dharmo 'pi ca layaṁ vrajet ।
7.106.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · १० ॥
ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम् । सदेवर्षिगणं सर्वं विनश्येत्तु संशयः । ७.१०६.१० ॥ ॥

tato dharme vinaṣṭe tu trailokyaṁ sacarācaram ।
sadevarṣigaṇaṁ sarvaṁ vinaśyettu na saṁśayaḥ ।
7.106.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · ११ ॥
त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात् । लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह । ७.१०६.११ ॥ ॥

sa tvaṁ puruṣaśārdūla trailokyasyābhipālanāt ।
lakṣmaṇena vinā cādya jagatsvasthaṁ kuruṣva ha ।
7.106.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · १२ ॥
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम् । श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् । ७.१०६.१२ ॥ ॥

teṣāṁ tatsamavetānāṁ vākyaṁ dharmārthasaṁhitam ।
śrutvā pariṣado madhye rāmo lakṣmaṇamabravīt ।
7.106.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · १३ ॥
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः । त्यागो वधो वा विहितः साधूनां तूभयं समम् । ७.१०६.१३ ॥ ॥

visarjaye tvāṁ saumitre mā bhūddharmaviparyayaḥ ।
tyāgo vadho vā vihitaḥ sādhūnāṁ tūbhayaṁ samam ।
7.106.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · १४ ॥
रामेण भाषिते वाक्ये बाष्पव्याकुलितेन्द्रियः । लक्ष्मणस्त्वरितं प्रायात्स्वगृहं विवेश ह । ७.१०६.१४ ॥ ॥

rāmeṇa bhāṣite vākye bāṣpavyākulitendriyaḥ ।
lakṣmaṇastvaritaṁ prāyātsvagṛhaṁ na viveśa ha ।
7.106.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · १५ ॥
गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः । निगृह्य सर्वस्रोतांसि निःश्वासं मुमोच ह । ७.१०६.१५ ॥ ॥

sa gatvā sarayūtīramupaspṛśya kṛtāñjaliḥ ।
nigṛhya sarvasrotāṁsi niḥśvāsaṁ na mumoca ha ।
7.106.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · १६ ॥
अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः । देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा । ७.१०६.१६ ॥ ॥

aniḥśvasantaṁ yuktaṁ taṁ saśakrāḥ sāpsarogaṇāḥ ।
devāḥ sarṣigaṇāḥ sarve puṣpairabhyakiraṁstadā ।
7.106.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · १७ ॥
अदृश्यं सर्वमनुजैः सशरीरं महाबलम् । प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह । ७.१०६.१७ ॥ ॥

adṛśyaṁ sarvamanujaiḥ saśarīraṁ mahābalam ।
pragṛhya lakṣmaṇaṁ śakrastridivaṁ saṁviveśa ha ।
7.106.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०६ · १८ ॥
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः । दृष्ट्वा प्रमुदिताः सर्वे ऽपूजयन् समहर्षयः । ७.१०६.१८ ॥

tato viṣṇoścaturbhāgamāgataṁ surasattamāḥ ।
dṛṣṭvā pramuditāḥ sarve 'pūjayan samaharṣayaḥ ।
7.106.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.