वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १०७ · २१ श्लोकाःSarga 107 · 21 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १०७ · १ ॥
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः । पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् । ७.१०७.१ ॥ ॥

visṛjya lakṣmaṇaṁ rāmo duḥkhaśokasamanvitaḥ ।
purodhasaṁ mantriṇaśca naigamāṁścedamabravīt ।
7.107.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · २ ॥
अद्य राज्ये ऽभिषेक्ष्यामि भरतं धर्मवत्सलम् । अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् । ७.१०७.२ ॥ ॥

adya rājye 'bhiṣekṣyāmi bharataṁ dharmavatsalam ।
ayodhyāyāḥ patiṁ vīraṁ tato yāsyāmyahaṁ vanam ।
7.107.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · ३ ॥
प्रवेशयत सम्भारान्माभूत्कालस्य पर्ययः । अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् । ७.१०७.३ ॥ ॥

praveśayata sambhārānmābhūtkālasya paryayaḥ ।
adyaivāhaṁ gamiṣyāmi lakṣmaṇena gatāṁ gatim ।
7.107.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · ४ ॥
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम् । मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् । ७.१०७.४ ॥ ॥

tacchrutvā rāghaveṇoktaṁ sarvāḥ prakṛtayo bhṛśam ।
mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan ।
7.107.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · ५ ॥
भरतश्च विसञ्ज्ञो ऽभूच्छ्रुत्वा रामस्य भाषितम् । राज्यं विगर्हयामास राघवं चेदमब्रवीत् । ७.१०७.५ ॥ ॥

bharataśca visañjño 'bhūcchrutvā rāmasya bhāṣitam ।
rājyaṁ vigarhayāmāsa rāghavaṁ cedamabravīt ।
7.107.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · ६ ॥
सत्येनाहं शपे राजन्स्वर्गलोके चैव हि । कामये यथा राज्यं त्वां विना रघुनन्दन । ७.१०७.६ ॥ ॥

satyenāhaṁ śape rājansvargaloke na caiva hi ।
na kāmaye yathā rājyaṁ tvāṁ vinā raghunandana ।
7.107.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · ७ ॥
इमौ कुशलवौ राजन्नभिषिञ्च नराधिप । कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् । ७.१०७.७ ॥ ॥

imau kuśalavau rājannabhiṣiñca narādhipa ।
kosaleṣu kuśaṁ vīramuttareṣu tathā lavam ।
7.107.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · ८ ॥
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः । इदं गमनमस्माकं स्वर्गायाख्यातु मा चिरम् । ७.१०७.८ ॥ ॥

śatrughnasya tu gacchantu dūtāstvaritavikramāḥ ।
idaṁ gamanamasmākaṁ svargāyākhyātu mā ciram ।
7.107.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · ९ ॥
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् । पौरान्दुःखेन सन्तप्तान्वसिष्ठो वाक्यमब्रवीत् । ७.१०७.९ ॥ ॥

tacchrutvā bharatenoktaṁ dṛṣṭvā cāpi hyadhomukhān ।
paurānduḥkhena santaptānvasiṣṭho vākyamabravīt ।
7.107.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · १० ॥
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः । ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः । ७.१०७.१० ॥ ॥

vatsa rāma imāḥ paśya dharaṇīṁ prakṛtīrgatāḥ ।
jñātvaiṣāmīpsitaṁ kāryaṁ mā caiṣāṁ vipriyaṁ kṛthāḥ ।
7.107.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · ११ ॥
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् । किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् । ७.१०७.११ ॥ ॥

vasiṣṭhasya tu vākyena utthāpya prakṛtījanam ।
kiṁ karomīti kākutsthaḥ sarvā vacanamabravīt ।
7.107.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · १२ ॥
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन् । गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि । ७.१०७.१२ ॥ ॥

tataḥ sarvāḥ prakṛtayo rāmaṁ vacanamabruvan ।
gacchantamanugacchāmo yatra rāma gamiṣyasi ।
7.107.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · १३ ॥
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः । सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम् । ७.१०७.१३ ॥ ॥

paureṣu yadi te prītiryadi sneho hyanuttamaḥ ।
saputradārāḥ kākutstha samāgacchāma satpatham ।
7.107.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · १४ ॥
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा । वयं ते यदि त्याज्याः सर्वान्नो नय ईश्वर । ७.१०७.१४ ॥ ॥

tapovanaṁ vā durgaṁ vā nadīmambhonidhiṁ tathā ।
vayaṁ te yadi na tyājyāḥ sarvānno naya īśvara ।
7.107.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · १५ ॥
एषा नः परमा प्रीतिरेष नः परमो वरः । हृद्गता नः सदा प्रीतिस्तवानुगमने नृप । ७.१०७.१५ ॥ ॥

eṣā naḥ paramā prītireṣa naḥ paramo varaḥ ।
hṛdgatā naḥ sadā prītistavānugamane nṛpa ।
7.107.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · १६ ॥
पौराणां दृढभक्तिं बाढमित्येव सो ऽब्रवीत् । स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहनि राघवः । ७.१०७.१६ ॥ ॥

paurāṇāṁ dṛḍhabhaktiṁ ca bāḍhamityeva so 'bravīt ।
svakṛtāntaṁ cānvavekṣya tasminnahani rāghavaḥ ।
7.107.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · १७ ॥
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् । अभिषिच्य महात्मानावुभौ रामः कुशीलवौ । ७.१०७.१७ ॥ ॥

kosaleṣu kuśaṁ vīramuttareṣu tathā lavam ।
abhiṣicya mahātmānāvubhau rāmaḥ kuśīlavau ।
7.107.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · १८ ॥
अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः । परिष्वज्य महाबाहुर्मूर्ध्न्युपाघ्राय चासकृत् । ७.१०७.१८ ॥ ॥

abhiṣiktau sutāvaṅke pratiṣṭhāpya pure tataḥ ।
pariṣvajya mahābāhurmūrdhnyupāghrāya cāsakṛt ।
7.107.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · १९ ॥
रथानां तु सहस्राणि नागानामयुतानि च । दशायुतानि चाश्वानामेकैकस्य धनं ददौ । ७.१०७.१९ ॥ ॥

rathānāṁ tu sahasrāṇi nāgānāmayutāni ca ।
daśāyutāni cāśvānāmekaikasya dhanaṁ dadau ।
7.107.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · २० ॥
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ । स्वे पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ । ७.१०७.२० ॥ ॥

bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau ।
sve pure preṣayāmāsa bhrātarau tu kuśīlavau ।
7.107.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०७ · २१ ॥
अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा । दूतान्सम्प्रेषयामास शत्रुघ्नाय महात्मने । ७.१०७.२१ ॥

abhiṣicya sutau vīrau pratiṣṭhāpya pure tadā ।
dūtānsampreṣayāmāsa śatrughnāya mahātmane ।
7.107.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.