वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १०८ · ३८ श्लोकाःSarga 108 · 38 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १०८ · १ ॥
ते दूता रामवाक्येन चोदिता लघुविक्रमाः । प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं चाध्वनि । ७.१०८.१ ॥ ॥

te dūtā rāmavākyena coditā laghuvikramāḥ ।
prajagmurmadhurāṁ śīghraṁ cakrurvāsaṁ na cādhvani ।
7.108.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २ ॥
ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ । शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् । ७.१०८.२ ॥ ॥

te tu tribhirahorātraiḥ samprāpya madhurāmatha ।
śatrughnāya yathātattvamācakhyuḥ sarvameva tat ।
7.108.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ३ ॥
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च । पुत्रयोरभिषेकं पौरानुगमनं तथा । ७.१०८.३ ॥ ॥

lakṣmaṇasya parityāgaṁ pratijñāṁ rāghavasya ca ।
putrayorabhiṣekaṁ ca paurānugamanaṁ tathā ।
7.108.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ४ ॥
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि । कुशावतीति नाम्ना सा कृता रामेण धीमता । श्रावस्तीति पुरी रम्या श्राविता लवस्य ह । ७.१०८.४ ॥ ॥

kuśasya nagarī ramyā vindhyaparvatarodhasi ।
kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā ।
śrāvastīti purī ramyā śrāvitā ca lavasya ha ।
7.108.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ५ ॥
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा । स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ । ७.१०८.५ ॥ ॥

ayodhyāṁ vijanāṁ kṛtvā rāghavo bharatastathā ।
svargasya gamanodyogaṁ kṛtavantau mahārathau ।
7.108.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ६ ॥
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने । विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् । ७.१०८.६ ॥ ॥

evaṁ sarvaṁ nivedyāśu śatrughnāya mahātmane ।
viremuste tato dūtāstvara rājeti cābruvan ।
7.108.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ७ ॥
तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् । प्रकृतीस्तु समानीय काञ्चनं पुरोधसम् । ७.१०८.७ ॥ ॥

tacchrutvā ghorasaṅkāśaṁ kulakṣayamupasthitam ।
prakṛtīstu samānīya kāñcanaṁ ca purodhasam ।
7.108.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ८ ॥
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः । आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह । ७.१०८.८ ॥ ॥

teṣāṁ sarvaṁ yathāvṛttamabravīdraghanandanaḥ ।
ātmanaśca viparyāsaṁ bhaviṣyaṁ bhrātṛbhiḥ saha ।
7.108.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ९ ॥
ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः । सुबाहुर्मधुरां लेभे शत्रुघाती वैदिशम् । ७.१०८.९ ॥ ॥

tataḥ putradvayaṁ vīraḥ so 'bhyaṣiñcannarādhipaḥ ।
subāhurmadhurāṁ lebhe śatrughātī ca vaidiśam ।
7.108.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · १० ॥
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः । धनं युक्तं कृत्वा वै स्थापयामास पार्थिवः । ७.१०८.१० ॥ ॥

dvidhā kṛtvā tu tāṁ senāṁ mādhurīṁ putrayordvayoḥ ।
dhanaṁ ca yuktaṁ kṛtvā vai sthāpayāmāsa pārthivaḥ ।
7.108.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ११ ॥
सुबाहुं मधुरायां वैदेशे शत्रुघातिनम् । ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः । ७.१०८.११ ॥ ॥

subāhuṁ madhurāyāṁ ca vaideśe śatrughātinam ।
yayau sthāpya tadā 'yodhyāṁ rathenaikena rāghavaḥ ।
7.108.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · १२ ॥
ददर्श महात्मानं ज्वलन्तमिव पावकम् । सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः । ७.१०८.१२ ॥ ॥

sa dadarśa mahātmānaṁ jvalantamiva pāvakam ।
sūkṣmakṣaumāmbaradharaṁ munibhiḥ sārdhamakṣayaiḥ ।
7.108.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · १३ ॥
सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः । उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् । ७.१०८.१३ ॥ ॥

so 'bhivādya tato rāmaṁ prāñjaliḥ prayatendriyaḥ ।
uvāca vākyaṁ dharmajñaṁ dharmamevānucintayan ।
7.108.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · १४ ॥
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् । ७.१०८.१४ ॥ ॥

kṛtvābhiṣekaṁ sutayordvayo rāghavanandana ।
tavānugamane rājanviddhi māṁ kṛtaniścayam ।
7.108.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · १५ ॥
चान्यदपि वक्तव्यमतो वीर शासनम् । विलोक्यमानमिच्छामि मद्विधेन विशेषतः । ७.१०८.१५ ॥ ॥

na cānyadapi vaktavyamato vīra na śāsanam ।
vilokyamānamicchāmi madvidhena viśeṣataḥ ।
7.108.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · १६ ॥
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः । बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह । ७.१०८.१६ ॥ ॥

tasya tāṁ buddhimaklībāṁ vijñāya raghunandanaḥ ।
bāḍhamityeva śatrughnaṁ rāmo vākyamuvāca ha ।
7.108.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · १७ ॥
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः । ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः । ७.१०८.१७ ॥ ॥

tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ ।
ṛkṣarākṣasasaṅghāśca samāpeturanekaśaḥ ।
7.108.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · १८ ॥
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः । तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् । ७.१०८.१८ ॥ ॥

sugrīvaṁ te puraskṛtya sarva eva samāgatāḥ ।
taṁ rāmaṁ draṣṭumanasaḥ svargāyābhimukhaṁ sthitam ।
7.108.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · १९ ॥
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा । रामक्षयं विदित्वा ते सर्व एव समागताः । ७.१०८.१९ ॥ ॥

devaputrā ṛṣisutā gandharvāṇāṁ sutāstathā ।
rāmakṣayaṁ viditvā te sarva eva samāgatāḥ ।
7.108.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २० ॥
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः । तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः । ७.१०८.२० ॥ ॥

te rāmamabhivādyocuḥ sarve vānararākṣasāḥ ।
tavānugamane rājansamprāptāḥ kṛtaniścayāḥ ।
7.108.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २१ ॥
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम । यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः । ७.१०८.२१ ॥ ॥

yadi rāma vināsmābhirgacchestvaṁ puruṣottama ।
yamadaṇḍamivodyamya tvayā sma vinipātitāḥ ।
7.108.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २२ ॥
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् । ७.१०८.२२ ॥ ॥

tairevamuktaḥ kākutstho bāḍhamityabravīt smayan ।
7.108.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २३ ॥
एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः । प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः । ७.१०८.२३ ॥ ॥

etasminnantare rāmaṁ sugrīvo 'pi mahābalaḥ ।
praṇamya vidhivadvīraṁ vijñāpayitumudyataḥ ।
7.108.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २४ ॥
अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् । ७.१०८.२४ ॥ ॥

abhiṣicyāṅgadaṁ vīramāgato 'smi nareśvara ।
tavānugamane rājanviddhi māṁ kṛtaniścayam ।
7.108.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २५ ॥
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः । वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् । ७.१०८.२५ ॥ ॥

tasya tadvacanaṁ śrutvā rāmo ramayatāṁ varaḥ ।
vānarendramathovācaṁ maitraṁ tasyānucintayan ।
7.108.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २६ ॥
सखे शृणुष्व सुग्रीव त्वया ऽहं विनाकृतः । गच्छेयं देवलोकं वा परमं वा पदं महत् । ७.१०८.२६ ॥ ॥

sakhe śṛṇuṣva sugrīva na tvayā 'haṁ vinākṛtaḥ ।
gaccheyaṁ devalokaṁ vā paramaṁ vā padaṁ mahat ।
7.108.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २७ ॥
बिभीषणमथोवाच राक्षसेन्द्रं महायशाः । यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण । राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि । ७.१०८.२७ ॥ ॥

bibhīṣaṇamathovāca rākṣasendraṁ mahāyaśāḥ ।
yāvatprajā dhariṣyanti tāvattvaṁ vai bibhīṣaṇa ।
rākṣasendra mahāvīrya laṅkāsthastvaṁ dhariṣyasi ।
7.108.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २८ ॥
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह । ७.१०८.२८ ॥ ॥

yāvaccandraśca sūryaśca yāvattiṣṭhati medinī ।
yāvacca matkathā loke tāvadrājyaṁ tavāstviha ।
7.108.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · २९ ॥
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् । प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि । ७.१०८.२९ ॥ ॥

śāsitastvaṁ sakhitvena kāryaṁ te mama śāsanam ।
prajāḥ saṁrakṣa dharmeṇa nottaraṁ vaktumarhasi ।
7.108.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ३० ॥
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते । ७.१०८.३० ॥ ॥

kiñcānyadvaktumicchāmi rākṣasendra mahāmate ।
7.108.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ३१ ॥
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् । आराधनीयमनिशं सर्वैर्दैवैः सवासवैः । ७.१०८.३१ ॥ ॥

ārādhaya jagannāthamikṣvākukuladaivatam ।
ārādhanīyamaniśaṁ sarvairdaivaiḥ savāsavaiḥ ।
7.108.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ३२ ॥
तथेति प्रतिजग्राह रामवाक्यं विभीषणः । राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् । ७.१०८.३२ ॥ ॥

tatheti pratijagrāha rāmavākyaṁ vibhīṣaṇaḥ ।
rājā rākṣasamukhyānāṁ rāghavājñāmanusmaran ।
7.108.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ३३ ॥
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् । जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय । ७.१०८.३३ ॥ ॥

tamevamuktvā kākutstho hanūmantamathābravīt ।
jīvite kṛtabuddhistvaṁ mā pratijñāṁ vilopaya ।
7.108.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ३४ ॥
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर । तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् । ७.१०८.३४ ॥ ॥

matkathāḥ pracariṣyanti yāvalloke harīśvara ।
tāvadramasva suprīto madvākyamanupālayan ।
7.108.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ३५ ॥
एवमुक्तस्तु हनुमान्राघवेण महात्मना । वाक्यं विज्ञापयामास परं हर्षमवाप्य च । ७.१०८.३५ ॥ ॥

evamuktastu hanumānrāghaveṇa mahātmanā ।
vākyaṁ vijñāpayāmāsa paraṁ harṣamavāpya ca ।
7.108.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ३६ ॥
यावत्तव कथा लोके विचरिष्यति पावनी । तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् । ७.१०८.३६ ॥ ॥

yāvattava kathā loke vicariṣyati pāvanī ।
tāvatsthāsyāmi medinyāṁ tavājñāmanupālayan ।
7.108.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ३७ ॥
जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा । मैन्दं द्विविदं चैव पञ्च जाम्बवता सह । यावत्कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा । ७.१०८.३७ ॥ ॥

jāmbavantaṁ tathoktvā tu vṛddhaṁ brahmasutaṁ tathā ।
maindaṁ ca dvividaṁ caiva pañca jāmbavatā saha ।
yāvatkaliśca samprāptastāvajjīvata sarvadā ।
7.108.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०८ · ३८ ॥
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् । उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् । ७.१०८.३८ ॥

tānevamuktvā kākutsthaḥ sarvāṁstānṛkṣavānarān ।
uvāca bāḍhaṁ gacchadhvaṁ mayā sārdhaṁ yathepsitam ।
7.108.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.