वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १०९ · २२ श्लोकाःSarga 109 · 22 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १०९ · १ ॥
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः । रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् । ७.१०९.१ ॥ ॥

prabhātāyāṁ tu śarvaryāṁ pṛthuvakṣā mahāyaśāḥ ।
rāmaḥ kamalapatrākṣaḥ purodhasamathābravīt ।
7.109.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · २ ॥
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः । वाजपेयातपत्रं शोभमानं महापथे । ७.१०९.२ ॥ ॥

agnihotraṁ vrajatvagre dīpyamānaṁ saha dvijaiḥ ।
vājapeyātapatraṁ ca śobhamānaṁ mahāpathe ।
7.109.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · ३ ॥
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः । चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् । ७.१०९.३ ॥ ॥

tato vasiṣṭhastejasvī sarvaṁ niravaśeṣataḥ ।
cakāra vidhivaddharmaṁ mahāprāsthānikaṁ vidhim ।
7.109.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · ४ ॥
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् । कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ । ७.१०९.४ ॥ ॥

tataḥ sūkṣmāmbaradharo brahmamāvartayanparam ।
kuśāngṛhītvā pāṇibhyāṁ prasajya prayayāvatha ।
7.109.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · ५ ॥
अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि । निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् । ७.१०९.५ ॥ ॥

avyāharankvacitkiñcinniśceṣṭo niḥsukhaḥ pathi ।
nirjagāma gṛhāttasmāddīpyamāna ivāṁśumān ।
7.109.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · ६ ॥
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता । सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः । ७.१०९.६ ॥ ॥

rāmasya dakṣiṇe pārśve sapadmā śrīrapāśritā ।
savye tu hrīrmahādevī vyavasāyastathāgrataḥ ।
7.109.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · ७ ॥
शरा नानाविधाश्चापि धनुरायतमुत्तमम् । तथा ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः । ७.१०९.७ ॥ ॥

śarā nānāvidhāścāpi dhanurāyatamuttamam ।
tathā ' 'yudhāni te sarve yayuḥ puruṣavigrahāḥ ।
7.109.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · ८ ॥
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी । ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः । ७.१०९.८ ॥ ॥

vedā brāhmaṇarūpeṇa gāyatrī sarvarakṣiṇī ।
oṅkāro 'tha vaṣaṭkāraḥ sarve rāmamanuvratāḥ ।
7.109.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · ९ ॥
ऋषयश्च महात्मानः सर्व एव महीसुराः । अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् । ७.१०९.९ ॥ ॥

ṛṣayaśca mahātmānaḥ sarva eva mahīsurāḥ ।
anvagacchanmahātmānaṁ svargadvāramapāvṛtam ।
7.109.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · १० ॥
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः । सवृद्धबालदासीकाः सवर्षवरकिङ्कराः । ७.१०९.१० ॥ ॥

taṁ yāntamanugacchanti hyantaḥpuracarāḥ striyaḥ ।
savṛddhabāladāsīkāḥ savarṣavarakiṅkarāḥ ।
7.109.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · ११ ॥
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ । रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः । ७.१०९.११ ॥ ॥

sāntaḥpuraśca bharataḥ śatrughnasahito yayau ।
rāmaṁ gatimupāgamya sāgnihotramanuvrataḥ ।
7.109.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · १२ ॥
ते सर्वे महात्मानः साग्निहोत्राः समागताः । सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् । ७.१०९.१२ ॥ ॥

te ca sarve mahātmānaḥ sāgnihotrāḥ samāgatāḥ ।
saputradārāḥ kākutsthamanujagmurmahāmatim ।
7.109.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · १३ ॥
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः । सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् । ७.१०९.१३ ॥ ॥

mantriṇo bhṛtyavargāśca saputrapaśubāndhavāḥ ।
sarve sahānugā rāmamanvagacchanprahṛṣṭavat ।
7.109.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · १४ ॥
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः । गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः । ७.१०९.१४ ॥ ॥

tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ ।
gacchantamanvagachaṁstaṁ rāghavaṁ guṇarañjitāḥ ।
7.109.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · १५ ॥
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः । राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः । ७.१०९.१५ ॥ ॥

tataḥ sastrīpumāṁsaste sapakṣipaśuvāhanāḥ ।
rāghavasyānugāḥ sarve hṛṣṭā vigatakalmaṣāḥ ।
7.109.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · १६ ॥
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः । दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् । ७.१०९.१६ ॥ ॥

snātāḥ pramuditāḥ sarve hṛṣṭāḥ puṣṭāśca vānarāḥ ।
dṛḍhaṁ kilakilāśabdaiḥ sarvaṁ rāmamanuvratam ।
7.109.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · १७ ॥
तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः । हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् । ७.१०९.१७ ॥ ॥

na tatra kaściddīno vā vrīḍito vā 'pi duḥkhitaḥ ।
hṛṣṭaṁ samuditaṁ sarvaṁ babhūva paramādbhutam ।
7.109.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · १८ ॥
द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः । यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा । ७.१०९.१८ ॥ ॥

draṣṭukāmo 'tha niryāntaṁ rāmaṁ jānapado janaḥ ।
yaḥ prāptaḥ so 'pi dṛṣṭvaiva svargāyānugato mudā ।
7.109.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · १९ ॥
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः । आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः । ७.१०९.१९ ॥ ॥

ṛkṣavānararakṣāṁsi janāśca puravāsinaḥ ।
āgacchanparayā bhaktyā pṛṣṭhataḥ susamāhitāḥ ।
7.109.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · २० ॥
यानि भूतानि नगरे ऽप्यन्तर्धानगतानि च । राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् । ७.१०९.२० ॥ ॥

yāni bhūtāni nagare 'pyantardhānagatāni ca ।
rāghavaṁ tānyanuyayuḥ svargāya samupasthitam ।
7.109.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · २१ ॥
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च । सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि । ७.१०९.२१ ॥ ॥

yāni paśyanti kākutsthaṁ sthāvarāṇi carāṇi ca ।
sarvāṇi rāmagamane hyanujagmurhi tānyapi ।
7.109.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १०९ · २२ ॥
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते । तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः । ७.१०९.२२ ॥ ॥

nocchvasattadayodhyāyāṁ susūkṣmamapi dṛśyate ।
tiryagyonigatāścāpi sarve rāmamanuvratāḥ ।
7.109.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.