वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ११० · २८ श्लोकाःSarga 110 · 28 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ११० · १ ॥
अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् । सरयूं पुण्यसलिलां ददर्श रघुनन्दनः । ७.११०.१ ॥ ॥

adhyardhayojanaṁ gatvā nadīṁ paścānmukhāśritām ।
sarayūṁ puṇyasalilāṁ dadarśa raghunandanaḥ ।
7.110.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · २ ॥
तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः । आगतः सप्रजो रामस्तं देशं रघुनन्दनः । ७.११०.२ ॥ ॥

tāṁ nadīmākulāvartāṁ sarvatrānusarannṛpaḥ ।
āgataḥ saprajo rāmastaṁ deśaṁ raghunandanaḥ ।
7.110.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · ३ ॥
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः । सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः । ७.११०.३ ॥ ॥

atha tasminmuhūrte tu brahmā lokapitāmahaḥ ।
sarvaiḥ parivṛto devairṛṣibhiśca mahātmabhiḥ ।
7.110.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · ४ ॥
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः । विमानशतकोटीभिर्दिव्याभिरभिसंवृतः । ७.११०.४ ॥ ॥

āyayau yatra kākutsthaḥ svargāya samupasthitaḥ ।
vimānaśatakoṭībhirdivyābhirabhisaṁvṛtaḥ ।
7.110.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · ५ ॥
दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् । स्वयम्प्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः । ७.११०.५ ॥ ॥

divyatejovṛtaṁ vyoma jyotirbhūtamanuttamam ।
svayamprabhaiḥ svatejobhiḥ svargibhiḥ puṇyakarmabhiḥ ।
7.110.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · ६ ॥
पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः । पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् । ७.११०.६ ॥ ॥

puṇyā vātā vavuścaiva gandhavantaḥ sukhapradāḥ ।
papāta puṣpavṛṣṭiśca devairmuktā mahaughavat ।
7.110.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · ७ ॥
तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले । सरयूसलिलं रामः पद्भ्यां समुपचक्रमे । ७.११०.७ ॥ ॥

tasmiṁstūryaśataiḥ kīrṇe gandharvāpsarasaṅkule ।
sarayūsalilaṁ rāmaḥ padbhyāṁ samupacakrame ।
7.110.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · ८ ॥
ततः पितामहो वाणीमन्तरिक्षादभाषत । आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तो ऽसि राघव । ७.११०.८ ॥ ॥

tataḥ pitāmaho vāṇīmantarikṣādabhāṣata ।
āgaccha viṣṇo bhadraṁ te diṣṭyā prāpto 'si rāghava ।
7.110.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · ९ ॥
भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् । यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् । वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् । ७.११०.९ ॥ ॥

bhrātṛbhiḥ saha devābhaiḥ praviśasva svikāṁ tanum ।
yāmicchasi mahābāho tāṁ tanuṁ praviśa svikām ।
vaiṣṇavīṁ tāṁ mahātejastadvākāśaṁ sanātanam ।
7.110.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · १० ॥
त्वं हि लोकगतिर्देव त्वां केचित्प्रजानते । ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् । त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् । ७.११०.१० ॥ ॥

tvaṁ hi lokagatirdeva na tvāṁ kecitprajānate ।
ṛte māyāṁ viśālākṣīṁ tava pūrvaparigrahām ।
tvāmacintyaṁ mahadbhūtamakṣayaṁ sarvasaṅgraham ।
7.110.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · ११ ॥
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् । ७.११०.११ ॥

yāmicchasi mahātejastāṁ tanuṁ praviśa svayam ।
7.110.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · १२ ॥
ां विशालाक्षीं तव पूर्वपरिग्रहाम् । पितामहवचः श्रुत्वा विनिश्चित्य महामतिः । विवेश वैष्णवं तेजः सशरीरः सहानुजः । ७.११०.१२ ॥ ॥

āṁ viśālākṣīṁ tava pūrvaparigrahām ।
pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ ।
viveśa vaiṣṇavaṁ tejaḥ saśarīraḥ sahānujaḥ ।
7.110.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · १३ ॥
ततो विष्णुमयं देवं पूजयन्ति स्म देवताः । साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः । ७.११०.१३ ॥ ॥

tato viṣṇumayaṁ devaṁ pūjayanti sma devatāḥ ।
sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ ।
7.110.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · १४ ॥
ये दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः । सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः । ७.११०.१४ ॥ ॥

ye ca divyā ṛṣigaṇā gandharvāpsarasaśca yāḥ ।
suparṇanāgayakṣāśca daityadānavarākṣasāḥ ।
7.110.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · १५ ॥
सर्वं पुष्टं प्रमुदितं सुसम्पूर्णमनोरथम् । साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् । ७.११०.१५ ॥ ॥

sarvaṁ puṣṭaṁ pramuditaṁ susampūrṇamanoratham ।
sādhu sādhviti tairdevaistridivaṁ gatakalmaṣam ।
7.110.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · १६ ॥
अथ विष्णुर्महातेजाः पितामहमुवाच ह । एषां लोकं जनौघानां दातुमर्हसि सुव्रत । ७.११०.१६ ॥ ॥

atha viṣṇurmahātejāḥ pitāmahamuvāca ha ।
eṣāṁ lokaṁ janaughānāṁ dātumarhasi suvrata ।
7.110.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · १७ ॥
इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः । भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते । ७.११०.१७ ॥ ॥

ime hi sarve snehānmāmanuyātā yaśasvinaḥ ।
bhaktā hi bhajitavyāśca tyaktātmānaśca matkṛte ।
7.110.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · १८ ॥
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः । लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः । ७.११०.१८ ॥ ॥

tacchrutvā viṣṇuvacanaṁ brahmā lokaguruḥ prabhuḥ ।
lokānsāntānikānnāma yāsyantīme samāgatāḥ ।
7.110.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · १९ ॥
यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् । प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति । ७.११०.१९ ॥ ॥

yacca tiryaggataṁ kiñcittvāmevamanucintayat ।
prāṇāṁstyakṣyati bhaktyā vai tatsantāne nivatsyati ।
7.110.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · २० ॥
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे । ७.११०.२० ॥ ॥

sarvairbrahmaguṇairyukte brahmalokādanantare ।
7.110.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · २१ ॥
वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः । येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः । ७.११०.२१ ॥ ॥

vānarāśca svikāṁ yonimṛkṣāścaiva tathā yayuḥ ।
yebhyo vinissṛtāḥ sarve surebhyaḥ surasambhavāḥ ।
7.110.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · २२ ॥
तेषु प्रविविशे चैव सुग्रीवः सूर्यमण्डलम् । पश्यतां सर्वदेवानां स्वान्पितऽन्प्रतिपेदिरे । ७.११०.२२ ॥ ॥

teṣu praviviśe caiva sugrīvaḥ sūryamaṇḍalam ।
paśyatāṁ sarvadevānāṁ svānpita'npratipedire ।
7.110.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · २३ ॥
तथोक्तवति देवेशे गोप्रतारमुपागताः । भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः । ७.११०.२३ ॥ ॥

tathoktavati deveśe gopratāramupāgatāḥ ।
bhejire sarayūṁ sarve harṣapūrṇāśruviklavāḥ ।
7.110.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · २४ ॥
अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् । मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत । ७.११०.२४ ॥ ॥

avagāhya jalaṁ yo yaḥ prāṇī hyāsīt prahṛṣṭavat ।
mānuṣaṁ dehamutsṛjya vimānaṁ so 'dhyarohata ।
7.110.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · २५ ॥
तिर्यग्योनिगतानां शतानि सरयूजलम् । सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च । दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् । ७.११०.२५ ॥ ॥

tiryagyonigatānāṁ ca śatāni sarayūjalam ।
samprāpya tridivaṁ jagmuḥ prabhāsuravapūṁṣi ca ।
divyā divyena vapuṣā devā dīptā ivābhavan ।
7.110.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · २६ ॥
गत्वा तु सरयूतोयं स्थावराणि चराणि च । प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् । ७.११०.२६ ॥ ॥

gatvā tu sarayūtoyaṁ sthāvarāṇi carāṇi ca ।
prāpya tattoyavikledaṁ devalokamupāgaman ।
7.110.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · २७ ॥
तस्मिन्नपि समापन्ना ऋक्षवानरराक्षसाः । ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि । ७.११०.२७ ॥ ॥

tasminnapi samāpannā ṛkṣavānararākṣasāḥ ।
te 'pi svargaṁ praviviśurdehānnikṣipya cāmbhasi ।
7.110.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११० · २८ ॥
ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि । जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् । ७.११०.२८ ॥

tataḥ samāgatānsarvānsthāpya lokagururdivi ।
jagāma tridaśaiḥ sārdhaṁ sadā hṛṣṭairdivaṁ mahat ।
7.110.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.