वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १११ · २५ श्लोकाःSarga 111 · 25 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १११ · १ ॥
एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् । रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् । ७.१११.१ ॥ ॥

etāvadetadākhyānaṁ sottaraṁ brahmapūjitam ।
rāmāyaṇamiti khyātaṁ mukhyaṁ vālmīkīnā kṛtam ।
7.111.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · २ ॥
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् । येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् । ७.१११.२ ॥ ॥

tataḥ pratiṣṭhito viṣṇuḥ svargaloke yathā puram ।
yena vyāptamidaṁ sarvaṁ trailokyaṁ sacarācaram ।
7.111.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · ३ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि । ७.१११.३ ॥ ॥

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ ।
nityaṁ śṛṇvanti santuṣṭāḥ divyaṁ rāmāyaṇaṁ divi ।
7.111.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · ४ ॥
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् । रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः । ७.१११.४ ॥ ॥

idamākhyānamāyuṣyaṁ saubhāgyaṁ pāpanāśanam ।
rāmāyaṇaṁ vedasamaṁ śrāddheṣu śrāvayedbudhaḥ ।
7.111.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · ५ ॥
अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् । ७.१११.५ ॥ ॥

aputro labhate putramadhano labhate dhanam ।
sarvapāpaiḥ pramucyeta padamapyasya yaḥ paṭhet ।
7.111.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · ६ ॥
पापान्यपि यः कुर्यादहन्यहनि मानवः । पठत्येकमपि श्लोकं पापात्स परिमुच्यते । ७.१११.६ ॥ ॥

pāpānyapi ca yaḥ kuryādahanyahani mānavaḥ ।
paṭhatyekamapi ślokaṁ pāpātsa parimucyate ।
7.111.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · ७ ॥
वाचकाय दातव्यं वस्त्रं धेनुं हिरण्यकम् । वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः । ७.१११.७ ॥ ॥

vācakāya ca dātavyaṁ vastraṁ dhenuṁ hiraṇyakam ।
vācake parituṣṭe tu tuṣṭāḥ syuḥ sarvadevatāḥ ।
7.111.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · ८ ॥
एतदाख्यानमायुष्यं पठन्रामायणं नरः । सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते । ७.१११.८ ॥ ॥

etadākhyānamāyuṣyaṁ paṭhanrāmāyaṇaṁ naraḥ ।
saputrapautro loke 'sminpretya ceha mahīyate ।
7.111.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · ९ ॥
अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् । ऋषभं प्राप्य राजानं निवासमुपयास्यति । ७.१११.९ ॥ ॥

ayodhyā 'pi purī ramyā śūnyā varṣagaṇānbahūn ।
ṛṣabhaṁ prāpya rājānaṁ nivāsamupayāsyati ।
7.111.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · १० ॥
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् । कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत । ७.१११.१० ॥ ॥

etadākhyānamāyuṣyaṁ sabhaviṣyaṁ sahottaram ।
kṛtavānpracetasaḥ putrastadbrahmāpyanvamanyata ।
7.111.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · ११ ॥
अश्वमेधसहस्रस्य वाजपेयायुतस्य च । लभते श्रावणादेव सर्गस्यैकस्य मानवः । ७.१११.११ ॥ ॥

aśvamedhasahasrasya vājapeyāyutasya ca ।
labhate śrāvaṇādeva sargasyaikasya mānavaḥ ।
7.111.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · १२ ॥
प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि । गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् । ७.१११.१२ ॥ ॥

prayāgādīni tīrthāni gaṅgādyāḥ saritastathā ।
naimiśādīnyaraṇyāni kurukṣetrādikānyapi ।
gatāni tena loke 'sminyena rāmāyaṇaṁ śrutam ।
7.111.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · १३ ॥
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति । यश्च रामायणं लोके शृणोति सदृशावुभौ । ७.१११.१३ ॥ ॥

hemabhāraṁ kurukṣetre graste bhānau prayacchati ।
yaśca rāmāyaṇaṁ loke śṛṇoti sadṛśāvubhau ।
7.111.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · १४ ॥
सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् । सर्वपापात्प्रमुच्येत विष्णुलोकं गच्छति । ७.१११.१४ ॥ ॥

samyakchraddhāsamāyuktaḥ śṛṇute rāghavīṁ kathām ।
sarvapāpātpramucyeta viṣṇulokaṁ sa gacchati ।
7.111.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · १५ ॥
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् । यः शृणोति सदा भक्त्या गच्छेद्वैष्णवीं तनुम् । ७.१११.१५ ॥ ॥

ādikāvyamidaṁ tvārṣaṁ purā vālmīkinā kṛtam ।
yaḥ śṛṇoti sadā bhaktyā sa gacchedvaiṣṇavīṁ tanum ।
7.111.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · १६ ॥
पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा । सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः । ७.१११.१६ ॥ ॥

putradārāśca vardhante sampadaḥ santatistathā ।
satyametadviditvā tu śrotavyaṁ niyatātmabhiḥ ।
7.111.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · १७ ॥
गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् । ७.१११.१७ ॥ ॥

gāyatryāśca svarūpaṁ tadrāmāyaṇamanuttamam ।
7.111.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · १८ ॥
अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् । ७.१११.१८ ॥ ॥

aputro labhate putramadhano labhate dhanam ।
sarvapāpaiḥ pramucyeta padamapyasya yaḥ paṭhet ।
7.111.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · १९ ॥
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह । भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् । ७.१११.१९ ॥ ॥

yaḥ paṭhecchṛṇuyānnityaṁ caritaṁ rāghavasya ha ।
bhaktyā niṣkalmaṣo bhūtvā dīrghamāyuravāpnuyāt ।
7.111.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · २० ॥
चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं इच्छति । श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने । ७.१११.२० ॥ ॥

cintayedrāghavaṁ nityaṁ śreyaḥ prāptuṁ ya icchati ।
śrāvayedidamākhyānaṁ brāhmaṇebhyo dine dine ।
7.111.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · २१ ॥
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् । सो ऽसुक्षये विष्णुलोकं गच्छत्येव संशयः । ७.१११.२१ ॥ ॥

yastvidaṁ raghunāthasya caritaṁ sakalaṁ paṭhet ।
so 'sukṣaye viṣṇulokaṁ gacchatyeva na saṁśayaḥ ।
7.111.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · २२ ॥
पिता पितामहस्तस्य तथैव प्रपितामहः । तत्पिता तत्पिता चैव विष्णुं यान्ति संशयः । ७.१११.२२ ॥ ॥

pitā pitāmahastasya tathaiva prapitāmahaḥ ।
tatpitā tatpitā caiva viṣṇuṁ yānti na saṁśayaḥ ।
7.111.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · २३ ॥
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु । तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा । ७.१११.२३ ॥ ॥

caturvargapradaṁ nityaṁ caritaṁ rāghavasya tu ।
tasmādyatnavatā nityaṁ śrotavyaṁ paramaṁ sadā ।
7.111.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · २४ ॥
शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा । याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा । ७.१११.२४ ॥ ॥

śṛṇvanrāmāyaṇaṁ bhaktyā yaḥ pādaṁ padameva vā ।
sa yāti brahmaṇaḥ sthānaṁ brahmaṇā pūjyate sadā ।
7.111.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १११ · २५ ॥
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् । ७.१११.२५ ॥

evametatpurāvṛttamākhyānaṁ bhadramastu vaḥ ।
pravyāharata visrabdhaṁ balaṁ viṣṇoḥ pravardhatām ।
7.111.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.