वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ९ · ४८ श्लोकाःSarga 9 · 48 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ९ · १ ॥
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः । रसातलान्मर्त्यलोकं सर्वं वै विचचार ह । ७.९.१ ॥ ॥

kasyacittvatha kālasya sumālī nāma rākṣasaḥ ।
rasātalānmartyalokaṁ sarvaṁ vai vicacāra ha ।
7.9.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २ ॥
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् । ७.९.२ ॥ ॥

nīlajīmūtasaṅkāśastaptakāñcanakuṇḍalaḥ ।
kanyāṁ duhitaraṁ gṛhya vinā padmamiva śriyam ।
7.9.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३ ॥
राक्षसेन्द्रः तु तदा विचरन्वै महीतलम् । तदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् । ७.९.३ ॥ ॥

rākṣasendraḥ sa tu tadā vicaranvai mahītalam ।
tadāpaśyatsa gacchantaṁ puṣpakeṇa dhaneśvaram ।
7.9.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ४ ॥
गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । तं दृष्ट्वा ऽमरसङ्काशं स्वच्छन्दं तपनोपमम् । ७.९.४ ॥ ॥

gacchantaṁ pitaraṁ draṣṭuṁ pulastyatanayaṁ vibhum ।
taṁ dṛṣṭvā 'marasaṅkāśaṁ svacchandaṁ tapanopamam ।
7.9.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ५ ॥
रसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः । इत्येवं चिन्तयामास राक्षसानां महामतिः । ७.९.५ ॥ ॥

rasātalaṁ praviṣṭaḥ sanmartyalokātsavismayaḥ ।
ityevaṁ cintayāmāsa rākṣasānāṁ mahāmatiḥ ।
7.9.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ६ ॥
किं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम् । अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः । ७.९.६ ॥ ॥

kiṁ kṛtaṁ śreya ityevaṁ vardhemahi kathaṁ vayam ।
athābravītsutāṁ rakṣaḥ kaikasīṁ nāma nāmataḥ ।
7.9.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ७ ॥
पुत्रि प्रदानकालो ऽयं यौवनं व्यतिवर्तते । प्रत्याख्यानाच्च भीतैस्त्वं वरैः प्रतिगृह्यसे । ७.९.७ ॥ ॥

putri pradānakālo 'yaṁ yauvanaṁ vyativartate ।
pratyākhyānācca bhītaistvaṁ na varaiḥ pratigṛhyase ।
7.9.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ८ ॥
त्वत्कृते वयं सर्वे यन्त्रिता धर्मबुद्धयः । त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् । ७.९.८ ॥ ॥

tvatkṛte ca vayaṁ sarve yantritā dharmabuddhayaḥ ।
tvaṁ hi sarvaguṇopetā śrīḥ sākṣādiva putrike ।
kanyāpitṛtvaṁ duḥkhaṁ hi sarveṣāṁ mānakāṅkṣiṇām ।
7.9.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ९ ॥
ज्ञायते कः कन्यां वरयेदिति कन्यके । ७.९.९ ॥ ॥

na jñāyate ca kaḥ kanyāṁ varayediti kanyake ।
7.9.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · १० ॥
त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति । ७.९.१० ॥ ॥

tvaṁ hi sarvaguṇopetā śrīḥ sākṣādiva putrike ।
mātuḥ kulaṁ pitṛkulaṁ yatra caiva pradīyate ।
kulatrayaṁ sadā kanyā saṁśaye sthāpya tiṣṭhati ।
7.9.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ११ ॥
सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् । ७.९.११ ॥ ॥

sā tvaṁ munivaraṁ śreṣṭhaṁ prajāpatikulodbhavam ।
bhaja viśravasaṁ putri paulastyaṁ varaya svayam ।
7.9.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · १२ ॥
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि संशयः । तेजसा भास्करसमो यादृशो ऽयं धनेश्वरः । ७.९.१२ ॥ ॥

īdṛśāste bhaviṣyanti putrāḥ putri na saṁśayaḥ ।
tejasā bhāskarasamo yādṛśo 'yaṁ dhaneśvaraḥ ।
7.9.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · १३ ॥
सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते । ७.९.१३ ॥ ॥

sā tu tadvacanaṁ śrutvā kanyakā pitṛgauravāt ।
tatropāgamya sā tasthau viśravā yatra tapyate ।
7.9.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · १४ ॥
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः । ७.९.१४ ॥ ॥

etasminnantare rāma pulastyatanayo dvijaḥ ।
agnihotramupātiṣṭhaccaturtha iva pāvakaḥ ।
7.9.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · १५ ॥
अविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी । ७.९.१५ ॥ ॥

avicintya tu tāṁ velāṁ dāruṇāṁ pitṛgauravāt ।
upasṛtyāgratastasya caraṇādhomukhī sthitā ।
vilikhantī muhurbhūmimaṅguṣṭhāgreṇa bhāminī ।
7.9.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · १६ ॥
तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । अब्रवीत्परमोदारो दीप्यमानां स्वतेजसा । ७.९.१६ ॥ ॥

sa tu tāṁ vīkṣya suśroṇīṁ pūrṇacandranibhānanām ।
abravītparamodāro dīpyamānāṁ svatejasā ।
7.9.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · १७ ॥
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने । ७.९.१७ ॥ ॥

bhadre kasyāsi duhitā kuto vā tvamihāgatā ।
kiṁ kāryaṁ kasya vā hetostattvato brūhi śobhane ।
7.9.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · १८ ॥
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् । आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् । ७.९.१८ ॥ ॥

evamuktā tu sā kanyā kṛtāñjalirathābravīt ।
ātmaprabhāveṇa mune jñātumarhasi me matam ।
7.9.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · १९ ॥
किं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि । ७.९.१९ ॥ ॥

kiṁ tu māṁ viddhi brahmarṣe śāsanātpiturāgatām ।
kaikasī nāma nāmnāhaṁ śeṣaṁ tvaṁ jñātumarhasi ।
7.9.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २० ॥
तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् । ७.९.२० ॥ ॥

sa tu gatvā munirdhyānaṁ vākyametaduvāca ha ।
vijñātaṁ te mayā bhadre kāraṇaṁ yanmanogatam ।
7.9.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २१ ॥
सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता । ७.९.२१ ॥ ॥

sutābhilāṣo mattaste mattamātaṅgagāmini ।
dāruṇāyāṁ tu velāyāṁ yasmāttvaṁ māmupasthitā ।
7.9.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २२ ॥
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि । दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् । ७.९.२२ ॥ ॥

śṛṇu tasmātsutānbhadre yādṛśāñjanayiṣyasi ।
dāruṇāndāruṇākārāndāruṇābhijanapriyān ।
7.9.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २३ ॥
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः । सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः । ७.९.२३ ॥ ॥

prasaviṣyasi suśroṇi rākṣasānkrūrakarmaṇaḥ ।
sā tu tadvacanaṁ śrutvā praṇipatyābravīdvacaḥ ।
7.9.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २४ ॥
भगवन्नीदृशान्पुत्रांस्त्वत्तो ऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि । ७.९.२४ ॥ ॥

bhagavannīdṛśānputrāṁstvatto 'haṁ brahmavādinaḥ ।
necchāmi sudurācārānprasādaṁ kartumarhasi ।
7.9.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २५ ॥
कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् । ७.९.२५ ॥ ॥

kanyayā tvevamuktastu viśravā munipuṅgavaḥ ।
uvāca kaikasīṁ bhūyaḥ pūrṇenduriva rohiṇīm ।
7.9.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २६ ॥
पश्चिमो यस्तव सुतो भविष्यति शुभानने । मम वंशानुरूपः धर्मात्मा भविष्यति । ७.९.२६ ॥ ॥

paścimo yastava suto bhaviṣyati śubhānane ।
mama vaṁśānurūpaḥ sa dharmātmā ca bhaviṣyati ।
7.9.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २७ ॥
एवमुक्ता तु सा कन्या राम कालेन केनचित् । जनयामास बीभत्सं रक्षोरूपं सुदारुणम् । ७.९.२७ ॥ ॥

evamuktā tu sā kanyā rāma kālena kenacit ।
janayāmāsa bībhatsaṁ rakṣorūpaṁ sudāruṇam ।
7.9.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २८ ॥
दशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् । ७.९.२८ ॥ ॥

daśagrīvaṁ mahādaṁṣṭraṁ nīlāñjanacayopamam ।
tāmroṣṭhaṁ viṁśatibhujaṁ mahāsyaṁ dīptamūrdhajam ।
7.9.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · २९ ॥
तस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः । क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः । ७.९.२९ ॥ ॥

tasmiñjāte tu tatkāle sajvālakavalāḥ śivāḥ ।
kravyādāścāpasavyāni maṇḍalāni pracakramuḥ ।
7.9.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३० ॥
ववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः । प्रबभौ सूर्यो वै महोल्काश्चापतन्भुवि । ७.९.३० ॥ ॥

vavarṣa rudhiraṁ devo meghāśca kharaniḥsvanāḥ ।
prababhau na ca sūryo vai maholkāścāpatanbhuvi ।
7.9.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३१ ॥
चकम्पे जगती चैव ववुर्वाताः सुदारुणाः । अक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः । ७.९.३१ ॥ ॥

cakampe jagatī caiva vavurvātāḥ sudāruṇāḥ ।
akṣobhyaḥ kṣubhitaścaiva samudraḥ saritāṁ patiḥ ।
7.9.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३२ ॥
अथ नामाकरोत्तस्य पितामहसमः पिता । दशग्रीवः प्रसूतो ऽयं दशग्रीवो भविष्यति । ७.९.३२ ॥ ॥

atha nāmākarottasya pitāmahasamaḥ pitā ।
daśagrīvaḥ prasūto 'yaṁ daśagrīvo bhaviṣyati ।
7.9.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३३ ॥
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते । ७.९.३३ ॥ ॥

tasya tvanantaraṁ jātaḥ kumbhakarṇo mahābalaḥ ।
pramāṇādyasya vipulaṁ pramāṇaṁ neha vidyate ।
7.9.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३४ ॥
ततः शूर्पणखा नाम सञ्जज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः । ७.९.३४ ॥ ॥

tataḥ śūrpaṇakhā nāma sañjajñe vikṛtānanā ।
vibhīṣaṇaśca dharmātmā kaikasyāḥ paścimaḥ sutaḥ ।
7.9.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३५ ॥
तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह । ७.९.३५ ॥ ॥

tasmiñjāte mahāsattve puṣpavarṣaṁ papāta ha ।
7.9.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३६ ॥
नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा । वाक्यं चैवान्तरिक्षे साधु साध्विति तत्तदा । ७.९.३६ ॥ ॥

nabhaḥsthāne dundubhayo devānāṁ prāṇadaṁstadā ।
vākyaṁ caivāntarikṣe ca sādhu sādhviti tattadā ।
7.9.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३७ ॥
तौ तु तत्र महारण्ये ववृधाते महौजसौ । कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा । ७.९.३७ ॥ ॥

tau tu tatra mahāraṇye vavṛdhāte mahaujasau ।
kumbhakarṇadaśagrīvau lokodvegakarau tadā ।
7.9.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३८ ॥
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् । त्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह । ७.९.३८ ॥ ॥

kumbhakarṇaḥ pramattastu maharṣīndharmavatsalān ।
trailokyaṁ bhakṣayannityāsantuṣṭo vicacāra ha ।
7.9.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ३९ ॥
विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः । स्वाध्यायनियताहार उवास विजितेन्द्रियः । ७.९.३९ ॥ ॥

vibhīṣaṇastu dharmātmā nityaṁ dharme vyavasthitaḥ ।
svādhyāyaniyatāhāra uvāsa vijitendriyaḥ ।
7.9.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ४० ॥
अथ वैश्रवणो देवस्तत्र कालेन केनचित् । आगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः । ७.९.४० ॥ ॥

atha vaiśravaṇo devastatra kālena kenacit ।
āgataḥ pitaraṁ draṣṭuṁ puṣpakeṇa dhaneśvaraḥ ।
7.9.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ४१ ॥
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । आगम्य राक्षसी तत्र दशग्रीवमुवाच ह । ७.९.४१ ॥ ॥

taṁ dṛṣṭvā kaikasī tatra jvalantamiva tejasā ।
āgamya rākṣasī tatra daśagrīvamuvāca ha ।
7.9.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ४२ ॥
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् । भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् । ७.९.४२ ॥ ॥

putra vaiśravaṇaṁ paśya bhrātaraṁ tejasā vṛtam ।
bhrātṛbhāve same cāpi paśyātmānaṁ tvamīdṛśam ।
7.9.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ४३ ॥
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम । यथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः । ७.९.४३ ॥ ॥

daśagrīva tathā yatnaṁ kuruṣvāmitavikrama ।
yathā tvamasi me putra bhava rvaiśravaṇopamaḥ ।
7.9.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ४४ ॥
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा । ७.९.४४ ॥ ॥

mātustadvacanaṁ śrutvā daśagrīvaḥ pratāpavān ।
amarṣamatulaṁ lebhe pratijñāṁ cākarottadā ।
7.9.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ४५ ॥
सत्यं ते प्रतिजानामि भ्रातृतुल्यो ऽधिको ऽपि वा । भविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् । ७.९.४५ ॥ ॥

satyaṁ te pratijānāmi bhrātṛtulyo 'dhiko 'pi vā ।
bhaviṣyāmyojasā caiva santāpaṁ tyaja hṛdgatam ।
7.9.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ४६ ॥
ततस्तेनैव कोपेन दशग्रीवः सहानुजः । चिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः । ७.९.४६ ॥ ॥

tatastenaiva kopena daśagrīvaḥ sahānujaḥ ।
cikīrṣurduṣkaraṁ karma tapase dhṛtamānasaḥ ।
7.9.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ४७ ॥
प्राप्स्यामि तपसा काममिति कृत्वा ऽध्यवस्य च । आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् । ७.९.४७ ॥ ॥

prāpsyāmi tapasā kāmamiti kṛtvā 'dhyavasya ca ।
āgacchadātmasiddhyarthaṁ gokarṇasyāśramaṁ śubham ।
7.9.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ९ · ४८ ॥
राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । अतोषयच्चापि पितामहं विभुं ददौ तुष्टश्च वराञ्जयावहान् । ७.९.४८ ॥

sa rākṣasastatra sahānujastadā tapaścakārātulamugravikramaḥ ।
atoṣayaccāpi pitāmahaṁ vibhuṁ dadau sa tuṣṭaśca varāñjayāvahān ।
7.9.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.