वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १० · ४९ श्लोकाःSarga 10 · 49 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १० · १ ॥
अथाब्रवीन्मुनिं रामः कथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मंस्तपस्तेपुर्महाबलाः । ७.१०.१ ॥ ॥

athābravīnmuniṁ rāmaḥ kathaṁ te bhrātaro vane ।
kīdṛśaṁ tu tadā brahmaṁstapastepurmahābalāḥ ।
7.10.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २ ॥
अगस्त्यस्त्वब्रवीत्तत्र रामं सुप्रीतमानसम् । तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् । ७.१०.२ ॥ ॥

agastyastvabravīttatra rāmaṁ suprītamānasam ।
tāṁstāndharmavidhīṁstatra bhrātaraste samāviśan ।
7.10.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३ ॥
कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्नीन्परितः स्थितः । ७.१०.३ ॥ ॥

kumbhakarṇastato yatto nityaṁ dharmapathe sthitaḥ ।
tatāpa grīṣmakāle tu pañcāgnīnparitaḥ sthitaḥ ।
7.10.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४ ॥
मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं शिशिरे काले जलमध्यप्रतिश्रयः । ७.१०.४ ॥ ॥

meghāmbusikto varṣāsu vīrāsanamasevata ।
nityaṁ ca śiśire kāle jalamadhyapratiśrayaḥ ।
7.10.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ५ ॥
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च । ७.१०.५ ॥ ॥

evaṁ varṣasahasrāṇi daśa tasyāticakramuḥ ।
dharme prayatamānasya satpathe niṣṭhitasya ca ।
7.10.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ६ ॥
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः । पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् । ७.१०.६ ॥ ॥

vibhīṣaṇastu dharmātmā nityaṁ dharmaparaḥ śuciḥ ।
pañcavarṣasahasrāṇi pādenaikena tasthivān ।
7.10.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ७ ॥
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः । पपात पुष्पवर्षं क्षुभिताश्चापि देवताः । ७.१०.७ ॥ ॥

samāpte niyame tasya nanṛtuścāpsarogaṇāḥ ।
papāta puṣpavarṣaṁ ca kṣubhitāścāpi devatāḥ ।
7.10.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ८ ॥
पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत । तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः । ७.१०.८ ॥ ॥

pañcavarṣasahasrāṇi sūryaṁ caivānvavartata ।
tasthau cordhvaśirobāhuḥ svādhyāyadhṛtamānasaḥ ।
7.10.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ९ ॥
एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने । दशवर्षसहस्राणि गतानि नियतात्मनः । ७.१०.९ ॥ ॥

evaṁ vibhīṣaṇasyāpi svargasthasyeva nandane ।
daśavarṣasahasrāṇi gatāni niyatātmanaḥ ।
7.10.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · १० ॥
दशवर्षसहस्रं तु निराहारो दशाननः । पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः । ७.१०.१० ॥ ॥

daśavarṣasahasraṁ tu nirāhāro daśānanaḥ ।
pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ ।
7.10.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ११ ॥
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् । ७.१०.११ ॥ ॥

evaṁ varṣasahasrāṇi nava tasyāticakramuḥ ।
śirāṁsi nava cāpyasya praviṣṭāni hutāśanam ।
7.10.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · १२ ॥
अथ वर्षसहस्रे तु दशमे दशमं शिरः । छेत्तुकामे दशग्रीवे प्राप्तस्तत्र पितामहः । ७.१०.१२ ॥ ॥

atha varṣasahasre tu daśame daśamaṁ śiraḥ ।
chettukāme daśagrīve prāptastatra pitāmahaḥ ।
7.10.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · १३ ॥
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः । तव तावद्दशग्रीव प्रीतो ऽस्मीत्यभ्यभाषत । ७.१०.१३ ॥ ॥

pitāmahastu suprītaḥ sārdhaṁ devairupasthitaḥ ।
tava tāvaddaśagrīva prīto 'smītyabhyabhāṣata ।
7.10.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · १४ ॥
शीघ्रं वरय धर्मज्ञ वरो यस्ते ऽभिकाङ्क्षितः । कं ते कामं करोम्यद्य वृथा ते परिश्रमः । ७.१०.१४ ॥ ॥

śīghraṁ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ ।
kaṁ te kāmaṁ karomyadya na vṛthā te pariśramaḥ ।
7.10.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · १५ ॥
अथाब्रवीदृशग्रीवः प्रहृष्टेनान्तरात्मना । प्रणम्य शिरसा देवं हर्षगद्गदया गिरा । ७.१०.१५ ॥ ॥

athābravīdṛśagrīvaḥ prahṛṣṭenāntarātmanā ।
praṇamya śirasā devaṁ harṣagadgadayā girā ।
7.10.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · १६ ॥
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे । ७.१०.१६ ॥ ॥

bhagavanprāṇināṁ nityaṁ nānyatra maraṇādbhayam ।
nāsti mṛtyusamaḥ śatruramaratvamahaṁ vṛṇe ।
7.10.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · १७ ॥
एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह । नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे । ७.१०.१७ ॥ ॥

evamuktastadā brahmā daśagrīvamuvāca ha ।
nāsti sarvāmaratvaṁ te varamanyaṁ vṛṇīṣva me ।
7.10.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · १८ ॥
एवमुक्ते तदा राम ब्रह्मणा लोककर्तृणा । दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः । ७.१०.१८ ॥ ॥

evamukte tadā rāma brahmaṇā lokakartṛṇā ।
daśagrīva uvācedaṁ kṛtāñjalirathāgrataḥ ।
7.10.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · १९ ॥
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् । अवध्यो ऽहं प्रजाध्यक्ष देवतानां शाश्वत । ७.१०.१९ ॥ ॥

suparṇanāgayakṣāṇāṁ daityadānavarakṣasām ।
avadhyo 'haṁ prajādhyakṣa devatānāṁ ca śāśvata ।
7.10.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २० ॥
नहि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते मन्ये प्राणिनो मानुषादयः । ७.१०.२० ॥ ॥

nahi cintā mamānyeṣu prāṇiṣvamarapūjita ।
tṛṇabhūtā hi te manye prāṇino mānuṣādayaḥ ।
7.10.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २१ ॥
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा । उवाच वचनं देवः सह देवैः पितामहः । ७.१०.२१ ॥ ॥

evamuktastu dharmātmā daśagrīveṇa rakṣasā ।
uvāca vacanaṁ devaḥ saha devaiḥ pitāmahaḥ ।
7.10.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २२ ॥
भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव । एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । ७.१०.२२ ॥ ॥

bhaviṣyatyevametatte vaco rākṣasapuṅgava ।
evamuktvā tu taṁ rāma daśagrīvaṁ pitāmahaḥ ।
7.10.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २३ ॥
शृणु चापि वरो भूयः प्रीतस्येह शुभो मम । हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ । ७.१०.२३ ॥ ॥

śṛṇu cāpi varo bhūyaḥ prītasyeha śubho mama ।
hutāni yāni śīrṣāṇi pūrvamagnau tvayānagha ।
7.10.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २४ ॥
पुनस्तानि भविष्यन्ति तथैव तव राक्षस । वितरामीह ते सौम्य वरं चान्यं दुरासदम् । ७.१०.२४ ॥ ॥

punastāni bhaviṣyanti tathaiva tava rākṣasa ।
vitarāmīha te saumya varaṁ cānyaṁ durāsadam ।
7.10.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २५ ॥
छन्दतस्तव रूपं मनसा यद्यथेप्सितम् । भविष्यति सन्देहो मद्वरात्तवराक्षस । ७.१०.२५ ॥ ॥

chandatastava rūpaṁ ca manasā yadyathepsitam ।
bhaviṣyati na sandeho madvarāttavarākṣasa ।
7.10.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २६ ॥
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्नौ हुतानि शीर्षाणि पुनस्तान्युत्थितानि वै । ७.१०.२६ ॥ ॥

evaṁ pitāmahoktasya daśagrīvasya rakṣasaḥ ।
agnau hutāni śīrṣāṇi punastānyutthitāni vai ।
7.10.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २७ ॥
एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः । ७.१०.२७ ॥ ॥

evamuktvā tu taṁ rāma daśagrīvaṁ pitāmahaḥ ।
vibhīṣaṇamathovāca vākyaṁ lokapitāmahaḥ ।
7.10.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २८ ॥
विभीषण त्वया वत्स धर्मसंहितबुद्धिना । परितुष्टो ऽस्मि धर्मात्मन्वरं वरय सुव्रत । ७.१०.२८ ॥ ॥

vibhīṣaṇa tvayā vatsa dharmasaṁhitabuddhinā ।
parituṣṭo 'smi dharmātmanvaraṁ varaya suvrata ।
7.10.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · २९ ॥
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा । ७.१०.२९ ॥ ॥

vibhīṣaṇastu dharmātmā vacanaṁ prāha sāñjaliḥ ।
vṛtaḥ sarvaguṇairnityaṁ candramā raśmibhiryathā ।
7.10.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३० ॥
भगवन्कृतकृत्यो ऽहं यन्मे लोकगुरुः स्वयम् । प्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत । ७.१०.३० ॥ ॥

bhagavankṛtakṛtyo 'haṁ yanme lokaguruḥ svayam ।
prītena yadi dātavyo varo me śṛṇu suvrata ।
7.10.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३१ ॥
परमापद्गतस्यापि धर्मे मम मतिर्भवेत् । अशिक्षितं ब्रह्मास्त्रं भगवन्प्रतिभातु मे । ७.१०.३१ ॥ ॥

paramāpadgatasyāpi dharme mama matirbhavet ।
aśikṣitaṁ ca brahmāstraṁ bhagavanpratibhātu me ।
7.10.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३२ ॥
या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च । सा सा भवतु धर्मिष्ठा तं तु धर्मं पालये । ७.१०.३२ ॥ ॥

yā yā me jāyate buddhiryeṣu yeṣvāśrameṣu ca ।
sā sā bhavatu dharmiṣṭhā taṁ tu dharmaṁ ca pālaye ।
7.10.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३३ ॥
एष मे परमोदार वरः परमको मतः । नहि धर्माभिरक्तानां लोके किञ्चन दुर्लभम् । ७.१०.३३ ॥ ॥

eṣa me paramodāra varaḥ paramako mataḥ ।
nahi dharmābhiraktānāṁ loke kiñcana durlabham ।
7.10.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३४ ॥
पुनः प्रजापतिः प्रीतो विभीषणमुवाच ह । धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति । ७.१०.३४ ॥ ॥

punaḥ prajāpatiḥ prīto vibhīṣaṇamuvāca ha ।
dharmiṣṭhastvaṁ yathā vatsa tathā caitadbhaviṣyati ।
7.10.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३५ ॥
यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन । नाधर्मे जायते बुद्धिरमरत्वं ददामि ते । ७.१०.३५ ॥ ॥

yasmādrākṣasayonau te jātasyāmitranāśana ।
nādharme jāyate buddhiramaratvaṁ dadāmi te ।
7.10.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३६ ॥
इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयो ऽब्रुवन् । ७.१०.३६ ॥ ॥

ityuktvā kumbhakarṇāya varaṁ dātumupasthitam ।
prajāpatiṁ surāḥ sarve vākyaṁ prāñjalayo 'bruvan ।
7.10.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३७ ॥
तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः । ७.१०.३७ ॥ ॥

na tāvatkumbhakarṇāya pradātavyo varastvayā ।
jānīṣe hi yathā lokāṁstrāsayatyeṣa durmatiḥ ।
7.10.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३८ ॥
नन्दने ऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मन्नृषयो मानुषास्तथा । ७.१०.३८ ॥ ॥

nandane 'psarasaḥ sapta mahendrānucarā daśa ।
anena bhakṣitā brahmannṛṣayo mānuṣāstathā ।
7.10.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ३९ ॥
अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु । तदेष वरलब्धः स्याद्भक्षयेद्भुवनत्रयम् । ७.१०.३९ ॥ ॥

alabdhavarapūrveṇa yatkṛtaṁ rākṣasena tu ।
tadeṣa varalabdhaḥ syādbhakṣayedbhuvanatrayam ।
7.10.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४० ॥
वरव्याजेन मोहो ऽस्मै दीयताममितप्रभ । लोकानां स्वस्ति चैवं स्याद्भवेदस्य सन्नतिः । ७.१०.४० ॥ ॥

varavyājena moho 'smai dīyatāmamitaprabha ।
lokānāṁ svasti caivaṁ syādbhavedasya ca sannatiḥ ।
7.10.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४१ ॥
एवमुक्तः सुरैर्ब्रह्मा ऽचिन्तयत् पद्मसम्भवः । चिन्तिता चोपतस्थे ऽस्य पार्श्वं देवी सरस्वती । ७.१०.४१ ॥ ॥

evamuktaḥ surairbrahmā 'cintayat padmasambhavaḥ ।
cintitā copatasthe 'sya pārśvaṁ devī sarasvatī ।
7.10.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४२ ॥
प्राञ्जलिः सा तु पार्श्वस्था प्राह वाक्यं सरस्वती । इयमस्म्यागता देव किं कार्यं करवाण्यहम् । ७.१०.४२ ॥ ॥

prāñjaliḥ sā tu pārśvasthā prāha vākyaṁ sarasvatī ।
iyamasmyāgatā deva kiṁ kāryaṁ karavāṇyaham ।
7.10.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४३ ॥
प्रजापतिस्तुं तां प्राप्तां प्राह वाक्यं सरस्वतीम् । वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता । ७.१०.४३ ॥ ॥

prajāpatistuṁ tāṁ prāptāṁ prāha vākyaṁ sarasvatīm ।
vāṇi tvaṁ rākṣasendrasya bhava yā devatepsitā ।
7.10.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४४ ॥
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः । ७.१०.४४ ॥ ॥

tathetyuktvā praviṣṭā sā prajāpatirathābravīt ।
kumbhakarṇa mahābāho varaṁ varaya yo mataḥ ।
7.10.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४५ ॥
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् । स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् । ७.१०.४५ ॥ ॥

kumbhakarṇastu tadvākyaṁ śrutvā vacanamabravīt ।
svaptuṁ varṣāṇyanekāni devadeva mamepsitam ।
7.10.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४६ ॥
एवमस्त्विति तं चोक्त्वा प्रायाद्ब्रह्मा सुरैः समम् । देवी सरस्वती चैव राक्षसं तं जहौ पुनः । ७.१०.४६ ॥ ॥

evamastviti taṁ coktvā prāyādbrahmā suraiḥ samam ।
devī sarasvatī caiva rākṣasaṁ taṁ jahau punaḥ ।
7.10.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४७ ॥
ब्रह्मणा सह देवेषु गतेषु नभःस्थलम् । विमुक्तो ऽसौ सरस्वत्या स्वां सञ्ज्ञां ततो गतः । ७.१०.४७ ॥ ॥

brahmaṇā saha deveṣu gateṣu ca nabhaḥsthalam ।
vimukto 'sau sarasvatyā svāṁ sañjñāṁ ca tato gataḥ ।
7.10.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४८ ॥
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः । ईदृशं किमिदं वाक्यं ममाद्य वदनाच्च्युतम् । ७.१०.४८ ॥ ॥

kumbhakarṇastu duṣṭātmā cintayāmāsa duḥkhitaḥ ।
īdṛśaṁ kimidaṁ vākyaṁ mamādya vadanāccyutam ।
7.10.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १० · ४९ ॥
अहं व्यामोहितो देवैरिति मन्ये तदा ऽगतैः । एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः । श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् । ७.१०.४९ ॥

ahaṁ vyāmohito devairiti manye tadā ' 'gataiḥ ।
evaṁ labdhavarāḥ sarve bhrātaro dīptatejasaḥ ।
śleṣmātakavanaṁ gatvā tatra te nyavasansukham ।
7.10.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.