वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ११ · ५२ श्लोकाःSarga 11 · 52 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ११ · १ ॥
सुमाली वरलब्धांस्तु ज्ञात्वा चैतान्निशाचरान् । उदतिष्ठद्भयं त्यक्त्वा सानुगः रसातलात् । ७.११.१ ॥ ॥

sumālī varalabdhāṁstu jñātvā caitānniśācarān ।
udatiṣṭhadbhayaṁ tyaktvā sānugaḥ sa rasātalāt ।
7.11.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २ ॥
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः । उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः । ७.११.२ ॥ ॥

mārīcaśca prahastaśca virūpākṣo mahodaraḥ ।
udatiṣṭhansusaṁrabdhāḥ sacivāstasya rakṣasaḥ ।
7.11.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३ ॥
सुमाली सचिवैः सार्धं वृतो राक्षसपुङ्गवैः । अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् । ७.११.३ ॥ ॥

sumālī sacivaiḥ sārdhaṁ vṛto rākṣasapuṅgavaiḥ ।
abhigamya daśagrīvaṁ pariṣvajyedamabravīt ।
7.11.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४ ॥
दिष्ट्या ते वत्स सम्प्राप्तश्चिन्तितो ऽयं मनोरथः । यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमुत्तमम् । ७.११.४ ॥ ॥

diṣṭyā te vatsa samprāptaścintito 'yaṁ manorathaḥ ।
yastvaṁ tribhuvanaśreṣṭhāllabdhavānvaramuttamam ।
7.11.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ५ ॥
यत्कृते वयं लङ्कां त्यकत्वा याता रसातलम् । तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् । ७.११.५ ॥ ॥

yatkṛte ca vayaṁ laṅkāṁ tyakatvā yātā rasātalam ।
tadgataṁ no mahābāho mahadviṣṇukṛtaṁ bhayam ।
7.11.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ६ ॥
असकृत्तद्भयाद्भीताः परित्यज्य स्वमालयम् । विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम् । ७.११.६ ॥ ॥

asakṛttadbhayādbhītāḥ parityajya svamālayam ।
vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam ।
7.11.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ७ ॥
अस्मदीया लङ्केयं नगरी राक्षसोचिता । निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता । ७.११.७ ॥ ॥

asmadīyā ca laṅkeyaṁ nagarī rākṣasocitā ।
niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā ।
7.11.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ८ ॥
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ । तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् । ७.११.८ ॥ ॥

yadi nāmātra śakyaṁ syātsāmnā dānena vānagha ।
tarasā vā mahābāho pratyānetuṁ kṛtaṁ bhavet ।
7.11.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ९ ॥
त्वं तु लङ्केश्वरस्तात भविष्यसि संशयः । त्वया राक्षसवंशो ऽयं निमग्नो ऽपि समुद्धृतः । सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल । ७.११.९ ॥ ॥

tvaṁ tu laṅkeśvarastāta bhaviṣyasi na saṁśayaḥ ।
tvayā rākṣasavaṁśo 'yaṁ nimagno 'pi samuddhṛtaḥ ।
sarveṣāṁ naḥ prabhuścaiva bhaviṣyasi mahābala ।
7.11.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · १० ॥
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम् । वित्तेशो गुरुरस्माकं नार्हसे वक्तुमीदृशम् । ७.११.१० ॥ ॥

athābravīddaśagrīvo mātāmahamupasthitam ।
vitteśo gururasmākaṁ nārhase vaktumīdṛśam ।
7.11.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ११ ॥
साम्नापि राक्षसेन्द्रेण प्रत्याख्यातो गरीयसा । किञ्चिन्नाह तदा रक्षो ज्ञात्वा तस्य चकीर्षितम् । ७.११.११ ॥ ॥

sāmnāpi rākṣasendreṇa pratyākhyāto garīyasā ।
kiñcinnāha tadā rakṣo jñātvā tasya cakīrṣitam ।
7.11.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · १२ ॥
कस्यचित्त्वथ कालस्य वसन्तं रावणं ततः । उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः । ७.११.१२ ॥ ॥

kasyacittvatha kālasya vasantaṁ rāvaṇaṁ tataḥ ।
uktavantaṁ tathā vākyaṁ daśagrīvaṁ niśācaraḥ ।
7.11.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · १३ ॥
प्रहस्तः प्रश्रितं वाक्यमिदमाह कारणम् । ७.११.१३ ॥ ॥

prahastaḥ praśritaṁ vākyamidamāha sa kāraṇam ।
7.11.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · १४ ॥
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम् । सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम । ७.११.१४ ॥ ॥

daśagrīva mahābāho nārhastvaṁ vaktumīdṛśam ।
saubhrātraṁ nāsti śūrāṇāṁ śṛṇu cedaṁ vaco mama ।
7.11.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · १५ ॥
अदितिश्च दितिश्चैव भगिन्यौ सहिते हि ते । भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः । ७.११.१५ ॥ ॥

aditiśca ditiścaiva bhaginyau sahite hi te ।
bhārye paramarūpiṇyau kaśyapasya prajāpateḥ ।
7.11.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · १६ ॥
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान् । दितिस्त्वजनयत्पुत्रान्कश्यपस्यात्मसम्भवान् । ७.११.१६ ॥ ॥

aditirjanayāmāsa devāṁstribhuvaneśvarān ।
ditistvajanayatputrānkaśyapasyātmasambhavān ।
7.11.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · १७ ॥
दैत्यानां किल धर्मज्ञ पुरीयं सवनार्णवा । सपर्वता मही वीर ते ऽभवन्प्रभविष्णवः । ७.११.१७ ॥ ॥

daityānāṁ kila dharmajña purīyaṁ savanārṇavā ।
saparvatā mahī vīra te 'bhavanprabhaviṣṇavaḥ ।
7.11.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · १८ ॥
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना । देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् । ७.११.१८ ॥ ॥

nihatya tāṁstu samare viṣṇunā prabhaviṣṇunā ।
devānāṁ vaśamānītaṁ trailokyamidamavyayam ।
7.11.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · १९ ॥
नैतदेको भवानेव करिष्यति विपर्ययम् । सुरासुरैराचरितं तत्कुरुष्व वचो मम । ७.११.१९ ॥ ॥

naitadeko bhavāneva kariṣyati viparyayam ।
surāsurairācaritaṁ tatkuruṣva vaco mama ।
7.11.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २० ॥
एवमुक्तो दशग्रीवः प्रहृष्टेनान्तरात्मना । चिन्तयित्वा मुहूर्तं वै बाढमित्येव सो ऽब्रवीत् । ७.११.२० ॥ ॥

evamukto daśagrīvaḥ prahṛṣṭenāntarātmanā ।
cintayitvā muhūrtaṁ vai bāḍhamityeva so 'bravīt ।
7.11.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २१ ॥
तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान् । वनं गतो दशग्रीवः सह तैः क्षणदाचरैः । ७.११.२१ ॥ ॥

sa tu tenaiva harṣeṇa tasminnahani vīryavān ।
vanaṁ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ ।
7.11.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २२ ॥
त्रिकूटस्थः तु तदा दशग्रीवो निशाचरः । प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् । ७.११.२२ ॥ ॥

trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ ।
preṣayāmāsa dautyena prahastaṁ vākyakovidam ।
7.11.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २३ ॥
प्रहस्त शीघ्रं गच्छ त्वं ब्रूहि नैर्ऋतपुङ्गवम् । वचसा मम वित्तेशं सामपूर्वमिदं वचः । ७.११.२३ ॥ ॥

prahasta śīghraṁ gaccha tvaṁ brūhi nairṛtapuṅgavam ।
vacasā mama vitteśaṁ sāmapūrvamidaṁ vacaḥ ।
7.11.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २४ ॥
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम् । त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ । ७.११.२४ ॥ ॥

iyaṁ laṅkā purī rājanrākṣasānāṁ mahātmanām ।
tvayā niveśitā saumya naitadyuktaṁ tavānagha ।
7.11.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २५ ॥
तद्भवान्यदि नो ह्यद्य दद्यादतुलविक्रम । कृता भवेन्मम प्रीतिर्धुर्मश्चैवानुपालितः । ७.११.२५ ॥ ॥

tadbhavānyadi no hyadya dadyādatulavikrama ।
kṛtā bhavenmama prītirdhurmaścaivānupālitaḥ ।
7.11.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २६ ॥
तु गत्वा पुरीं लङ्कां धनदेन सुरक्षिताम् । अब्रवीत्परमोदारं वित्तपालमिदं वचः । ७.११.२६ ॥ ॥

sa tu gatvā purīṁ laṅkāṁ dhanadena surakṣitām ।
abravītparamodāraṁ vittapālamidaṁ vacaḥ ।
7.11.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २७ ॥
प्रेषितो ऽहं तव भ्रात्रा दशग्रीवेण सुव्रत । त्वत्समीपं महाबाहो सर्वशस्त्रभृतां वर । ७.११.२७ ॥ ॥

preṣito 'haṁ tava bhrātrā daśagrīveṇa suvrata ।
tvatsamīpaṁ mahābāho sarvaśastrabhṛtāṁ vara ।
7.11.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २८ ॥
तच्छ्रूयतां महाप्राज्ञ सर्वशास्त्रविशारद । वचनं मम वित्तेश यद्ब्रवीति दशाननः । ७.११.२८ ॥ ॥

tacchrūyatāṁ mahāprājña sarvaśāstraviśārada ।
vacanaṁ mama vitteśa yadbravīti daśānanaḥ ।
7.11.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · २९ ॥
इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा । भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः । ७.११.२९ ॥ ॥

iyaṁ kila purī ramyā sumālipramukhaiḥ purā ।
bhuktapūrvā viśālākṣa rākṣasairbhīmavikramaiḥ ।
7.11.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३० ॥
तेन विज्ञाप्यते सो ऽयं साम्प्रतं विश्रवात्मज । तदेषा दीयतां तात याचतस्तस्य सामतः । ७.११.३० ॥ ॥

tena vijñāpyate so 'yaṁ sāmprataṁ viśravātmaja ।
tadeṣā dīyatāṁ tāta yācatastasya sāmataḥ ।
7.11.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३१ ॥
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः । प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः । ७.११.३१ ॥ ॥

prahastādabhisaṁśrutya devo vaiśravaṇo vacaḥ ।
pratyuvāca prahastaṁ taṁ vākyaṁ vākyaviśāradaḥ ।
7.11.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३२ ॥
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः । निवासिते मे यक्षैर्दानमानादिभिर्गुणैः । ७.११.३२ ॥ ॥

dattā mameyaṁ pitrā tu laṅkā śūnyā niśācaraiḥ ।
nivāsite ca me yakṣairdānamānādibhirguṇaiḥ ।
7.11.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३३ ॥
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं यन्मम । तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यमकण्टकम् । ७.११.३३ ॥ ॥

brūhi gaccha daśagrīvaṁ puraṁ rājyaṁ ca yanmama ।
tavāpyetanmahābāho bhuṅkṣva rājyamakaṇṭakam ।
7.11.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३४ ॥
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् । ७.११.३४ ॥ ॥

evamuktvā dhanādhyakṣo jagāma piturantikam ।
7.11.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३५ ॥
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् । एष तात दशग्रीवो दूतं प्रेषितवान्मम । ७.११.३५ ॥ ॥

abhivādya guruṁ prāha rāvaṇasya yadīpsitam ।
eṣa tāta daśagrīvo dūtaṁ preṣitavānmama ।
7.11.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३६ ॥
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता । मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत । ७.११.३६ ॥ ॥

dīyatāṁ nagarī laṅkā pūrvaṁ rakṣogaṇoṣitā ।
mayātra yadanuṣṭheyaṁ tanmamācakṣva suvrata ।
7.11.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३७ ॥
ब्रह्मर्षिस्त्वेवमुक्तो ऽसौ विश्रवा मुनिपुङ्गवः । प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम । ७.११.३७ ॥ ॥

brahmarṣistvevamukto 'sau viśravā munipuṅgavaḥ ।
prāñjaliṁ dhanadaṁ prāha śṛṇu putra vaco mama ।
7.11.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३८ ॥
दशग्रीवो महाबाहुरुक्तवान्मम सन्निधौ । मया निर्भर्त्सितश्चासीद्बहुशोक्तः सुदुर्मतिः । ७.११.३८ ॥ ॥

daśagrīvo mahābāhuruktavānmama sannidhau ।
mayā nirbhartsitaścāsīdbahuśoktaḥ sudurmatiḥ ।
7.11.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ३९ ॥
क्रोधेन मया चोक्तो ध्वंसते पुनः पुनः । श्रेयो ऽभियुक्तं धर्म्यं शृणु पुत्र वचो मम । ७.११.३९ ॥ ॥

sa krodhena mayā cokto dhvaṁsate ca punaḥ punaḥ ।
śreyo 'bhiyuktaṁ dharmyaṁ ca śṛṇu putra vaco mama ।
7.11.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४० ॥
वरप्रदानसम्मूढो मान्या ऽमान्यान् दुर्मतिः । वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः । ७.११.४० ॥ ॥

varapradānasammūḍho mānyā 'mānyān sa durmatiḥ ।
na vetti mama śāpācca prakṛtiṁ dāruṇāṁ gataḥ ।
7.11.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४१ ॥
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् । निवेशय निवासार्थं त्यक्त्वा लङ्कां सहानुगः । ७.११.४१ ॥ ॥

tasmādgaccha mahābāho kailāsaṁ dharaṇīdharam ।
niveśaya nivāsārthaṁ tyaktvā laṅkāṁ sahānugaḥ ।
7.11.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४२ ॥
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी । काञ्चनैः सूर्यसङ्काशैः पङ्कजैः संवृतोदका । ७.११.४२ ॥ ॥

tatra mandākinī ramyā nadīnāmuttamā nadī ।
kāñcanaiḥ sūryasaṅkāśaiḥ paṅkajaiḥ saṁvṛtodakā ।
7.11.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४३ ॥
कुमुदैरुत्पलैश्चैव तथा ऽन्यैश्च सुगन्धिभिः । ७.११.४३ ॥ ॥

kumudairutpalaiścaiva tathā 'nyaiśca sugandhibhiḥ ।
7.11.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४४ ॥
तत्र देवाः सगन्धर्वाः साप्सरोरगकिंनराः । विहारशीलाः सततं रमन्ते सर्वदा ऽश्रिताः । ७.११.४४ ॥ ॥

tatra devāḥ sagandharvāḥ sāpsaroragakiṁnarāḥ ।
vihāraśīlāḥ satataṁ ramante sarvadā ' 'śritāḥ ।
7.11.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४५ ॥
हि क्षमं तवानेन वैरं धनद रक्षसा । जानीषे हि यथा ऽनेन लब्धः परमको वरः । ७.११.४५ ॥ ॥

na hi kṣamaṁ tavānena vairaṁ dhanada rakṣasā ।
jānīṣe hi yathā 'nena labdhaḥ paramako varaḥ ।
7.11.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४६ ॥
एवमुक्तो गृहीत्वा ऽशु तद्वचः पितृगौरवात् । सदारपुत्रः सामान्यः सवाहनधनो गतः । ७.११.४६ ॥ ॥

evamukto gṛhītvā ' 'śu tadvacaḥ pitṛgauravāt ।
sadāraputraḥ sāmānyaḥ savāhanadhano gataḥ ।
7.11.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४७ ॥
प्रहस्तो ऽथ दशग्रीवं गत्वा वचनमब्रवीत् । प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् । ७.११.४७ ॥ ॥

prahasto 'tha daśagrīvaṁ gatvā vacanamabravīt ।
prahṛṣṭātmā mahātmānaṁ sahāmātyaṁ sahānujam ।
7.11.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४८ ॥
शून्या सा नगरी लङ्का त्यक्त्त्वैनां धनदो गतः । प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय । ७.११.४८ ॥ ॥

śūnyā sā nagarī laṅkā tyakttvaināṁ dhanado gataḥ ।
praviśya tāṁ sahāsmābhiḥ svadharmaṁ pratipālaya ।
7.11.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ४९ ॥
एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः । विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः । ७.११.४९ ॥ ॥

evamukto daśagrīvaḥ prahastena mahābalaḥ ।
viveśa nagarīṁ laṅkāṁ bhrātṛbhiḥ sabalānugaiḥ ।
7.11.49 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ५० ॥
धनदेन परित्यक्तां सुविभक्तमहापथाम् । आरुरोह देवारिः स्वर्गं देवाधिपो यथा । ७.११.५० ॥ ॥

dhanadena parityaktāṁ suvibhaktamahāpathām ।
āruroha sa devāriḥ svargaṁ devādhipo yathā ।
7.11.50 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ५१ ॥
चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः । निकामपूर्णा बभूव सा पुरी निशाचरैर्नीलबलाहकोपमैः । ७.११.५१ ॥ ॥

sa cābhiṣiktaḥ kṣaṇadācaraistadā niveśayāmāsa purīṁ daśānanaḥ ।
nikāmapūrṇā ca babhūva sā purī niśācarairnīlabalāhakopamaiḥ ।
7.11.51 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ११ · ५२ ॥
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् । स्वलङ्कृतैर्भवनवरैर्विभूषितां पुरन्दरस्वेव तदा ऽमरावतीम् । ७.११.५२ ॥

dhaneśvarastvatha pitṛvākyagauravānnyaveśayacchaśivimale girau purīm ।
svalaṅkṛtairbhavanavarairvibhūṣitāṁ purandarasveva tadā 'marāvatīm ।
7.11.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.