वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १२ · ३२ श्लोकाःSarga 12 · 32 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १२ · १ ॥
राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा । ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् । ७.१२.१ ॥ ॥

rākṣasendro 'bhiṣiktastu bhrātṛbhyāṁ sahitastadā ।
tataḥ pradānaṁ rākṣasyā bhaginyāḥ samacintayat ।
7.12.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २ ॥
स्वसारं कालकेयाय दानवेन्द्राय राक्षसीम् । ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः । ७.१२.२ ॥ ॥

svasāraṁ kālakeyāya dānavendrāya rākṣasīm ।
dadau śūrpaṇakhāṁ nāma vidyujjihvāya nāmataḥ ।
7.12.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ३ ॥
अथ दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् । ७.१२.३ ॥ ॥

atha dattvā svayaṁ rakṣo mṛgayāmaṭate sma tat ।
tatrāpaśyattato rāma mayaṁ nāma diteḥ sutam ।
7.12.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ४ ॥
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः । अपृच्छत्को भवानेको निर्मनुष्यमृगे वने । अनया मृगशावाक्ष्या किमर्थं सह तिष्ठसि । ७.१२.४ ॥ ॥

kanyāsahāyaṁ taṁ dṛṣṭvā daśagrīvo niśācaraḥ ।
apṛcchatko bhavāneko nirmanuṣyamṛge vane ।
anayā mṛgaśāvākṣyā kimarthaṁ saha tiṣṭhasi ।
7.12.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ५ ॥
मयस्तथाब्रवीद्राम पृच्छन्तं तं निशाचरम् । श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम । ७.१२.५ ॥ ॥

mayastathābravīdrāma pṛcchantaṁ taṁ niśācaram ।
śrūyatāṁ sarvamākhyāsye yathāvṛttamidaṁ mama ।
7.12.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ६ ॥
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया । दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः । ७.१२.६ ॥ ॥

hemā nāmāpsarāstāta śrutapūrvā yadi tvayā ।
daivatairmama sā dattā paulomīva śatakratoḥ ।
7.12.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ७ ॥
तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम् । सा दैवतकार्येण त्रयोदश समा गताः । ७.१२.७ ॥ ॥

tasyāṁ saktamanāstāta pañcavarṣaśatānyaham ।
sā ca daivatakāryeṇa trayodaśa samā gatāḥ ।
7.12.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ८ ॥
वर्षं चतुर्दशं चैव ततो हेममयं पुरम् । वज्रवैडूर्यचित्रं मायया निर्मितं मया । ७.१२.८ ॥ ॥

varṣaṁ caturdaśaṁ caiva tato hemamayaṁ puram ।
vajravaiḍūryacitraṁ ca māyayā nirmitaṁ mayā ।
7.12.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ९ ॥
तत्राहमवसं दीनस्तया हीनः सुदुःखितः । ७.१२.९ ॥ ॥

tatrāhamavasaṁ dīnastayā hīnaḥ suduḥkhitaḥ ।
7.12.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · १० ॥
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः । इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता । ७.१२.१० ॥ ॥

tasmātpurādduhitaraṁ gṛhītvā vanamāgataḥ ।
iyaṁ mamātmajā rājaṁstasyāḥ kukṣau vivardhitā ।
7.12.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ११ ॥
भर्तारमनया सार्धमस्याः प्राप्तो ऽस्मि मार्गितुम् । कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् । ७.१२.११ ॥ ॥

bhartāramanayā sārdhamasyāḥ prāpto 'smi mārgitum ।
kanyāpitṛtvaṁ duḥkhaṁ hi sarveṣāṁ mānakāṅkṣiṇām ।
7.12.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · १२ ॥
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति । पुत्रद्वयं ममाप्यस्यां भार्यायां सम्बभूव ह । ७.१२.१२ ॥ ॥

kanyā hi dve kule nityaṁ saṁśaye sthāpya tiṣṭhati ।
putradvayaṁ mamāpyasyāṁ bhāryāyāṁ sambabhūva ha ।
7.12.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · १३ ॥
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः । एवं ते सर्वमाख्यातं याथातथ्येन पृच्छतः । ७.१२.१३ ॥ ॥

māyāvī prathamastāta dundubhistadanantaraḥ ।
evaṁ te sarvamākhyātaṁ yāthātathyena pṛcchataḥ ।
7.12.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · १४ ॥
त्वामिदानीं कथं तात जानीयां को भवानिति । एवमुक्तस्तु तद्रक्षो विनीतमिदमब्रवीत् । ७.१२.१४ ॥ ॥

tvāmidānīṁ kathaṁ tāta jānīyāṁ ko bhavāniti ।
evamuktastu tadrakṣo vinītamidamabravīt ।
7.12.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · १५ ॥
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः । मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणो ऽभवत् । ७.१२.१५ ॥ ॥

ahaṁ paulastyatanayo daśagrīvaśca nāmataḥ ।
munerviśravaso yastu tṛtīyo brahmaṇo 'bhavat ।
7.12.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · १६ ॥
एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः । महर्षेस्तनयं ज्ञात्वा मयो हर्षमुपागतः । दातुं दुहितरं तस्मै रोचयामास यत्र वै । ७.१२.१६ ॥ ॥

evamuktastadā rāma rākṣasendreṇa dānavaḥ ।
maharṣestanayaṁ jñātvā mayo harṣamupāgataḥ ।
dātuṁ duhitaraṁ tasmai rocayāmāsa yatra vai ।
7.12.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · १७ ॥
करेण तु करं तस्या ग्राहयित्वा मयस्तदा । प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः । ७.१२.१७ ॥ ॥

kareṇa tu karaṁ tasyā grāhayitvā mayastadā ।
prahasanprāha daityendro rākṣasendramidaṁ vacaḥ ।
7.12.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · १८ ॥
इयं ममात्मजा राजन्हेमया ऽप्सरसा धृता । कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् । ७.१२.१८ ॥ ॥

iyaṁ mamātmajā rājanhemayā 'psarasā dhṛtā ।
kanyā mandodarī nāma patnyarthaṁ pratigṛhyatām ।
7.12.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · १९ ॥
बाढमित्येव तं राम दशग्रीवो ऽभ्यभाषत । प्रज्चाल्य तत्र चैवाग्निमकरोत्पाणिसङ्ग्रहम् । ७.१२.१९ ॥ ॥

bāḍhamityeva taṁ rāma daśagrīvo 'bhyabhāṣata ।
prajcālya tatra caivāgnimakarotpāṇisaṅgraham ।
7.12.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २० ॥
हि तस्य मयो राम शापाभिज्ञस्तपोधनात् । विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् । ७.१२.२० ॥ ॥

sa hi tasya mayo rāma śāpābhijñastapodhanāt ।
viditvā tena sā dattā tasya paitāmahaṁ kulam ।
7.12.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २१ ॥
अमोघां तस्य शक्तिं प्रददौ परमाद्भुताम् । परेण तपसा लब्धां जघ्निवाँल्लक्ष्मणं यया । ७.१२.२१ ॥ ॥

amoghāṁ tasya śaktiṁ ca pradadau paramādbhutām ।
pareṇa tapasā labdhāṁ jaghnivām̐llakṣmaṇaṁ yayā ।
7.12.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २२ ॥
एवं सीकृतदारो वै लङ्काया ईश्वरः प्रभुः । गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् । ७.१२.२२ ॥ ॥

evaṁ sīkṛtadāro vai laṅkāyā īśvaraḥ prabhuḥ ।
gatvā tu nagarīṁ bhārye bhrātṛbhyāṁ samupāharat ।
7.12.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २३ ॥
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः । तां भार्यां कुम्भकर्णस्य रावणः समकल्पयत् । ७.१२.२३ ॥ ॥

vairocanasya dauhitrīṁ vajrajvāleti nāmataḥ ।
tāṁ bhāryāṁ kumbhakarṇasya rāvaṇaḥ samakalpayat ।
7.12.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २४ ॥
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः । सरमां नाम धर्मज्ञां लेभे भार्यां विभीषणः । ७.१२.२४ ॥ ॥

gandharvarājasya sutāṁ śailūṣasya mahātmanaḥ ।
saramāṁ nāma dharmajñāṁ lebhe bhāryāṁ vibhīṣaṇaḥ ।
7.12.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २५ ॥
तीरे तु सरसो वै तु सञ्जज्ञे मानसस्य हि । सरस्तदा मानसं तु ववृधे जलदागमे । ७.१२.२५ ॥ ॥

tīre tu saraso vai tu sañjajñe mānasasya hi ।
sarastadā mānasaṁ tu vavṛdhe jaladāgame ।
7.12.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २६ ॥
मात्रा तु तस्याः कन्यायाः स्नेहेनाक्रन्दितं वचः । सरो मा वर्धयस्वेति ततः सा सरमा ऽभवत् । ७.१२.२६ ॥ ॥

mātrā tu tasyāḥ kanyāyāḥ snehenākranditaṁ vacaḥ ।
saro mā vardhayasveti tataḥ sā saramā 'bhavat ।
7.12.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २७ ॥
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः । स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने । ७.१२.२७ ॥ ॥

evaṁ te kṛtadārā vai remire tatra rākṣasāḥ ।
svāṁ svāṁ bhāryāmupāgamya gandharvā iva nandane ।
7.12.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २८ ॥
ततो मन्दोदरी पुत्रं मेघनादमजीजनत् । एष इन्द्रजिन्नाम युष्माभिरभिधीयते । ७.१२.२८ ॥ ॥

tato mandodarī putraṁ meghanādamajījanat ।
sa eṣa indrajinnāma yuṣmābhirabhidhīyate ।
7.12.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · २९ ॥
जातमात्रेण हि पुरा तेन रावणसूनुना । रुदता सुमहान्मुक्तो नादो जलधरोपमः । ७.१२.२९ ॥ ॥

jātamātreṇa hi purā tena rāvaṇasūnunā ।
rudatā sumahānmukto nādo jaladharopamaḥ ।
7.12.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ३० ॥
जडीकृता सा लङ्का तस्य नादेन राघव । पिता तस्याकरोन्नाम मेघनाद इति स्वयम् । ७.१२.३० ॥ ॥

jaḍīkṛtā ca sā laṅkā tasya nādena rāghava ।
pitā tasyākaronnāma meghanāda iti svayam ।
7.12.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ३१ ॥
सो ऽवर्धत तदा राम रावणान्तःपुरे शुभे । रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः । ७.१२.३१ ॥ ॥

so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe ।
rakṣyamāṇo varastrībhiśchannaḥ kāṣṭhairivānalaḥ ।
7.12.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १२ · ३२ ॥
मातापित्रोर्महाहर्षं जनयन्रावणात्मजः । ७.१२.३२ ॥

mātāpitrormahāharṣaṁ janayanrāvaṇātmajaḥ ।
7.12.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.