वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १३ · ४२ श्लोकाःSarga 13 · 42 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १३ · १ ॥
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् । निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी । ७.१३.१ ॥ ॥

atha lokeśvarotsṛṣṭā tatra kālena kenacit ।
nidrā samabhavattīvrā kumbhakarṇasya rūpiṇī ।
7.13.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २ ॥
ततो भ्रातरमासीनं कुम्भकर्णो ऽब्रवीद्वचः । निद्रा मां बाधते राजन्कारयस्व ममालयम् । ७.१३.२ ॥ ॥

tato bhrātaramāsīnaṁ kumbhakarṇo 'bravīdvacaḥ ।
nidrā māṁ bādhate rājankārayasva mamālayam ।
7.13.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३ ॥
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् । विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम् । ७.१३.३ ॥ ॥

viniyuktāstato rājñā śilpino viśvakarmavat ।
vistīrṇaṁ yojanaṁ śubhraṁ tato dviguṇamāyatam ।
7.13.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ४ ॥
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे । स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् । ७.१३.४ ॥ ॥

darśanīyaṁ nirābādhaṁ kumbhakarṇasya cakrire ।
sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam ।
7.13.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ५ ॥
वैडूर्यकृतसोपानं किङ्किणीजालकं तथा । दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् । ७.१३.५ ॥ ॥

vaiḍūryakṛtasopānaṁ kiṅkiṇījālakaṁ tathā ।
dāntatoraṇavinyastaṁ vajrasphaṭikavedikam ।
7.13.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ६ ॥
मनोहरं सर्वसुखं कारयामास राक्षसः । सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव । ७.१३.६ ॥ ॥

manoharaṁ sarvasukhaṁ kārayāmāsa rākṣasaḥ ।
sarvatra sukhadaṁ nityaṁ meroḥ puṇyāṁ guhāmiva ।
7.13.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ७ ॥
तत्र निद्रां समाविष्टः कुम्भकर्णो महाबलः । बहून्यब्दसहस्राणि शयानो प्रबुद्ध्यते । ७.१३.७ ॥ ॥

tatra nidrāṁ samāviṣṭaḥ kumbhakarṇo mahābalaḥ ।
bahūnyabdasahasrāṇi śayāno na prabuddhyate ।
7.13.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ८ ॥
निद्राभिभूते तु तदा कुम्भकर्णे दशाननः । देवर्षियक्षगन्धर्वान्सञ्जघ्ने हि निरङ्कुशः । ७.१३.८ ॥ ॥

nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ ।
devarṣiyakṣagandharvānsañjaghne hi niraṅkuśaḥ ।
7.13.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ९ ॥
उद्यानानि चित्राणि नन्दनादीनि यानि च । तानि गत्वा सुसङक्रुद्धो भिनत्ति स्म दशाननः । ७.१३.९ ॥ ॥

udyānāni ca citrāṇi nandanādīni yāni ca ।
tāni gatvā susaṅakruddho bhinatti sma daśānanaḥ ।
7.13.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · १० ॥
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् । नगान्व्रज्र इवोत्सृष्टो विध्वंसयति राक्षसः । ७.१३.१० ॥ ॥

nadīṁ gaja iva krīḍanvṛkṣānvāyuriva kṣipan ।
nagānvrajra ivotsṛṣṭo vidhvaṁsayati rākṣasaḥ ।
7.13.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ११ ॥
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः । कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः । ७.१३.११ ॥ ॥

tathāvṛttaṁ tu vijñāya daśagrīvaṁ dhaneśvaraḥ ।
kulānurūpaṁ dharmajño vṛttaṁ saṁsmṛtya cātmanaḥ ।
7.13.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · १२ ॥
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा । लङ्कां सम्प्रेषयामास दशग्रीवस्य वै हितम् । ७.१३.१२ ॥ ॥

saubhrātradarśanārthaṁ tu dūtaṁ vaiśravaṇastadā ।
laṅkāṁ sampreṣayāmāsa daśagrīvasya vai hitam ।
7.13.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · १३ ॥
गत्वा नगरीं लङ्कामाससाद विभीषणम् । मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति । ७.१३.१३ ॥ ॥

sa gatvā nagarīṁ laṅkāmāsasāda vibhīṣaṇam ।
mānitastena dharmeṇa pṛṣṭaścāgamanaṁ prati ।
7.13.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · १४ ॥
पृष्ट्वा कुशलं राज्ञो ज्ञातीनां बिभीषणः । सभायां दर्शयामास तमासीनं दशाननम् । ७.१३.१४ ॥ ॥

pṛṣṭvā ca kuśalaṁ rājño jñātīnāṁ ca bibhīṣaṇaḥ ।
sabhāyāṁ darśayāmāsa tamāsīnaṁ daśānanam ।
7.13.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · १५ ॥
दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा । जयेति वाचा सम्पूज्य तूष्णीं समभिवर्तत । ७.१३.१५ ॥ ॥

sa dṛṣṭvā tatra rājānaṁ dīpyamānaṁ svatejasā ।
jayeti vācā sampūjya tūṣṇīṁ samabhivartata ।
7.13.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · १६ ॥
तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते । उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् । ७.१३.१६ ॥ ॥

taṁ tatrottamaparyaṅke varāstaraṇaśobhite ।
upaviṣṭaṁ daśagrīvaṁ dūto vākyamathābravīt ।
7.13.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · १७ ॥
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत् । उभयोः सदृशं वीर वृत्तस्य कुलस्य च । ७.१३.१७ ॥ ॥

rājanvadāmi te sarvaṁ bhrātā tava yadabravīt ।
ubhayoḥ sadṛśaṁ vīra vṛttasya ca kulasya ca ।
7.13.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · १८ ॥
साधु पर्याप्तमेतावत्कृतश्चारित्रसङ्ग्रहः । साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते । ७.१३.१८ ॥ ॥

sādhu paryāptametāvatkṛtaścāritrasaṅgrahaḥ ।
sādhu dharme vyavasthānaṁ kriyatāṁ yadi śakyate ।
7.13.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · १९ ॥
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः । देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः । ७.१३.१९ ॥ ॥

dṛṣṭaṁ me nandanaṁ bhagnamṛṣayo nihatāḥ śrutāḥ ।
devatānāṁ samudyogastvatto rājanmama śrutaḥ ।
7.13.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २० ॥
निराकृतश्च बहुशस्त्वया ऽहं राक्षसाधिप । अपराद्धा हि बाल्याच्च रमणीयाः स्वबान्धवाः । ७.१३.२० ॥ ॥

nirākṛtaśca bahuśastvayā 'haṁ rākṣasādhipa ।
aparāddhā hi bālyācca ramaṇīyāḥ svabāndhavāḥ ।
7.13.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २१ ॥
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् । रौद्रं व्रत्तं समास्थाय नियतो नियतेन्द्रियः । ७.१३.२१ ॥ ॥

ahaṁ tu himavatpṛṣṭhaṁ gato dharmamupāsitum ।
raudraṁ vrattaṁ samāsthāya niyato niyatendriyaḥ ।
7.13.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २२ ॥
तत्र देवो मया दृष्टः सह देव्या मया प्रभुः । सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् । ७.१३.२२ ॥ ॥

tatra devo mayā dṛṣṭaḥ saha devyā mayā prabhuḥ ।
savyaṁ cakṣurmayā daivāttatra devyāṁ nipātitam ।
7.13.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २३ ॥
का न्वियं स्यादिति शुभा खल्वन्येन हेतुना । रूपं ह्यनुपमं कृत्वा रुद्राणी तत्र तिष्ठति । ७.१३.२३ ॥ ॥

kā nviyaṁ syāditi śubhā na khalvanyena hetunā ।
rūpaṁ hyanupamaṁ kṛtvā rudrāṇī tatra tiṣṭhati ।
7.13.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २४ ॥
देव्या दिव्यप्रभावेण दग्धं सव्यं ममेक्षणम् । रेणुध्वस्तमिव ज्योतिः पिङ्गुलत्वमुपागतम् । ७.१३.२४ ॥ ॥

devyā divyaprabhāveṇa dagdhaṁ savyaṁ mamekṣaṇam ।
reṇudhvastamiva jyotiḥ piṅgulatvamupāgatam ।
7.13.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २५ ॥
ततो ऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम् । तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् । ७.१३.२५ ॥ ॥

tato 'hamanyadvistīrṇaṁ gatvā tasya girestaṭam ।
tūṣṇīṁ varṣaśatānyaṣṭau samādhāraṁ mahāvratam ।
7.13.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २६ ॥
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः । प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः । ७.१३.२६ ॥ ॥

samāpte niyame tasmiṁstatra devo maheśvaraḥ ।
prītaḥ prītena manasā prāha vākyamidaṁ prabhuḥ ।
7.13.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २७ ॥
पैङ्गल्यं यदवाप्तं हि देव्या रूपनिरीक्षणात् । प्रीतो ऽस्मि तव धर्मज्ञ तपसा नेन सुव्रत । ७.१३.२७ ॥ ॥

paiṅgalyaṁ yadavāptaṁ hi devyā rūpanirīkṣaṇāt ।
prīto 'smi tava dharmajña tapasā nena suvrata ।
7.13.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २८ ॥
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप । तृतीयः पुरुषो नास्ति यश्चरेव्रतमीदृशम् । ७.१३.२८ ॥ ॥

mayā caitadvrataṁ cīrṇaṁ tvayā caiva dhanādhipa ।
tṛtīyaḥ puruṣo nāsti yaścarevratamīdṛśam ।
7.13.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · २९ ॥
व्रतं सुनिश्चयं ह्येतन्मया ह्युत्पादितं पुरा । तत्सखित्वं मया सौम्य रोचयस्व धनेश्वर । ७.१३.२९ ॥ ॥

vrataṁ suniścayaṁ hyetanmayā hyutpāditaṁ purā ।
tatsakhitvaṁ mayā saumya rocayasva dhaneśvara ।
7.13.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३० ॥
तपसा निर्जितश्चैव सखा भव ममानघ । देव्या दग्धं प्रभावेण यच्च सव्यं तवेक्षणम् । ७.१३.३० ॥ ॥

tapasā nirjitaścaiva sakhā bhava mamānagha ।
devyā dagdhaṁ prabhāveṇa yacca savyaṁ tavekṣaṇam ।
7.13.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३१ ॥
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् । एवं तेन सखित्वं प्राप्यानुज्ञां शङ्करात् । ७.१३.३१ ॥ ॥

ekākṣipiṅgaletyeva nāma sthāsyati śāśvatam ।
evaṁ tena sakhitvaṁ ca prāpyānujñāṁ ca śaṅkarāt ।
7.13.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३२ ॥
आगत्य श्रुतो ऽयं मे तव पापविनिश्चयः । ७.१३.३२ ॥ ॥

āgatya ca śruto 'yaṁ me tava pāpaviniścayaḥ ।
7.13.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३३ ॥
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषणात् । चिन्त्यते हि वधोपायः सर्षिसङ्घैः सुरैस्तव । ७.१३.३३ ॥ ॥

tadadharmiṣṭhasaṁyogānnivarta kuladūṣaṇāt ।
cintyate hi vadhopāyaḥ sarṣisaṅghaiḥ suraistava ।
7.13.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३४ ॥
एवमुक्तो दशग्रीवः क्रुद्धसंरक्तलोचनः । हस्तौ दन्तांश्च सम्पीड्य वाक्यमेतदुवाच ह । ७.१३.३४ ॥ ॥

evamukto daśagrīvaḥ kruddhasaṁraktalocanaḥ ।
hastau dantāṁśca sampīḍya vākyametaduvāca ha ।
7.13.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३५ ॥
विज्ञातं ते मया दूत वाक्यं यस्य प्रभाषसे । नैतत्त्वमसि नैवासौ भ्रात्रा येनासि चोदितः । ७.१३.३५ ॥ ॥

vijñātaṁ te mayā dūta vākyaṁ yasya prabhāṣase ।
naitattvamasi naivāsau bhrātrā yenāsi coditaḥ ।
7.13.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३६ ॥
हितं नैष ममैतद्धि ब्रवीति धनरक्षकः । महेश्वरसखित्वं तु मूढ श्रावयते किल । ७.१३.३६ ॥ ॥

hitaṁ naiṣa mamaitaddhi bravīti dhanarakṣakaḥ ।
maheśvarasakhitvaṁ tu mūḍha śrāvayate kila ।
7.13.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३७ ॥
चेदं क्षमणीयं मे यदेतद्भाषितं त्वया । यदेतावन्मया कालं दूत तस्य तु मर्षितम् । ७.१३.३७ ॥ ॥

na cedaṁ kṣamaṇīyaṁ me yadetadbhāṣitaṁ tvayā ।
yadetāvanmayā kālaṁ dūta tasya tu marṣitam ।
7.13.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३८ ॥
हन्तव्यो गुरुर्ज्येष्ठो मया ऽयमिति मन्यते । तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः । ७.१३.३८ ॥ ॥

na hantavyo gururjyeṣṭho mayā 'yamiti manyate ।
tasya tvidānīṁ śrutvā me vākyameṣā kṛtā matiḥ ।
7.13.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ३९ ॥
त्रीँल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः । ७.१३.३९ ॥ ॥

trīm̐llokānapi jeṣyāmi bāhuvīryamupāśritaḥ ।
7.13.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ४० ॥
एतन्मुहूर्तमेवाहं तस्यैकस्य तु वै कृते । चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् । ७.१३.४० ॥ ॥

etanmuhūrtamevāhaṁ tasyaikasya tu vai kṛte ।
caturo lokapālāṁstānnayiṣyāmi yamakṣayam ।
7.13.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ४१ ॥
एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान् । ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् । ७.१३.४१ ॥ ॥

evamuktvā tu laṅkeśo dūtaṁ khaḍgena jaghnivān ।
dadau bhakṣayituṁ hyenaṁ rākṣasānāṁ durātmanām ।
7.13.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १३ · ४२ ॥
एवं कृतस्वस्त्ययनो रथमारुह्य रावणः । त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः । ७.१३.४२ ॥

evaṁ kṛtasvastyayano rathamāruhya rāvaṇaḥ ।
trailokyavijayākāṅkṣī yayau yatra dhaneśvaraḥ ।
7.13.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.