वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ८८ · २४ श्लोकाःSarga 88 · 24 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ८८ · १ ॥
तां कथामिलसम्बद्धां रामेण समुदीरिताम् । लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ । ७.८८.१ ॥ ॥

tāṁ kathāmilasambaddhāṁ rāmeṇa samudīritām ।
lakṣmaṇo bharataścaiva śrutvā paramavismitau ।
7.88.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · २ ॥
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः । विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः । ७.८८.२ ॥ ॥

tau rāmaṁ prāñjalī bhūtvā tasya rājño mahātmanaḥ ।
vistaraṁ tasya bhāvasya tadā papracchatuḥ punaḥ ।
7.88.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · ३ ॥
कथं राजा स्त्रीभूतो वर्तयामास दुर्गतिः । पुरुषः यदा भूतः कां वृत्तिं वर्तयत्यसौ । ७.८८.३ ॥ ॥

kathaṁ sa rājā strībhūto vartayāmāsa durgatiḥ ।
puruṣaḥ sa yadā bhūtaḥ kāṁ vṛttiṁ vartayatyasau ।
7.88.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · ४ ॥
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् । कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् । ७.८८.४ ॥ ॥

tayostadbhāṣitaṁ śrutvā kautūhalasamanvitam ।
kathayāmāsa kākutsthastasya rājño yathāgatam ।
7.88.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · ५ ॥
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी । ताभिः परिवृता स्त्रीभिर्ये पूर्वपदानुगाः । ७.८८.५ ॥ ॥

tameva prathamaṁ māsaṁ strībhūtā lokasundarī ।
tābhiḥ parivṛtā strībhirye ca pūrvapadānugāḥ ।
7.88.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · ६ ॥
तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी । द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा । ७.८८.६ ॥ ॥

tatkānanaṁ vigāhvāśu vijahre lokasundarī ।
drumagulmalatākīrṇaṁ padbhyāṁ padmadalekṣaṇā ।
7.88.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · ७ ॥
वाहनानि सर्वाणि सा त्यक्त्वा वै समन्ततः । पर्वताभोगविवरे तस्मिन्रेमे इला तदा । ७.८८.७ ॥ ॥

vāhanāni ca sarvāṇi sā tyaktvā vai samantataḥ ।
parvatābhogavivare tasminreme ilā tadā ।
7.88.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · ८ ॥
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः । सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् । ७.८८.८ ॥ ॥

atha tasminvanoddeśe parvatasyāvidūrataḥ ।
saraḥ suruciraprakhyaṁ nānāpakṣigaṇairyutam ।
7.88.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · ९ ॥
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा । ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् । ७.८८.९ ॥ ॥

dadarśa sā tvilā tasminbudhaṁ somasutaṁ tadā ।
jvalantaṁ svena vapuṣā pūrṇasomamivoditam ।
7.88.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · १० ॥
तपन्तं तपस्तीव्रमम्भोमध्ये दुरासदम् । यशस्करं कामकरं कारुण्ये पर्यवस्थितम् । ७.८८.१० ॥ ॥

tapantaṁ ca tapastīvramambhomadhye durāsadam ।
yaśaskaraṁ kāmakaraṁ kāruṇye paryavasthitam ।
7.88.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · ११ ॥
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता । सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन । ७.८८.११ ॥ ॥

sā taṁ jalāśayaṁ sarvaṁ kṣobhayāmāsa vismitā ।
sahagaiḥ pūrvapuruṣaiḥ strībhūtai raghunandana ।
7.88.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · १२ ॥
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः । नोपलेभे तदा ऽत्मानं सञ्चचाल तदा ऽम्भसि । ७.८८.१२ ॥ ॥

budhastu tāṁ samīkṣyaiva kāmabāṇavaśaṁ gataḥ ।
nopalebhe tadā ' 'tmānaṁ sañcacāla tadā ' 'mbhasi ।
7.88.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · १३ ॥
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् । चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका । ७.८८.१३ ॥ ॥

ilāṁ nirīkṣamāṇastu trailokyābhyadhikāṁ śubhām ।
cintāṁ samabhyatikrāmat kā nviyaṁ devatādhikā ।
7.88.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · १४ ॥
देवीषु नागीषु नासुरीष्वप्सरःसु च । दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता । ७.८८.१४ ॥ ॥

na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca ।
dṛṣṭapūrvā mayā kācidrūpeṇānena śobhitā ।
7.88.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · १५ ॥
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः । इति बुद्धिं समास्थाय जलात्कूलमुपागमत् । ७.८८.१५ ॥ ॥

sadṛśīyaṁ mama bhavedyadi nānyaparigrahaḥ ।
iti buddhiṁ samāsthāya jalātkūlamupāgamat ।
7.88.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · १६ ॥
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः । शब्दापयत धर्मात्मा ताश्चैनं ववन्दिरे । ७.८८.१६ ॥ ॥

āśramaṁ samupāgamya tatastāḥ pramadottamāḥ ।
śabdāpayata dharmātmā tāścainaṁ ca vavandire ।
7.88.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · १७ ॥
ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी । किमर्थमागता चैव सर्वमाख्यात मा चिरम् । ७.८८.१७ ॥ ॥

sa tāḥ papraccha dharmātmā kasyaiṣā lokasundarī ।
kimarthamāgatā caiva sarvamākhyāta mā ciram ।
7.88.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · १८ ॥
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् । श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा । ७.८८.१८ ॥ ॥

śubhaṁ tu tasya tadvākyaṁ madhuraṁ madhurākṣaram ।
śrutvā striyaśca tāḥ sarvā ūcurmadhurayā girā ।
7.88.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · १९ ॥
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ । ७.८८.१९ ॥ ॥

asmākameṣā suśroṇī prabhutve vartate sadā ।
apatiḥ kānanānteṣu sahāsmābhiścaratyasau ।
7.88.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · २० ॥
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च । विद्यामावर्तनीं पुण्यामावर्तयत द्विजः । ७.८८.२० ॥ ॥

tadvākyamavyaktapadaṁ tāsāṁ strīṇāṁ niśamya ca ।
vidyāmāvartanīṁ puṇyāmāvartayata sa dvijaḥ ।
7.88.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · २१ ॥
सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् । सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः । ७.८८.२१ ॥ ॥

so 'rthaṁ viditvā sakalaṁ tasya rājño yathāgatam ।
sarvā eva striyastāśca babhāṣe munipuṅgavaḥ ।
7.88.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · २२ ॥
अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ । आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् । ७.८८.२२ ॥ ॥

atra kimpuruṣīrbhūtvā śailarodhasi vatsyatha ।
āvāsastu girāvasmiñchīghrameva vidhīyatām ।
7.88.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · २३ ॥
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ । ७.८८.२३ ॥ ॥

mūlapatraphalaiḥ sarvā vartayiṣyatha nityadā ।
striyaḥ kimpuruṣānnāma bharta'nsamupalapsyatha ।
7.88.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८८ · २४ ॥
ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः । उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा । ७.८८.२४ ॥

tāḥ śrutvā somaputrasya vācaṁ kimpuruṣīkṛtāḥ ।
upāsāñcakrire śailaṁ vadhvastā bahulāstadā ।
7.88.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.