वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ८५ · २२ श्लोकाःSarga 85 · 22 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ८५ · १ ॥
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः । वृत्रघातमशेषेण कथयेत्याह सुव्रत । ७.८५.१ ॥ ॥

lakṣmaṇasya tu tadvākyaṁ śrutvā śatrunibarhaṇaḥ ।
vṛtraghātamaśeṣeṇa kathayetyāha suvrata ।
7.85.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · २ ॥
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः । भूय एव कथां दिव्यां कथयामास सुव्रतः । ७.८५.२ ॥ ॥

rāghaveṇaivamuktastu sumitrānandavardhanaḥ ।
bhūya eva kathāṁ divyāṁ kathayāmāsa suvrataḥ ।
7.85.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · ३ ॥
सहस्राक्षवचः श्रुत्वा सर्वेषां दिवौकसाम् । विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् । ७.८५.३ ॥ ॥

sahasrākṣavacaḥ śrutvā sarveṣāṁ ca divaukasām ।
viṣṇurdevānuvācedaṁ sarvānindrapurogamān ।
7.85.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · ४ ॥
पूर्वं सौहृदबद्धो ऽस्मि वृत्रस्य महात्मनः । तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् । ७.८५.४ ॥ ॥

pūrvaṁ sauhṛdabaddho 'smi vṛtrasya ha mahātmanaḥ ।
tena yuṣmatpriyārthaṁ hi nāhaṁ hanmi mahāsuram ।
7.85.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · ५ ॥
अवश्यं करणीयं भवतां सुखमुत्तमम् । तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते । ७.८५.५ ॥ ॥

avaśyaṁ karaṇīyaṁ ca bhavatāṁ sukhamuttamam ।
tasmādupāyamākhyāsye yena vṛtro nihanyate ।
7.85.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · ६ ॥
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः । तेन वृत्रं सहस्राक्षो वधिष्यति संशयः । ७.८५.६ ॥ ॥

tridhābhūtaṁ kariṣyāmi hyātmānaṁ surasattamāḥ ।
tena vṛtraṁ sahasrākṣo vadhiṣyati na saṁśayaḥ ।
7.85.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · ७ ॥
एकांशो वासवं यातु द्वितीयो वज्रमेव तु । तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति । ७.८५.७ ॥ ॥

ekāṁśo vāsavaṁ yātu dvitīyo vajrameva tu ।
tṛtīyo bhūtalaṁ śakrastadā vṛtraṁ vadhiṣyati ।
7.85.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · ८ ॥
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् । एवमेतन्न सन्देहो यथा वदसि दैत्यहन् । ७.८५.८ ॥ ॥

tathā bruvati deveśe devā vākyamathābruvan ।
evametanna sandeho yathā vadasi daityahan ।
7.85.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · ९ ॥
भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः । भजस्व परमोदार वासवं स्वेन तेजसा । ७.८५.९ ॥ ॥

bhadraṁ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ ।
bhajasva paramodāra vāsavaṁ svena tejasā ।
7.85.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · १० ॥
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः । तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः । ७.८५.१० ॥ ॥

tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ ।
tadāraṇyamupākrāmanyatra vṛtro mahāsuraḥ ।
7.85.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · ११ ॥
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् । पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् । ७.८५.११ ॥ ॥

te paśyaṁstejasā bhūtaṁ tapyantamasurottamam ।
pibantamiva lokāṁstrīnnirdahantamivāmbaram ।
7.85.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · १२ ॥
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् । कथमेनं वधिष्यामः कथं स्यात्पराजयः । ७.८५.१२ ॥ ॥

dṛṣṭvaiva cāsuraśreṣṭhaṁ devāstrāsamupāgaman ।
kathamenaṁ vadhiṣyāmaḥ kathaṁ na syātparājayaḥ ।
7.85.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · १३ ॥
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः । वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि । ७.८५.१३ ॥ ॥

teṣāṁ cintayatāṁ tatra sahasrākṣaḥ purandaraḥ ।
vajraṁ pragṛhya pāṇibhyāṁ prāhiṇodvṛtramūrdhani ।
7.85.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · १४ ॥
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा । पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत् । ७.८५.१४ ॥ ॥

kālāgnineva ghoreṇa taptenaiva mahārciṣā ।
patatā vṛtraśirasā jagatऺtrāsamupāgamat ।
7.85.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · १५ ॥
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः । चिन्तयानो जगामाशु लोकस्यान्तं महायशाः । ७.८५.१५ ॥ ॥

asambhāvyaṁ vadhaṁ tasya vṛtrasya vibudhādhipaḥ ।
cintayāno jagāmāśu lokasyāntaṁ mahāyaśāḥ ।
7.85.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · १६ ॥
तमिन्द्रं ब्रह्महत्या ऽशु गच्छन्तमनुगच्छति । अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् । ७.८५.१६ ॥ ॥

tamindraṁ brahmahatyā ' 'śu gacchantamanugacchati ।
apataccāsya gātreṣu tamindraṁ duḥkhamāviśat ।
7.85.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · १७ ॥
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः । विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् । ७.८५.१७ ॥ ॥

hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ ।
viṣṇuṁ tribhuvaneśānaṁ muhurmuhurapūjayan ।
7.85.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · १८ ॥
त्वं गतिः परमेशान पूर्वजो जगतः पिता । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् । ७.८५.१८ ॥ ॥

tvaṁ gatiḥ parameśāna pūrvajo jagataḥ pitā ।
rakṣārthaṁ sarvabhūtānāṁ viṣṇutvamupajagmivān ।
7.85.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · १९ ॥
हतश्चायं त्वया वृत्रो ब्रह्महत्या वासवम् । बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश । ७.८५.१९ ॥ ॥

hataścāyaṁ tvayā vṛtro brahmahatyā ca vāsavam ।
bādhate suraśārdūla mokṣaṁ tasyā vinirdiśa ।
7.85.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · २० ॥
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् । मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् । ७.८५.२० ॥ ॥

teṣāṁ tadvacanaṁ śrutvā devānāṁ viṣṇurabravīt ।
māmeva yajatāṁ śakraḥ pāvayiṣyāmi vajriṇam ।
7.85.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · २१ ॥
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः । पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् । ७.८५.२१ ॥ ॥

puṇyena hayamedhena māmiṣṭvā pākaśāsanaḥ ।
punareṣyati devānāmindratvamakutobhayam ।
7.85.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८५ · २२ ॥
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् । जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् । ७.८५.२२ ॥

evaṁ sandiśya tāṁ vāṇīṁ devānāmamṛtopamām ।
jagāma viṣṇurdeveśaḥ stūyamānastriviṣṭapam ।
7.85.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.