वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ८४ · १८ श्लोकाःSarga 84 · 18 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ८४ · १ ॥
तथोक्तवति रामे तु भरते महात्मनि । लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् । ७.८४.१ ॥ ॥

tathoktavati rāme tu bharate ca mahātmani ।
lakṣmaṇo 'tha śubhaṁ vākyamuvāca raghunandanam ।
7.84.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · २ ॥
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् । पावनस्तव दुर्धर्षो रोचतां रघुनन्दन । ७.८४.२ ॥ ॥

aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām ।
pāvanastava durdharṣo rocatāṁ raghunandana ।
7.84.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · ३ ॥
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि । ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः । ७.८४.३ ॥ ॥

śrūyate hi purāvṛttaṁ vāsave sumahātmani ।
brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ ।
7.84.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · ४ ॥
पुरा किल महाबाहो देवासुरसमागमे । वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः । ७.८४.४ ॥ ॥

purā kila mahābāho devāsurasamāgame ।
vṛtro nāma mahānāsīddaiteyo lokasammataḥ ।
7.84.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · ५ ॥
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः । अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः । ७.८४.५ ॥ ॥

vistīrṇo yojanaśatamucchritastriguṇaṁ tataḥ ।
anurāgeṇa lokāṁstrīnsnehātpaśyati sarvataḥ ।
7.84.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · ६ ॥
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या परिनिष्ठितः । शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः । ७.८४.६ ॥ ॥

dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ ।
śaśāsa pṛthivīṁ sphītāṁ dharmeṇa susamāhitaḥ ।
7.84.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · ७ ॥
तस्मिन्प्रशासति तदा सर्वकामदुघा मही । रसवन्ति प्रभूनानि मूलानि फलानि च । ७.८४.७ ॥ ॥

tasminpraśāsati tadā sarvakāmadughā mahī ।
rasavanti prabhūnāni mūlāni ca phalāni ca ।
7.84.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · ८ ॥
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः । राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् । ७.८४.८ ॥ ॥

akṛṣṭapacyā pṛthivī susampannā mahātmanaḥ ।
sa rājyaṁ tādṛśaṁ bhuṅkte sphītamadbhutadarśanam ।
7.84.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · ९ ॥
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् । तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् । ७.८४.९ ॥ ॥

tasya buddhiḥ samuptannā tapaḥ kuryāmanuttamam ।
tapo hi paramaṁ śreyaḥ sammohamitaratsukham ।
7.84.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · १० ॥
निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् । तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः । ७.८४.१० ॥ ॥

sa nikṣipya sutaṁ jyeṣṭhaṁ paureṣu madhureśvaram ।
tapa ugraṁ samātiṣṭhattāpayansarvadevatāḥ ।
7.84.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · ११ ॥
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् । विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह । ७.८४.११ ॥ ॥

tapastapyati vṛtre tu vāsavaḥ paramārtavat ।
viṣṇuṁ samupasaṅkramya vākyametaduvāca ha ।
7.84.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · १२ ॥
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः । बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् । ७.८४.१२ ॥ ॥

tapasyatā mahābāho lokāḥ vṛtreṇa nirjitāḥ ।
balavānsa hi dharmātmā nainaṁ śakṣyāmi śāsitum ।
7.84.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · १३ ॥
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर । यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः । ७.८४.१३ ॥ ॥

yadyasau tapa ātiṣṭhedbhūya evāsureśvara ।
yāvallokā dhariṣyanti tāvadasya vaśānugāḥ ।
7.84.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · १४ ॥
तं चैनं परमोदारमुपेक्षसि महाबलम् । क्षणं हि भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर । ७.८४.१४ ॥ ॥

taṁ cainaṁ paramodāramupekṣasi mahābalam ।
kṣaṇaṁ hi na bhavedvṛtraḥ kruddhe tvayi sureśvara ।
7.84.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · १५ ॥
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः । तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् । ७.८४.१५ ॥ ॥

yadā hi prītisaṁyogaṁ tvayā viṣṇo samāgataḥ ।
tadāprabhṛti lokānāṁ nāthatvamupalabdhavān ।
7.84.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · १६ ॥
त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः । त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् । ७.८४.१६ ॥ ॥

sa tvaṁ prasādaṁ lokānāṁ kuruṣva susamāhitaḥ ।
tvatkṛtena hi sarvaṁ syāpraśāntamarujaṁ jagat ।
7.84.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · १७ ॥
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः । वृत्रघातेन महता तेषां साह्यं कुरुष्व ह । ७.८४.१७ ॥ ॥

ime hi sarve viṣṇo tvāṁ nirīkṣante divaukasaḥ ।
vṛtraghātena mahatā teṣāṁ sāhyaṁ kuruṣva ha ।
7.84.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८४ · १८ ॥
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम् । असह्यमिदमन्येषामगतीनां गतिर्भवान् । ७.८४.१८ ॥

tvayā hi nityaśaḥ sāhyaṁ kṛtameṣāṁ mahātmanām ।
asahyamidamanyeṣāmagatīnāṁ gatirbhavān ।
7.84.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.