वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ८१ · २२ श्लोकाःSarga 81 · 22 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ८१ · १ ॥
मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः । स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत । ७.८१.१ ॥ ॥

sa muhūrtādupaśrutya devarṣiramitaprabhaḥ ।
svamāśramaṁ śiṣyavṛtaḥ kṣudhārtaḥ sannyavartata ।
7.81.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · २ ॥
सो ऽपश्यदरजां दीनां रजसा समभिप्लुताम् । ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे विराजतीम् । ७.८१.२ ॥ ॥

so 'paśyadarajāṁ dīnāṁ rajasā samabhiplutām ।
jyotsnāmiva grahagrastāṁ pratyūṣe na virājatīm ।
7.81.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · ३ ॥
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः । निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह । ७.८१.३ ॥ ॥

tasya roṣaḥ samabhavatkṣudhārtasya viśeṣataḥ ।
nirdahanniva lokāṁstrīñchiṣyāṁścaitaduvāca ha ।
7.81.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · ४ ॥
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः । विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव । ७.८१.४ ॥ ॥

paśyadhvaṁ viparītasya daṇḍasyāvijitātmanaḥ ।
vipattiṁ ghorasaṅkāśāṁ kruddhāmagniśikhāmiva ।
7.81.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · ५ ॥
क्षयो ऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः । यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति । ७.८१.५ ॥ ॥

kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ ।
yaḥ pradīptāṁ hutāśasya śikhāṁ vai spraṣṭumicchati ।
7.81.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · ६ ॥
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् । तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः । ७.८१.६ ॥ ॥

yasmātsa kṛtavānpāpamīdṛśaṁ ghorasaṁhitam ।
tasmātprāpsyati durmedhāḥ phalaṁ pāpasya karmaṇaḥ ।
7.81.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · ७ ॥
सप्तरात्रेण राजासौ सभृत्यबलवाहनः । पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः । ७.८१.७ ॥ ॥

saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ ।
pāpakarmasamācāro vadhaṁ prāpsyati durmatiḥ ।
7.81.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · ८ ॥
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः । धक्ष्यते पांसुवर्षेण महता पाकशासनः । ७.८१.८ ॥ ॥

samantādyojanaśataṁ viṣayaṁ cāsya durmateḥ ।
dhakṣyate pāṁsuvarṣeṇa mahatā pākaśāsanaḥ ।
7.81.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · ९ ॥
सर्वसत्वानि यानीह स्थावराणि चराणि च । महता पांसुवर्षेण विलयं सर्वतो ऽगमन् । ७.८१.९ ॥ ॥

sarvasatvāni yānīha sthāvarāṇi carāṇi ca ।
mahatā pāṁsuvarṣeṇa vilayaṁ sarvato 'gaman ।
7.81.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · १० ॥
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् । पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति । ७.८१.१० ॥ ॥

daṇḍasya viṣayo yāvattāvatsarvasamucchrayam ।
pāṁsuvarṣamivālakṣyaṁ saptarātraṁ bhaviṣyati ।
7.81.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · ११ ॥
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् । जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् । ७.८१.११ ॥ ॥

ityuktvā krodhatāmrākṣastadāśramanivāsinam ।
janaṁ janapadānteṣu sthīyatāmiti cābravīt ।
7.81.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · १२ ॥
श्रुत्वा तूशनसो वाक्यं सो ऽश्रमावसथो जनः । निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रे ऽथ बाह्यतः । ७.८१.१२ ॥ ॥

śrutvā tūśanaso vākyaṁ so ' 'śramāvasatho janaḥ ।
niṣkrānto viṣayāttasmātsthānaṁ cakre 'tha bāhyataḥ ।
7.81.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · १३ ॥
तथोक्त्वा मुनिजनमरजामिदमब्रवीत् । इहैव वस दुर्मेधे आश्रमे सुसमाहिता । ७.८१.१३ ॥ ॥

sa tathoktvā munijanamarajāmidamabravīt ।
ihaiva vasa durmedhe āśrame susamāhitā ।
7.81.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · १४ ॥
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम् । अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् । ७.८१.१४ ॥ ॥

idaṁ yojanaparyantaṁ saraḥ suruciraprabham ।
araje vijvarā bhuṅkṣva kālaścātra pratīkṣyatām ।
7.81.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · १५ ॥
त्वत्समीपे ये सत्त्वा वासमेष्यन्ति तां निशाम् । अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा । ७.८१.१५ ॥ ॥

tvatsamīpe ca ye sattvā vāsameṣyanti tāṁ niśām ।
avadhyāḥ pāṁsuvarṣeṇa te bhaviṣyanti nityadā ।
7.81.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · १६ ॥
श्रुत्वा नियोगं ब्रह्मर्षेः सा ऽरजा भार्गवी तदा । तथेति पितरं प्राह भार्गवं भृशदुःखिता । इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् । ७.८१.१६ ॥ ॥

śrutvā niyogaṁ brahmarṣeḥ sā 'rajā bhārgavī tadā ।
tatheti pitaraṁ prāha bhārgavaṁ bhṛśaduḥkhitā ।
ityuktvā bhārgavo vāsamanyatra samakārayat ।
7.81.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · १७ ॥
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् । सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना । ७.८१.१७ ॥ ॥

tacca rājyaṁ narendrasya sabhṛtyabalavāhanam ।
saptāhādbhasmasādbhūtaṁ yathoktaṁ brahmavādinā ।
7.81.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · १८ ॥
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप । शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते । ७.८१.१८ ॥ ॥

tasyāsau daṇḍaviṣayo vindhyaśaivalayornṛpa ।
śapto brahmarṣiṇā tena vaidharmye sahite kṛte ।
7.81.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · १९ ॥
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते । तपस्विनः स्थिता ह्यत्र जनस्थानमतो ऽभवत् । ७.८१.१९ ॥ ॥

tataḥ prabhṛti kākutstha daṇḍakāraṇyamucyate ।
tapasvinaḥ sthitā hyatra janasthānamato 'bhavat ।
7.81.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · २० ॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव । सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते । ७.८१.२० ॥ ॥

etatte sarvamākhyātaṁ yanmāṁ pṛcchasi rāghava ।
sandhyāmupāsituṁ vīra samayo hyativartate ।
7.81.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · २१ ॥
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः । कृतोदका नरव्याघ्र आदित्यं पर्युपासते । ७.८१.२१ ॥ ॥

ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ ।
kṛtodakā naravyāghra ādityaṁ paryupāsate ।
7.81.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ८१ · २२ ॥
तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः । रविरस्तं गतो राम गच्छोदकमुपस्पृश । ७.८१.२२ ॥

sa tairbrāhmaṇamabhyastaṁ sahitairbrahmavittamaiḥ ।
ravirastaṁ gato rāma gacchodakamupaspṛśa ।
7.81.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.