वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ७३ · १९ श्लोकाःSarga 73 · 19 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ७३ · १ ॥
प्रस्थाप्य तु शत्रुघ्नं भ्रातृभ्यां सह राघवः । प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् । ७.७३.१ ॥ ॥

prasthāpya tu sa śatrughnaṁ bhrātṛbhyāṁ saha rāghavaḥ ।
pramumoda sukhī rājyaṁ dharmeṇa paripālayan ।
7.73.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · २ ॥
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः । मृतं बालमुपादाय राजद्वारमुपागमत् । ७.७३.२ ॥ ॥

tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ ।
mṛtaṁ bālamupādāya rājadvāramupāgamat ।
7.73.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · ३ ॥
रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः । असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह । ७.७३.३ ॥ ॥

rudanbahuvidhā vācaḥ snehaduḥkhasamanvitāḥ ।
asakṛtputra putreti vākyametaduvāca ha ।
7.73.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · ४ ॥
किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् । यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् । ७.७३.४ ॥ ॥

kiṁ nu me duṣkṛtaṁ karma purā dehāntare kṛtam ।
yadahaṁ putramekaṁ tvāṁ paśyāmi nidhanaṁ gatam ।
7.73.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · ५ ॥
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् । अकाले कालमापन्नं मम दुःखाय पुत्रक । ७.७३.५ ॥ ॥

aprāptayauvanaṁ bālaṁ pañcavarṣasahasrakam ।
akāle kālamāpannaṁ mama duḥkhāya putraka ।
7.73.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · ६ ॥
अल्पैरहोभिर्निधनं गमिष्यामि संशयः । अहं जननी चैव तव शोकेन पुत्रक । ७.७३.६ ॥ ॥

alpairahobhirnidhanaṁ gamiṣyāmi na saṁśayaḥ ।
ahaṁ ca jananī caiva tava śokena putraka ।
7.73.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · ७ ॥
स्मराम्यनृतं ह्युक्तं हिंसां स्मराम्यहम् । सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् । ७.७३.७ ॥ ॥

na smarāmyanṛtaṁ hyuktaṁ na ca hiṁsāṁ smarāmyaham ।
sarveṣāṁ prāṇināṁ pāpaṁ kṛtaṁ naiva smarāmyaham ।
7.73.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · ८ ॥
केनाद्य दुष्कृतेनायं बाल एव ममात्मजः । अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् । ७.७३.८ ॥ ॥

kenādya duṣkṛtenāyaṁ bāla eva mamātmajaḥ ।
akṛtvā pitṛkāryāṇi gato vaivasvatakṣayam ।
7.73.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · ९ ॥
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् । मृत्युरप्राप्तकालानां रामस्य विषये यथा । ७.७३.९ ॥ ॥

nedṛśaṁ dṛṣṭapūrvaṁ me śrutaṁ vā ghoradarśanam ।
mṛtyuraprāptakālānāṁ rāmasya viṣaye yathā ।
7.73.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · १० ॥
रामस्य दुष्कृतं किञ्चिन्महदस्ति संशयः । यथा हि विषयस्थानां बालानां मृत्युरागतः । ७.७३.१० ॥ ॥

rāmasya duṣkṛtaṁ kiñcinmahadasti na saṁśayaḥ ।
yathā hi viṣayasthānāṁ bālānāṁ mṛtyurāgataḥ ।
7.73.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · ११ ॥
नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् । त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् । ७.७३.११ ॥ ॥

nahyanyaviṣayasthānāṁ bālānāṁ mṛtyuto bhayam ।
tvaṁ rājañjīvayasvainaṁ bālaṁ mṛtyuvaśaṁ gatam ।
7.73.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · १२ ॥
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् । ब्रह्महत्यां ततो राम समुपेत्य सुखी भव । ७.७३.१२ ॥ ॥

rājadvāri mariṣyāmi patnyā sārdhamanāthavat ।
brahmahatyāṁ tato rāma samupetya sukhī bhava ।
7.73.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · १३ ॥
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि । उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल । ७.७३.१३ ॥ ॥

bhrātṛbhiḥ sahito rājandīrghamāyuravāpsyasi ।
uṣitāḥ sma sukhaṁ rājye tavāsminsumahābala ।
7.73.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · १४ ॥
इदं तु पतितं तस्मात्तव राम वशे स्थिताः । कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् । ७.७३.१४ ॥ ॥

idaṁ tu patitaṁ tasmāttava rāma vaśe sthitāḥ ।
kālasya vaśamāpannāḥ svalpaṁ hi nahi naḥ sukham ।
7.73.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · १५ ॥
सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् । रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् । ७.७३.१५ ॥ ॥

sampratyanātho viṣaya ikṣvākūṇāṁ mahātmanām ।
rāmaṁ nāthamihāsādya bālāntakaraṇaṁ dhruvam ।
7.73.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · १६ ॥
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः । असद्वृत्ते तु नृपतावकाले म्रियते जनः । ७.७३.१६ ॥ ॥

rājadoṣairvipadyante prajā hyavidhipālitāḥ ।
asadvṛtte tu nṛpatāvakāle mriyate janaḥ ।
7.73.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · १७ ॥
यद्वा पुरेष्वयुक्तानि जना जनपदेषु च । कुर्वते रक्षा ऽस्ति तदा कालकृतं भयम् । ७.७३.१७ ॥ ॥

yadvā pureṣvayuktāni janā janapadeṣu ca ।
kurvate na ca rakṣā 'sti tadā kālakṛtaṁ bhayam ।
7.73.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · १८ ॥
सुव्यक्तं राजदोषो हि भविष्यति संशयः । पुरे जनपदे चापि ततो बालवधो ह्ययम् । ७.७३.१८ ॥ ॥

suvyaktaṁ rājadoṣo hi bhaviṣyati na saṁśayaḥ ।
pure janapade cāpi tato bālavadho hyayam ।
7.73.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७३ · १९ ॥
एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः । राजानं दुःखसन्तप्तः सुतं तमुपगूहते । ७.७३.१९ ॥

evaṁ bahuvidhairvākyairuparudhya muhurmuhuḥ ।
rājānaṁ duḥkhasantaptaḥ sutaṁ tamupagūhate ।
7.73.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.