वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ७१ · २४ श्लोकाःSarga 71 · 24 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ७१ · १ ॥
ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम् । अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः । ७.७१.१ ॥ ॥

tato dvādaśame varṣe śatraghno rāmapālitām ।
ayodhyāṁ cakame gantumalpabhṛtyabalānugaḥ ।
7.71.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · २ ॥
ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च । जगाम हयमुख्यैश्च रथानां शतेन सः । ७.७१.२ ॥ ॥

tato mantripurogāṁśca balamukhyānnivartya ca ।
jagāma hayamukhyaiśca rathānāṁ ca śatena saḥ ।
7.71.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · ३ ॥
गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः । वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः । ७.७१.३ ॥ ॥

sa gatvā gaṇitānvāsānsaptāṣṭau raghunandanaḥ ।
vālmīkyāśramamāgatya vāsaṁ cakre mahāyaśāḥ ।
7.71.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · ४ ॥
सो ऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः । पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः । ७.७१.४ ॥ ॥

so 'bhivādya tataḥ pādau vālmīkeḥ puruṣarṣabhaḥ ।
pādyamardhyaṁ tathātithyaṁ jagrāha munihastataḥ ।
7.71.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · ५ ॥
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः । कथयामास मुनिः शत्रुघ्नाय महात्मने । ७.७१.५ ॥ ॥

bahurūpāḥ sumadhurāḥ kathāstatra sahasraśaḥ ।
kathayāmāsa sa muniḥ śatrughnāya mahātmane ।
7.71.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · ६ ॥
उवाच मुनिर्वाक्यं लवणस्य वधाश्रितम् । सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया । ७.७१.६ ॥ ॥

uvāca ca munirvākyaṁ lavaṇasya vadhāśritam ।
suduṣkaraṁ kṛtaṁ karma lavaṇaṁ nighnatā tvayā ।
7.71.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · ७ ॥
बहवः पार्थिवाः सौम्य हताः सबलवाहनाः । लवणेन महाबाहो युध्यमाना महाबलाः । ७.७१.७ ॥ ॥

bahavaḥ pārthivāḥ saumya hatāḥ sabalavāhanāḥ ।
lavaṇena mahābāho yudhyamānā mahābalāḥ ।
7.71.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · ८ ॥
त्वया निहतः पापो लीलया पुरुषर्षभ । जगतश्च भयं तत्र प्रशान्तं तव तेजसा । ७.७१.८ ॥ ॥

sa tvayā nihataḥ pāpo līlayā puruṣarṣabha ।
jagataśca bhayaṁ tatra praśāntaṁ tava tejasā ।
7.71.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · ९ ॥
रावणस्य वधो घोरो यत्नेन महता कृतः । इदं तु सुमहत्कर्म त्वया कृतमयत्नतः । ७.७१.९ ॥ ॥

rāvaṇasya vadho ghoro yatnena mahatā kṛtaḥ ।
idaṁ tu sumahatkarma tvayā kṛtamayatnataḥ ।
7.71.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · १० ॥
प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते । भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् । ७.७१.१० ॥ ॥

prītiścāsminparā jātā devānāṁ lavaṇe hate ।
bhūtānāṁ caiva sarveṣāṁ jagataśca priyaṁ kṛtam ।
7.71.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · ११ ॥
तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ । सभायां वासवस्याथ उपविष्टेन राघव । ७.७१.११ ॥ ॥

tacca yuddhaṁ mayā dṛṣṭaṁ yathāvatpuruṣarṣabha ।
sabhāyāṁ vāsavasyātha upaviṣṭena rāghava ।
7.71.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · १२ ॥
ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते । उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः । ७.७१.१२ ॥ ॥

mamāpi paramā prītirhṛdi śatrughna vartate ।
upāghrāsyāmi te mūrdhni snehasyaiṣā parā gatiḥ ।
7.71.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · १३ ॥
इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः । आतिथ्यमकरोत्तस्य ये तस्य पदानुगाः । ७.७१.१३ ॥ ॥

ityuktvā mūrdhni śatrughnamupāghrāya mahāmuniḥ ।
ātithyamakarottasya ye ca tasya padānugāḥ ।
7.71.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · १४ ॥
भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् । शुश्राव रामचरितं तस्मिन्काले यथाकृमम् । ७.७१.१४ ॥ ॥

sa bhuktavānnaraśreṣṭho gītamādhuryamuttamam ।
śuśrāva rāmacaritaṁ tasminkāle yathākṛmam ।
7.71.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · १५ ॥
तन्त्रीलयसमायुक्तं त्रिस्थानकरणान्वितम् । संस्कृतं लक्षणोपेतं समतालसमन्वितम् । शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् । ७.७१.१५ ॥ ॥

tantrīlayasamāyuktaṁ tristhānakaraṇānvitam ।
saṁskṛtaṁ lakṣaṇopetaṁ samatālasamanvitam ।
śuśrāva rāmacaritaṁ tasminkāle purā kṛtam ।
7.71.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · १६ ॥
तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः । श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः । ७.७१.१६ ॥ ॥

tānyakṣarāṇi satyāni yathāvṛttāni pūrvaśaḥ ।
śrutvā puruṣaśārdūlo visañjño bāṣpalocanaḥ ।
7.71.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · १७ ॥
मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः । तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् । ७.७१.१७ ॥ ॥

sa muhūrtamivāsañjño viniḥśvasya muhurmuhuḥ ।
tasmin gīte yathāvṛttaṁ vartamānamivāśṛṇot ।
7.71.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · १८ ॥
पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम् । अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् । ७.७१.१८ ॥ ॥

padānugāśca ye rājñastāṁ śrutvā gītisampadam ।
avāṅmukhāśca dīnāśca hyāścaryamiti cābruvan ।
7.71.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · १९ ॥
परस्परं ये तत्र सैनिकाः सम्बभाषिरे । किमिदं क्व वर्तामः किमेतत्स्वप्नदर्शनम् । ७.७१.१९ ॥ ॥

parasparaṁ ca ye tatra sainikāḥ sambabhāṣire ।
kimidaṁ kva ca vartāmaḥ kimetatsvapnadarśanam ।
7.71.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · २० ॥
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः । शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् । ७.७१.२० ॥ ॥

artho yo naḥ purā dṛṣṭastamāśramapade punaḥ ।
śṛṇumaḥ kimidaṁ svapno gītabandhaṁ śriyo bhavet ।
7.71.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · २१ ॥
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन् । साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् । ७.७१.२१ ॥ ॥

vismayaṁ te paraṁ gatvā śatrughnamidamabruvan ।
sādhu pṛccha naraśreṣṭha vālmīkiṁ munipuṅgavam ।
7.71.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · २२ ॥
शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान् । सैनिका क्षमो ऽस्माकं परिप्रष्टुमिहेदृशः । ७.७१.२२ ॥ ॥

śatrughnastvabravītsarvānkautūhalasamanvitān ।
sainikā na kṣamo 'smākaṁ paripraṣṭumihedṛśaḥ ।
7.71.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · २३ ॥
आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः । तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् । ७.७१.२३ ॥ ॥

āścaryāṇi bahūnīha bhavantyasyāśrame muneḥ ।
na tu kautūhalādyuktamanveṣṭuṁ taṁ mahāmunim ।
7.71.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७१ · २४ ॥
एवं तद्वाक्यमुक्त्वा सैनिकान्रघुनन्दनः । अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा । ७.७१.२४ ॥

evaṁ tadvākyamuktvā ca sainikānraghunandanaḥ ।
abhivādya maharṣiṁ taṁ svaṁ niveśaṁ yayau tadā ।
7.71.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.