वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ७० · १७ श्लोकाःSarga 70 · 17 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ७० · १ ॥
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् । ७.७०.१ ॥ ॥

hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ ।
ūcuḥ sumadhurāṁ vāṇīṁ śatrughnaṁ śatrutāpanam ।
7.70.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · २ ॥
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः । हतः पुरुषशार्दूल वरं वरय सुव्रत । ७.७०.२ ॥ ॥

diṣṭyā te vijayo vatsa diṣṭyā lavaṇarākṣasaḥ ।
hataḥ puruṣaśārdūla varaṁ varaya suvrata ।
7.70.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · ३ ॥
वरदास्तु महाबाहो सर्व एव समागताः । विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः । ७.७०.३ ॥ ॥

varadāstu mahābāho sarva eva samāgatāḥ ।
vijayākāṅkṣiṇastubhyamamoghaṁ darśanaṁ hi naḥ ।
7.70.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · ४ ॥
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः । प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् । ७.७०.४ ॥ ॥

devānāṁ bhāṣitaṁ śrutvā śūro mūrdhni kṛtāñjaliḥ ।
pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān ।
7.70.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · ५ ॥
इयं मधुपुरी रस्या मधुरा देवनिर्मिता । निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः । ७.७०.५ ॥ ॥

iyaṁ madhupurī rasyā madhurā devanirmitā ।
niveśaṁ prāpnuyācchīghrameṣa me 'stu varaḥ paraḥ ।
7.70.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · ६ ॥
तं देवाः प्रीतमनसो बाढमित्येव राघवम् । भविष्यति पुरी रम्या शूरसेना संशयः । ७.७०.६ ॥ ॥

taṁ devāḥ prītamanaso bāḍhamityeva rāghavam ।
bhaviṣyati purī ramyā śūrasenā na saṁśayaḥ ।
7.70.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · ७ ॥
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा । शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् । ७.७०.७ ॥ ॥

te tathoktvā mahātmāno divamāruruhustadā ।
śatrughno 'pi mahātejāstāṁ senāṁ samupānayat ।
7.70.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · ८ ॥
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् । निवेशनं शत्रुघ्नः श्रावणेन समारभत् । ७.७०.८ ॥ ॥

sā senā śīghramāgacchacchrutvā śatrughnaśāsanam ।
niveśanaṁ ca śatrughnaḥ śrāvaṇena samārabhat ।
7.70.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · ९ ॥
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे । निविष्टा शूरसेनानां विषयश्चाकुतोभयः । ७.७०.९ ॥ ॥

sā purā divyasaṅkāśā varṣe dvādaśame śubhe ।
niviṣṭā śūrasenānāṁ viṣayaścākutobhayaḥ ।
7.70.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · १० ॥
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः । अरोगवीरपुरुषा शत्रुघ्नभुजपालिता । ७.७०.१० ॥ ॥

kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ ।
arogavīrapuruṣā śatrughnabhujapālitā ।
7.70.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · ११ ॥
अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता । शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः । चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता । ७.७०.११ ॥ ॥

ardhacandrapratīkāśā yamunātīraśobhitā ।
śobhitā gṛhamukhyaiśca catvarāpaṇavīthikaiḥ ।
cāturvarṇyasamāyuktā nānāvāṇijyaśobhitā ।
7.70.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · १२ ॥
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत् । तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् । ७.७०.१२ ॥ ॥

yacca tena purā śubhraṁ lavaṇena kṛtaṁ mahat ।
tacchobhayati śatrughno nānāvarṇopaśobhitām ।
7.70.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · १३ ॥
आरामैश्च विहारैश्च शोभमानं समन्ततः । शोभितां शोभनीयैश्च तथा ऽन्यैर्दैवमानुषैः । ७.७०.१३ ॥ ॥

ārāmaiśca vihāraiśca śobhamānaṁ samantataḥ ।
śobhitāṁ śobhanīyaiśca tathā 'nyairdaivamānuṣaiḥ ।
7.70.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · १४ ॥
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् । नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् । ७.७०.१४ ॥ ॥

tāṁ purīṁ divyasaṅkāśāṁ nānāpaṇyopaśobhitām ।
nānādeśāgataiścāpi vaṇigbhirupaśobhitām ।
7.70.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · १५ ॥
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः । निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् । ७.७०.१५ ॥ ॥

tāṁ samṛddhāṁ samṛddhārthaḥ śatrughno bharatānujaḥ ।
nirīkṣya paramaprītaḥ paraṁ harṣamupāgamat ।
7.70.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · १६ ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् । रामपादौ निरीक्षे ऽहं वर्षे द्वादश आगते । ७.७०.१६ ॥ ॥

tasya buddhiḥ samutpannā niveśya madhurāṁ purīm ।
rāmapādau nirīkṣe 'haṁ varṣe dvādaśa āgate ।
7.70.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ७० · १७ ॥
ततः ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् । नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः । ७.७०.१७ ॥

tataḥ sa tāmamarapuropamāṁ purīṁ niveśya vai vividhajanābhisaṁvṛtām ।
narādhipo raghupatipādadarśane dadhe matiṁ raghukulavaṁśavardhanaḥ ।
7.70.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.