वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ६८ · २० श्लोकाःSarga 68 · 20 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ६८ · १ ॥
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् । व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः । ७.६८.१ ॥ ॥

kathāṁ kathayatāṁ teṣāṁ jayaṁ cākāṅkṣatāṁ śubham ।
vyatītā rajanī śīghraṁ śatrughnasya mahātmanaḥ ।
7.68.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · २ ॥
ततः प्रभाते विमले तस्मिन्काले राक्षसः । निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः । ७.६८.२ ॥ ॥

tataḥ prabhāte vimale tasminkāle sa rākṣasaḥ ।
nirgatastu purāddhīro bhakṣyāhārapracoditaḥ ।
7.68.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · ३ ॥
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् । तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत । ७.६८.३ ॥ ॥

etasminnantare vīraḥ śatrughno yamunāṁ nadīm ।
tīrtvā madhupuradvāri dhanuṣpāṇiratiṣṭhata ।
7.68.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · ४ ॥
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा राक्षसः । आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् । ७.६८.४ ॥ ॥

tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ ।
āgacchadbahusāhasraṁ prāṇināṁ bhāramudvahan ।
7.68.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · ५ ॥
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् । तमुवाच ततो रक्षः किमनेन करिष्यसि । ७.६८.५ ॥ ॥

tato dadarśa śatrughnaṁ sthitaṁ dvāri dhṛtāyudham ।
tamuvāca tato rakṣaḥ kimanena kariṣyasi ।
7.68.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · ६ ॥
ईदृशानां सहस्राणि सायुधानां नराधम । भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् । ७.६८.६ ॥ ॥

īdṛśānāṁ sahasrāṇi sāyudhānāṁ narādhama ।
bhakṣitāni mayā roṣātkālamākāṅkṣase nu kim ।
7.68.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · ७ ॥
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम । स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते । ७.६८.७ ॥ ॥

āhāraścāsya sampūrṇo mamāyaṁ puruṣādhama ।
svayaṁ praviṣṭo 'dya mukhaṁ kathamāsādya durmate ।
7.68.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · ८ ॥
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः । शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् । ७.६८.८ ॥ ॥

tasyaivaṁ bhāṣamāṇasya hasataśca muhurmuhuḥ ।
śatrughno vīryasampanno roṣādaśrūṇyavāsṛjat ।
7.68.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · ९ ॥
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः । तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् । ७.६८.९ ॥ ॥

tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ ।
tejomayā marīcyastu sarvagātrairviniṣpatan ।
7.68.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · १० ॥
उवाच सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् । योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह । ७.६८.१० ॥ ॥

uvāca ca susaṅkruddhaḥ śatrughnastaṁ niśācaram ।
yoddhumicchāmi durbuddhe dvandvayuddhaṁ tvayā saha ।
7.68.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · ११ ॥
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः । शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः । ७.६८.११ ॥ ॥

putro daśarathasyāhaṁ bhrātā rāmasya dhīmataḥ ।
śatrughno nityaśatrughno vadhākāṅkṣī tavāgataḥ ।
7.68.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · १२ ॥
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् । शत्रुस्त्वं सर्वभूतानां मे जीवन्गमिष्यसि । ७.६८.१२ ॥ ॥

tasya me yuddhakāmasya dvandvayuddhaṁ pradīyatām ।
śatrustvaṁ sarvabhūtānāṁ na me jīvangamiṣyasi ।
7.68.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · १३ ॥
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव । प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते । ७.६८.१३ ॥ ॥

tasmiṁstathā bruvāṇe tu rākṣasaḥ prahasanniva ।
pratyuvāca naraśreṣṭhaṁ diṣṭyā prāpto 'si durmate ।
7.68.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · १४ ॥
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः । हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम । ७.६८.१४ ॥ ॥

mama mātṛṣvasurbhrātā rāvaṇo rākṣasādhipaḥ ।
hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama ।
7.68.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · १५ ॥
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् । अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः । ७.६८.१५ ॥ ॥

tacca sarvaṁ mayā kṣāntaṁ rāvaṇasya kulakṣayam ।
avajñāṁ purataḥ kṛtvā mayā yūyaṁ viśeṣataḥ ।
7.68.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · १६ ॥
निहताश्च हि मे सर्वे परिभूतास्तृणं यथा । भूताश्चैव भविष्याश्च यूयं पुरुषाधमाः । ७.६८.१६ ॥ ॥

nihatāśca hi me sarve paribhūtāstṛṇaṁ yathā ।
bhūtāścaiva bhaviṣyāśca yūyaṁ ca puruṣādhamāḥ ।
7.68.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · १७ ॥
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते । तिष्ठं त्वं मुहूर्तं तु यावदायुधमानये । ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् । ७.६८.१७ ॥ ॥

tasya te yuddhakāmasya yuddhaṁ dāsyāmi durmate ।
tiṣṭhaṁ tvaṁ ca muhūrtaṁ tu yāvadāyudhamānaye ।
īpsitaṁ yādṛśaṁ tubhyaṁ sajjaye yāvadāyudham ।
7.68.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · १८ ॥
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि । शत्रुर्यदृच्छया दृष्टो मोक्तव्यः कृतात्मना । ७.६८.१८ ॥ ॥

tamuvācāśu śatrughnaḥ kva me jīvangamiṣyasi ।
śatruryadṛcchayā dṛṣṭo na moktavyaḥ kṛtātmanā ।
7.68.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · १९ ॥
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ । हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा । ७.६८.१९ ॥ ॥

yo hi viklavayā buddhyā prasaraṁ śatrave dadau ।
sa hato mandabuddhitvādyathā kāpuruṣastathā ।
7.68.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६८ · २० ॥
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि । यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य राघवस्य । ७.६८.२० ॥

tasmātsudṛṣṭaṁ kuru jīvalokaṁ śaraiḥ śitaistvāṁ vividhairnayāmi ।
yamasya gehābhimukhaṁ hi pāpaṁ ripuṁ trilokasya ca rāghavasya ।
7.68.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.