वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ६६ · १७ श्लोकाःSarga 66 · 17 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ६६ · १ ॥
यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् । तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् । ७.६६.१ ॥ ॥

yāmeva rātriṁ śatrughnaḥ parṇaśālāmupāviśat ।
tāmeva rātriṁ sītāpi prasūtā dārakadvayam ।
7.66.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · २ ॥
ततो ऽर्धरात्रसमये बालका मुनिदारकाः । वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् । ७.६६.२ ॥ ॥

tato 'rdharātrasamaye bālakā munidārakāḥ ।
vālmīkeḥ priyamācakhyuḥ sītāyāḥ prasavaṁ śubham ।
7.66.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · ३ ॥
भगवन्रामपत्नी सा प्रसूता दारकद्वयम् । ततो रक्षां महातेजः कुरु भूतविनाशिनीम् । ७.६६.३ ॥ ॥

bhagavanrāmapatnī sā prasūtā dārakadvayam ।
tato rakṣāṁ mahātejaḥ kuru bhūtavināśinīm ।
7.66.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · ४ ॥
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् । बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ । ७.६६.४ ॥ ॥

teṣāṁ tadvacanaṁ śrutvā maharṣiḥ samupāgamat ।
bālacandrapratīkāśau devaputrau mahaujasau ।
7.66.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · ५ ॥
जगाम तत्र हृष्टात्मा ददर्श कुमारकौ । भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् । ७.६६.५ ॥ ॥

jagāma tatra hṛṣṭātmā dadarśa ca kumārakau ।
bhūtaghnīṁ cākarottābhyāṁ rakṣāṁ rakṣovināśinīm ।
7.66.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · ६ ॥
कुशमुष्टिमुपादाय लवं चैव तु द्विजः । वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् । ७.६६.६ ॥ ॥

kuśamuṣṭimupādāya lavaṁ caiva tu sa dvijaḥ ।
vālmīkiḥ pradadau tābhyāṁ rakṣāṁ bhūtavināśinīm ।
7.66.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · ७ ॥
यस्तयोः पूर्वजो जातः कुशैर्मन्त्रसत्कृतैः । निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् । ७.६६.७ ॥ ॥

yastayoḥ pūrvajo jātaḥ sa kuśairmantrasatkṛtaiḥ ।
nirmārjanīyastu tadā kuśa ityasya nāma tat ।
7.66.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · ८ ॥
यश्चावरो भवेत्ताभ्यां लवेन समाहितः । निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः । ७.६६.८ ॥ ॥

yaścāvaro bhavettābhyāṁ lavena sa samāhitaḥ ।
nirmārjanīyo vṛddhābhirlava ityeva nāmataḥ ।
7.66.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · ९ ॥
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ । मत्कृताभ्यां नामभ्यां ख्यातियुक्तौ भविष्यतः । ७.६६.९ ॥ ॥

evaṁ kuśalavau nāmnā tāvubhau yamajātakau ।
matkṛtābhyāṁ ca nāmabhyāṁ khyātiyuktau bhaviṣyataḥ ।
7.66.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · १० ॥
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः । अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः । ७.६६.१० ॥ ॥

tāṁ rakṣāṁ jagṛhustāśca munihastātsamāhitāḥ ।
akurvaṁśca tato rakṣāṁ tayorvigatakalmaṣāḥ ।
7.66.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · ११ ॥
तथा तां क्रियमाणां वृद्धाभिर्जन्म नाम च । सङ्कीर्तनं रामस्य सीतायाः प्रसवौ शुभौ । ७.६६.११ ॥ ॥

tathā tāṁ kriyamāṇāṁ ca vṛddhābhirjanma nāma ca ।
saṅkīrtanaṁ ca rāmasya sītāyāḥ prasavau śubhau ।
7.66.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · १२ ॥
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् । पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् । ७.६६.१२ ॥ ॥

ardharātre tu śatrughnaḥ śuśrāva sumahatpriyam ।
parṇaśālāṁ tato gatvā mātardiṣṭyeti cābravīt ।
7.66.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · १३ ॥
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः । व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः । ७.६६.१३ ॥ ॥

tathā tasya prahṛṣṭasya śatrughnasya mahātmanaḥ ।
vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramaḥ ।
7.66.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · १४ ॥
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् । मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः । ७.६६.१४ ॥ ॥

prabhāte sumahāvīryaḥ kṛtvā paurvāhṇikīṁ kriyām ।
muniṁ prāñjalirāmantrya yayau paścānmukhaḥ punaḥ ।
7.66.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · १५ ॥
गत्वा यमुनातीरं सप्तरात्रोषितः पथि । ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् । ७.६६.१५ ॥ ॥

sa gatvā yamunātīraṁ saptarātroṣitaḥ pathi ।
ṛṣīṇāṁ puṇyakīrtīnāmāśrame vāsamabhyayāt ।
7.66.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · १६ ॥
तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः । कथाभिरभिरूपाभिर्वासं चक्रे महायशाः । ७.६६.१६ ॥ ॥

sa tatra munibhiḥ sārdhaṁ bhārgavapramukhairnṛpaḥ ।
kathābhirabhirūpābhirvāsaṁ cakre mahāyaśāḥ ।
7.66.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६६ · १७ ॥
काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् । कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः । ७.६६.१७ ॥

sa kāñcanādyairmunibhiḥ sameto raghupravīro rajanīṁ tadānīm ।
kathāprakārairbahubhirmahātmā virāmayāmāsa narendrasūnuḥ ।
7.66.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.