वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ६५ · ३९ श्लोकाःSarga 65 · 39 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ६५ · १ ॥
प्रस्थाप्य बलं सर्वं मासमात्रोषितः पथि । एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा । ७.६५.१ ॥ ॥

prasthāpya ca balaṁ sarvaṁ māsamātroṣitaḥ pathi ।
eka evāśu śatrughno jagāma tvaritaṁ tadā ।
7.65.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २ ॥
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः । वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् । ७.६५.२ ॥ ॥

dvirātramantare śūra uṣya rāghavanandanaḥ ।
vālmīkerāśramaṁ puṇyamagacchadvāsamuttamam ।
7.65.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३ ॥
सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् । कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह । ७.६५.३ ॥ ॥

so 'bhivādya mahātmānaṁ vālmīkiṁ munisattamam ।
kṛtāñjaliratho bhūtvā vākyametaduvāca ha ।
7.65.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ४ ॥
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः । श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् । ७.६५.४ ॥ ॥

bhagavanvastumicchāmi guroḥ kṛtyādihāgataḥ ।
śvaḥ prabhāte gamiṣyāmi pratīcīṁ vāruṇīṁ diśam ।
7.65.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ५ ॥
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । प्रत्युवाच महात्मानं स्वागतं ते महायशः । ७.६५.५ ॥ ॥

śatrughnasya vacaḥ śrutvā prahasya munipuṅgavaḥ ।
pratyuvāca mahātmānaṁ svāgataṁ te mahāyaśaḥ ।
7.65.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ६ ॥
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि । आसनं पाद्यमर्ध्यं निर्विशङ्कः प्रतीच्छ मे । ७.६५.६ ॥ ॥

svamāśramamidaṁ saumya rāghavāṇāṁ kulasya hi ।
āsanaṁ pādyamardhyaṁ ca nirviśaṅkaḥ pratīccha me ।
7.65.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ७ ॥
प्रतिगृह्य तदा पूजां फलमूलं भोजनम् । भक्षयामास काकुत्स्थस्तृप्तिं परमां गतः । ७.६५.७ ॥ ॥

pratigṛhya tadā pūjāṁ phalamūlaṁ ca bhojanam ।
bhakṣayāmāsa kākutsthastṛptiṁ ca paramāṁ gataḥ ।
7.65.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ८ ॥
भुक्त्वा फलमूलं महर्षिं तमुवाच ह । इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः । ७.६५.८ ॥ ॥

sa bhuktvā phalamūlaṁ ca maharṣiṁ tamuvāca ha ।
iyaṁ yajñavibhūtiste kasyāśramasamīpataḥ ।
7.65.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ९ ॥
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् । शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा । ७.६५.९ ॥ ॥

tattasya bhāṣitaṁ śrutvā vālmīkirvākyamabravīt ।
śatrughna śṛṇu yasyedaṁ babhūvāyatanaṁ purā ।
7.65.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · १० ॥
युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः । पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः । ७.६५.१० ॥ ॥

yuṣmākaṁ pūrvako rājā saudāsastasya bhūpateḥ ।
putro vīrasaho nāma vīryavānatidhārmikaḥ ।
7.65.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ११ ॥
बाल एव सौदासो मृगयामुपचक्रमे । चञ्चूर्यमाणं ददृशे शूरो राक्षसद्वयम् । ७.६५.११ ॥ ॥

sa bāla eva saudāso mṛgayāmupacakrame ।
cañcūryamāṇaṁ dadṛśe sa śūro rākṣasadvayam ।
7.65.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · १२ ॥
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः । भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः । ७.६५.१२ ॥ ॥

śārdūlarūpiṇau ghorau mṛgānbahusahasraśaḥ ।
bhakṣamāṇāvasantuṣṭau paryāptiṁ naiva jagmatuḥ ।
7.65.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · १३ ॥
तु तौ राक्षसौ दृष्ट्वा निर्मृगं वनं कृतम् । क्रोधेन महता ऽविष्टो जघानैकं महेषुणा । ७.६५.१३ ॥ ॥

sa tu tau rākṣasau dṛṣṭvā nirmṛgaṁ ca vanaṁ kṛtam ।
krodhena mahatā ' 'viṣṭo jaghānaikaṁ maheṣuṇā ।
7.65.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · १४ ॥
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः । विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत । ७.६५.१४ ॥ ॥

vinipātya tamekaṁ tu saudāsaḥ puruṣarṣabhaḥ ।
vijvaro vigatāmārṣo hataṁ rakṣo hyudaikṣata ।
7.65.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · १५ ॥
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः । सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् । ७.६५.१५ ॥ ॥

nirīkṣamāṇaṁ taṁ dṛṣṭvā sahāyaṁ tasya rakṣasaḥ ।
santāpamakarodghoraṁ saudāsaṁ cedamabravīt ।
7.65.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · १६ ॥
यस्मादनपराधं त्वं सहायं मम जघ्निवान् । तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् । ७.६५.१६ ॥ ॥

yasmādanaparādhaṁ tvaṁ sahāyaṁ mama jaghnivān ।
tasmāttavāpi pāpiṣṭha pradāsyāmi pratikriyām ।
7.65.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · १७ ॥
एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत । कालपर्याययोगेन राजा मित्रसहो ऽभवत् । ७.६५.१७ ॥ ॥

evamuktvā tu tadrākṣastatraivāntaradhīyata ।
kālaparyāyayogena rājā mitrasaho 'bhavat ।
7.65.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · १८ ॥
राजापि यजते यज्ञमस्याश्रमसमीपतः । अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् । ७.६५.१८ ॥ ॥

rājāpi yajate yajñamasyāśramasamīpataḥ ।
aśvamedhaṁ mahāyajñaṁ taṁ vasiṣṭho 'bhyapālayat ।
7.65.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · १९ ॥
तत्र यज्ञो महानासीद्बहुवर्षगणायुतः । समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् । ७.६५.१९ ॥ ॥

tatra yajño mahānāsīdbahuvarṣagaṇāyutaḥ ।
samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat ।
7.65.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २० ॥
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् । वसिष्ठरूपी राजानमिति होवाच राक्षसः । ७.६५.२० ॥ ॥

athāvasāne yajñasya pūrvavairamanusmaran ।
vasiṣṭharūpī rājānamiti hovāca rākṣasaḥ ।
7.65.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २१ ॥
अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम । दीयतामिह शीघ्रं वै नात्र कार्या विचारणा । ७.६५.२१ ॥ ॥

asya yajñasya jāto 'ntaḥ sāmiṣaṁ bhojanaṁ mama ।
dīyatāmiha śīghraṁ vai nātra kāryā vicāraṇā ।
7.65.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २२ ॥
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा । भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः । ७.६५.२२ ॥ ॥

tacchrutvā vyāhṛtaṁ vākyaṁ rakṣasā brahmarūpiṇā ।
bhakṣyasaṁskārakuśalamuvāca pṛthivīpatiḥ ।
7.65.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २३ ॥
हविष्यं सामिषं स्वादु यथा भवति भोजनम् । तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः । ७.६५.२३ ॥ ॥

haviṣyaṁ sāmiṣaṁ svādu yathā bhavati bhojanam ।
tathā kuruṣva śīghraṁ vai parituṣyedyathā guruḥ ।
7.65.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २४ ॥
शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः । राक्षसः पुनस्तत्र सूदवेषमथाकरोत् । ७.६५.२४ ॥ ॥

śāsanātpārthivendrasya sūdaḥ sambhrāntamānasaḥ ।
sa rākṣasaḥ punastatra sūdaveṣamathākarot ।
7.65.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २५ ॥
मानुषमथो मांसं पार्थिवाय न्यवेदयत् । इदं स्वादु हविष्यं सामिषं चान्नमाहृतम् । ७.६५.२५ ॥ ॥

sa mānuṣamatho māṁsaṁ pārthivāya nyavedayat ।
idaṁ svādu haviṣyaṁ ca sāmiṣaṁ cānnamāhṛtam ।
7.65.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २६ ॥
भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् । मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् । ७.६५.२६ ॥ ॥

sa bhojanaṁ vasiṣṭhāya patnyā sārdhamupāharat ।
madayantyā naravyāghra sāmiṣaṁ rakṣasā hṛtam ।
7.65.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २७ ॥
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् । क्रोधेन महता ऽविष्टो व्याहर्तुमुपचक्रमे । ७.६५.२७ ॥ ॥

jñātvā tadāmiṣaṁ vipro mānuṣaṁ bhājanaṁ gatam ।
krodhena mahatā ' 'viṣṭo vyāhartumupacakrame ।
7.65.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २८ ॥
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि । तस्माद्भोजनमेतत्ते भविष्यति संशयः । ७.६५.२८ ॥ ॥

yasmāttvaṁ bhojanaṁ rājanmamaitaddātumicchasi ।
tasmādbhojanametatte bhaviṣyati na saṁśayaḥ ।
7.65.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · २९ ॥
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना । वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् । ७.६५.२९ ॥ ॥

tataḥ kruddhastu saudāsastoyaṁ jagrāha pāṇinā ।
vasiṣṭhaṁ śaptumārebhe bhāryā cainamavārayat ।
7.65.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३० ॥
राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः । प्रतिशप्तुं शक्तस्त्वं देवतुल्यं पुरोधसम् । ७.६५.३० ॥ ॥

rājanprabhuryato 'smākaṁ vasiṣṭho bhagavānṛṣiḥ ।
pratiśaptuṁ na śaktastvaṁ devatulyaṁ purodhasam ।
7.65.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३१ ॥
ततः क्रोधमयं तोयं तेजोबलसमन्वितम् । व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च । ७.६५.३१ ॥ ॥

tataḥ krodhamayaṁ toyaṁ tejobalasamanvitam ।
vyasarjayata dharmātmā tataḥ pādau siṣeca ca ।
7.65.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३२ ॥
तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ । तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः । कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः । ७.६५.३२ ॥ ॥

tenāsya rājñastau pādau tadā kalmāṣatāṁ gatau ।
tadāprabhṛti rājā 'sau saudāsaḥ sumahāyaśāḥ ।
kalmāṣapādaḥ saṁvṛttaḥ khyātaścaiva tathā nṛpaḥ ।
7.65.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३३ ॥
राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः । पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा । ७.६५.३३ ॥ ॥

sa rājā saha patnyā vai praṇipatya muhurmuhuḥ ।
punarvasiṣṭhaṁ provāca yaduktaṁ brahmarūpiṇā ।
7.65.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३४ ॥
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं तत् । पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् । ७.६५.३४ ॥ ॥

tacchrutvā pārthivendrasya rakṣasā vikṛtaṁ ca tat ।
punaḥ provāca rājānaṁ vasiṣṭhaḥ puruṣarṣabham ।
7.65.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३५ ॥
मया रोषपरीतेन यदिदं व्याहृतं वचः । नैतच्छक्यं वृथा कर्तुं प्रदास्यामि ते वरम् । ७.६५.३५ ॥ ॥

mayā roṣaparītena yadidaṁ vyāhṛtaṁ vacaḥ ।
naitacchakyaṁ vṛthā kartuṁ pradāsyāmi ca te varam ।
7.65.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३६ ॥
कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति । मत्प्रासादाच्च राजेन्द्र व्यतीतं स्मरिष्यसि । ७.६५.३६ ॥ ॥

kālo dvādaśa varṣāṇi śāpasyānto bhaviṣyati ।
matprāsādācca rājendra vyatītaṁ na smariṣyasi ।
7.65.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३७ ॥
एवं राजा तं शापमुपभुज्यारिसूदनः । प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् । ७.६५.३७ ॥ ॥

evaṁ sa rājā taṁ śāpamupabhujyārisūdanaḥ ।
pratilebhe punā rājyaṁ prajāścaivānvapālayat ।
7.65.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३८ ॥
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् । आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि राघव । ७.६५.३८ ॥ ॥

tasya kalmāṣapādasya yajñasyāyatanaṁ śubham ।
āśramasya samīpe 'sya yanmāṁ pṛcchasi rāghava ।
7.65.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६५ · ३९ ॥
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् । विवेश पर्णशालायां महर्षिमभिवाद्य च । ७.६५.३९ ॥

tasya tāṁ pārthivendrasya kathāṁ śrutvā sudāruṇām ।
viveśa parṇaśālāyāṁ maharṣimabhivādya ca ।
7.65.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.