वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ६३ · ३१ श्लोकाःSarga 63 · 31 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ६३ · १ ॥
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् । शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह । ७.६३.१ ॥ ॥

evamuktastu rāmeṇa parāṁ vrīḍāmupāgamat ।
śatrughno vīryasampanno mandaṁ mandamuvāca ha ।
7.63.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २ ॥
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर । कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते । ७.६३.२ ॥ ॥

adharmaṁ vidma kākutstha hyasminnarthe nareśvara ।
kathaṁ tiṣṭhatsu jyeṣṭheṣu kanīyānabhiṣicyate ।
7.63.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · ३ ॥
अवश्यं करणीयं शासनं पुरुषर्षभ । तव चैव महाभाग शासनं दुरतिक्रमम् । ७.६३.३ ॥ ॥

avaśyaṁ karaṇīyaṁ ca śāsanaṁ puruṣarṣabha ।
tava caiva mahābhāga śāsanaṁ duratikramam ।
7.63.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · ४ ॥
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् । नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति । ७.६३.४ ॥ ॥

tvatto mayā śrutaṁ vīra śrutibhyaśca mayā śrutam ।
nottaraṁ hi mayā vācyaṁ madhyame pratijānati ।
7.63.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · ५ ॥
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे । तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ । ७.६३.५ ॥ ॥

vyāhṛtaṁ durvaco ghoraṁ hantāsmi lavaṇaṁ mṛdhe ।
tasyaivaṁ me duruktasya durgatiḥ puruṣarṣabha ।
7.63.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · ६ ॥
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः । अधर्मसहितं चैव परलोकविवर्जितम् । ७.६३.६ ॥ ॥

uttaraṁ nahi vaktavyaṁ jyeṣṭhenābhihite punaḥ ।
adharmasahitaṁ caiva paralokavivarjitam ।
7.63.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · ७ ॥
सो ऽहं द्वितीयं काकुत्स्थ वक्ष्यामि तवोत्तरम् । मा द्वितीयेन दण्डो वै निपतेन्मयि मानद । ७.६३.७ ॥ ॥

so 'haṁ dvitīyaṁ kākutstha na vakṣyāmi tavottaram ।
mā dvitīyena daṇḍo vai nipatenmayi mānada ।
7.63.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · ८ ॥
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ । अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन । ७.६३.८ ॥ ॥

kāmakāro hyahaṁ rājaṁstavāsmi puruṣarṣabha ।
adharmaṁ jahi kākutstha matkṛte raghunandana ।
7.63.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · ९ ॥
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना । उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा । ७.६३.९ ॥ ॥

evamukte tu śūreṇa śatrughnena mahātmanā ।
uvāca rāmaḥ saṁhṛṣṭo bharataṁ lakṣmaṇaṁ tathā ।
7.63.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · १० ॥
सम्भारानभिषेकस्य आनयध्वं समाहिताः । अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् । ७.६३.१० ॥ ॥

sambhārānabhiṣekasya ānayadhvaṁ samāhitāḥ ।
adyaiva puruṣavyāghramabhiṣekṣyāmi rāghavam ।
7.63.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · ११ ॥
पुरोहितं काकुत्स्थं नैगमानृत्विजस्तथा । मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया । ७.६३.११ ॥ ॥

purohitaṁ ca kākutsthaṁ naigamānṛtvijastathā ।
mantriṇaścaiva tānsarvānānayadhvaṁ mamājñayā ।
7.63.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · १२ ॥
राज्ञः शासनमाज्ञाय तथा ऽकुर्वन्महारथाः । अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् । प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा । ७.६३.१२ ॥ ॥

rājñaḥ śāsanamājñāya tathā 'kurvanmahārathāḥ ।
abhiṣekasamārambhaṁ puraskṛtya purodhasam ।
praviṣṭā rājabhavanaṁ rājāno brāhmaṇāstathā ।
7.63.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · १३ ॥
तथो ऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः । सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च । ७.६३.१३ ॥ ॥

tatho 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ ।
sampraharṣakaraḥ śrīmānrāghavasya purasya ca ।
7.63.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · १४ ॥
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः । अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः । ७.६३.१४ ॥ ॥

abhiṣiktastu śatrughno babhau cādityasannibhaḥ ।
abhiṣiktaḥ purā skandaḥ sendrairiva marudgaṇaiḥ ।
7.63.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · १५ ॥
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा । पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः । ७.६३.१५ ॥ ॥

abhiṣikte tu śatrughne rāmeṇākliṣṭakarmaṇā ।
paurāḥ pramuditāścāsanbrāhmaṇāśca bahuśrutāḥ ।
7.63.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · १६ ॥
कौसल्या सुमित्रा मङ्गलं केकयी तथा । चक्रुस्ता राजभवने याश्चान्या राजयोषितः । ७.६३.१६ ॥ ॥

kausalyā ca sumitrā ca maṅgalaṁ kekayī tathā ।
cakrustā rājabhavane yāścānyā rājayoṣitaḥ ।
7.63.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · १७ ॥
ऋषयश्च महात्मानो यमुनातीरवासिनः । हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् । ७.६३.१७ ॥ ॥

ṛṣayaśca mahātmāno yamunātīravāsinaḥ ।
hataṁ lavaṇamāśaṁsuḥ śatrughnasyābhiṣecanāt ।
7.63.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · १८ ॥
ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः । उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् । ७.६३.१८ ॥ ॥

tato 'bhiṣiktaṁ śatrughnamaṅkamāropya rāghavaḥ ।
uvāca madhurāṁ vāṇīṁ tejastasyābhipūrayan ।
7.63.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · १९ ॥
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः । अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन । ७.६३.१९ ॥ ॥

ayaṁ śarastvamoghaste divyaḥ parapurañjayaḥ ।
anena lavaṇaṁ saumya hantā 'si raghunandana ।
7.63.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २० ॥
सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे । ७.६३.२० ॥ ॥

sṛṣṭaḥ śaro 'yaṁ kākutstha yadā śete mahārṇave ।
7.63.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २१ ॥
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः । अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः । ७.६३.२१ ॥ ॥

svayambhūrajito devo yannāpaśyansurāsurāḥ ।
adṛśyaḥ sarvabhūtānāṁ tenāyaṁ tu śarottamaḥ ।
7.63.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २२ ॥
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः । मधुकैटभयोर्वीर विघाते वर्तमानयोः । स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि । ७.६३.२२ ॥ ॥

sṛṣṭaḥ krodhābhibhūtena vināśārthaṁ durātmanoḥ ।
madhukaiṭabhayorvīra vighāte vartamānayoḥ ।
sraṣṭukāmena lokāṁstrīṁstau cānena hatau yudhi ।
7.63.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २३ ॥
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा । अनेन शरमुख्येन ततो लोकांश्चकार सः । ७.६३.२३ ॥ ॥

tau hatvā janabhogārthaṁ kaiṭabhaṁ tu madhuṁ tathā ।
anena śaramukhyena tato lokāṁścakāra saḥ ।
7.63.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २४ ॥
नायं मया शरः पूर्वं रावणस्य वधार्थिना । मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति । ७.६३.२४ ॥ ॥

nāyaṁ mayā śaraḥ pūrvaṁ rāvaṇasya vadhārthinā ।
muktaḥ śatrughna bhūtānāṁ mahāṁstrāso bhavediti ।
7.63.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २५ ॥
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना । दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् । ७.६३.२५ ॥ ॥

yacca tasya mahacchūlaṁ tryambakeṇa mahātmanā ।
dattaṁ śatruvināśāya madhorāyudhamuttamam ।
7.63.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २६ ॥
तं निक्षिप्य भवने पूज्यमान पुनः पुनः । दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् । ७.६३.२६ ॥ ॥

sa taṁ nikṣipya bhavane pūjyamāna punaḥ punaḥ ।
diśaḥ sarvāḥ samāsādya prāpnotyāhāramuttamam ।
7.63.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २७ ॥
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् । तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि । ७.६३.२७ ॥ ॥

yadā tu yuddhamākāṅkṣan kaścidenaṁ samāhvayet ।
tadā śūlaṁ gahītvā taṁ bhasma rakṣaḥ karoti hi ।
7.63.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २८ ॥
त्वं पुरुषशार्दूल तमायुधविनाकृतम् । अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः । ७.६३.२८ ॥ ॥

sa tvaṁ puruṣaśārdūla tamāyudhavinākṛtam ।
apraviṣṭaṁ puraṁ pūrvaṁ dvāri tiṣṭha dhṛtāyudhaḥ ।
7.63.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · २९ ॥
अप्रविष्टं भवनं युद्धाय पुरुषर्षभ । आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् । ७.६३.२९ ॥ ॥

apraviṣṭaṁ ca bhavanaṁ yuddhāya puruṣarṣabha ।
āhvayethā mahābāho tato hantāsi rākṣasam ।
7.63.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · ३० ॥
अन्यथा क्रियमाणे तु अवध्यः भविष्यति । यदि त्वेवं कृते वीर विनाशमुपयास्यति । ७.६३.३० ॥ ॥

anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati ।
yadi tvevaṁ kṛte vīra vināśamupayāsyati ।
7.63.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६३ · ३१ ॥
एतत्ते सर्वमाख्यातं शूलस्य विपर्ययः । श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् । ७.६३.३१ ॥

etatte sarvamākhyātaṁ śūlasya ca viparyayaḥ ।
śrīmataḥ śitikaṇṭhasya kṛtyaṁ hi duratikramam ।
7.63.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.