वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ६१ · २५ श्लोकाःSarga 61 · 25 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ६१ · १ ॥
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् । किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः । ७.६१.१ ॥ ॥

evaṁ bruvadbhirṛṣibhiḥ kākutstho vākyamabravīt ।
kiṁ kāryaṁ brūta munayo bhayaṁ tāvadapaitu vaḥ ।
7.61.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · २ ॥
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् । भयानां शृणु यन्मूलं देशस्य नरेश्वर । ७.६१.२ ॥ ॥

tathā bruvati kākutsthe bhārgavo vākyamabravīt ।
bhayānāṁ śṛṇu yanmūlaṁ deśasya ca nareśvara ।
7.61.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · ३ ॥
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः । लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः । ७.६१.३ ॥ ॥

pūrvaṁ kṛtayuge rājandaiteyaḥ sumahābalaḥ ।
lolāputro 'bhavajjyeṣṭho madhurnāma mahāsuraḥ ।
7.61.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · ४ ॥
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या परिनिष्ठितः । सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् । ७.६१.४ ॥ ॥

brahmaṇyaśca śaraṇyaśca buddhyā ca pariniṣṭhitaḥ ।
suraiśca paramodāraiḥ prītistasyātulā 'bhavat ।
7.61.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · ५ ॥
मधुर्वीर्यसम्पन्नो धर्मे सुसमाहितः । बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः । ७.६१.५ ॥ ॥

sa madhurvīryasampanno dharme ca susamāhitaḥ ।
bahuvarṣasahasrāṇi rudraprītyā 'karottapaḥ ।
7.61.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · ६ ॥
रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ सः । बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः । ७.६१.६ ॥ ॥

rudraḥ prīto 'bhavattasmai varaṁ dātuṁ yayau ca saḥ ।
bahumānācca rudreṇa dattastasyādbhuto varaḥ ।
7.61.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · ७ ॥
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् । ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह । ७.६१.७ ॥ ॥

śūlaṁ śūlādviniṣkṛṣya mahāvīryaṁ mahāprabham ।
dadau mahātmā suprīto vākyaṁ caitaduvāca ha ।
7.61.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · ८ ॥
त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः । प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् । ७.६१.८ ॥ ॥

tvayāyamatulo dharmo matprasādakaraḥ kṛtaḥ ।
prītyā paramayā yukto dadāmyāyudhamuttamam ।
7.61.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · ९ ॥
यावत्सुरैश्च विप्रैश्च विरुध्येर्महासुर । तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति । ७.६१.९ ॥ ॥

yāvatsuraiśca vipraiśca na virudhyermahāsura ।
tāvacchūlaṁ tavedaṁ syādanyathā nāśamepyati ।
7.61.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · १० ॥
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः । तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् । ७.६१.१० ॥ ॥

yaśca tvāmabhiyuñjīta yuddhāya vigatajvaraḥ ।
taṁ śūlo bhasmasātkṛtvā punareṣyati te karam ।
7.61.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · ११ ॥
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः । प्रणिपत्य महादेवं वाक्यमेतदुवाच ह । ७.६१.११ ॥ ॥

evaṁ rudrādvaraṁ labdhvā bhūya eva mahāsuraḥ ।
praṇipatya mahādevaṁ vākyametaduvāca ha ।
7.61.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · १२ ॥
भगवन्मम वंशस्य शूलमेतदनुत्तमम् । भवेत्तु सततं देव सुराणामीश्वरो ह्यसि । ७.६१.१२ ॥ ॥

bhagavanmama vaṁśasya śūlametadanuttamam ।
bhavettu satataṁ deva surāṇāmīśvaro hyasi ।
7.61.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · १३ ॥
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः । प्रत्युवाच महातेजा नैतदेवं भविष्यति । ७.६१.१३ ॥ ॥

taṁ bruvāṇaṁ madhuṁ devaḥ sarvabhūtapatiḥ śivaḥ ।
pratyuvāca mahātejā naitadevaṁ bhaviṣyati ।
7.61.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · १४ ॥
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा । भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते । ७.६१.१४ ॥ ॥

mā bhūtte viphalā vāṇī matprasādakṛtā śubhā ।
bhavataḥ putramekaṁ tu śūlametadbhajiṣyate ।
7.61.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · १५ ॥
यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते । अवध्यः सर्वभूतानां शूलहस्तो भविष्यति । ७.६१.१५ ॥ ॥

yāvatkarasthaḥ śūlo 'yaṁ bhaviṣyati sutasya te ।
avadhyaḥ sarvabhūtānāṁ śūlahasto bhaviṣyati ।
7.61.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · १६ ॥
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् । भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् । ७.६१.१६ ॥ ॥

evaṁ madhurvaraṁ labdhvā devātsumahadadbhutam ।
bhavanaṁ so 'suraśreṣṭhaḥ kārayāmāsa suprabham ।
7.61.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · १७ ॥
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या । विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा । ७.६१.१७ ॥ ॥

tasya patnī mahābhāgā priyā kumbhīnasīti yā ।
viśvāvasorapatyaṁ sā hyanalāyāṁ mahāprabhā ।
7.61.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · १८ ॥
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः । बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् । ७.६१.१८ ॥ ॥

tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ ।
bālyātprabhṛti duṣṭātmā pāpānyeva samācarat ।
7.61.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · १९ ॥
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः । मधुः शोकमापेदे चैनं किञ्चिदब्रवीत् । ७.६१.१९ ॥ ॥

taṁ putraṁ durvinītaṁ tu dṛṣṭvā krodhasamanvitaḥ ।
madhuḥ sa śokamāpede na cainaṁ kiñcidabravīt ।
7.61.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · २० ॥
विहाय त्विमं लोकं प्रविष्टो वरुणालयम् । शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् । ७.६१.२० ॥ ॥

sa vihāya tvimaṁ lokaṁ praviṣṭo varuṇālayam ।
śūlaṁ niveśya lavaṇe varaṁ tasmai nyavedayat ।
7.61.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · २१ ॥
प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा । सन्तापयति लोकांस्त्रीन्विशेषेण तापसान् । ७.६१.२१ ॥ ॥

sa prabhāveṇa śūlasya daurātmyenātmanastathā ।
santāpayati lokāṁstrīnviśeṣeṇa ca tāpasān ।
7.61.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · २२ ॥
एवंप्रभावो लवणः शूलं चैव तथाविधम् । श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः । ७.६१.२२ ॥ ॥

evaṁprabhāvo lavaṇaḥ śūlaṁ caiva tathāvidham ।
śrutvā pramāṇaṁ kākutstha tvaṁ hi naḥ paramā gatiḥ ।
7.61.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · २३ ॥
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा । अभयं याचिता वीर त्रातारं विद्महे । ७.६१.२३ ॥ ॥

bahavaḥ pārthivā rāma bhayārtairṛṣibhiḥ purā ।
abhayaṁ yācitā vīra trātāraṁ na ca vidmahe ।
7.61.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · २४ ॥
ते वयं रावणं श्रुत्वा हतं सबलवाहनम् । त्रातारं विद्महे तात नान्यं भुवि नराधिपम् । तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् । ७.६१.२४ ॥ ॥

te vayaṁ rāvaṇaṁ śrutvā hataṁ sabalavāhanam ।
trātāraṁ vidmahe tāta nānyaṁ bhuvi narādhipam ।
tatparitrātumicchāmo lavaṇādbhayapīḍitān ।
7.61.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६१ · २५ ॥
इति राम निवेदितं तु ते भयजं कारणमुत्थितं यत् । विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम । ७.६१.२५ ॥

iti rāma niveditaṁ tu te bhayajaṁ kāraṇamutthitaṁ ca yat ।
vinivārayituṁ bhavānkṣamaḥ kuru taṁ kāmamahīnavikrama ।
7.61.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.