वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ६० · १८ श्लोकाःSarga 60 · 18 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ६० · १ ॥
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा । वासन्तिकी निशा प्राप्ता शीता घर्मदा । ७.६०.१ ॥ ॥

tayoḥ saṁvadatorevaṁ rāmalakṣmaṇayostadā ।
vāsantikī niśā prāptā na śītā na ca gharmadā ।
7.60.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · २ ॥
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः । अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् । ७.६०.२ ॥ ॥

tataḥ prabhāte vimale kṛtapaurvāhṇikakriyaḥ ।
abhicakrāma kākutstho darśanaṁ paurakāryavit ।
7.60.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · ३ ॥
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् । एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः । ७.६०.३ ॥ ॥

tataḥ sumantrastvāgamya rāghavaṁ vākyamabravīt ।
ete pratihatā rājandvāri tiṣṭhanti tāpasāḥ ।
7.60.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · ४ ॥
भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः । दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः । प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः । ७.६०.४ ॥ ॥

bhārgavacyavanaṁ caiva puraskṛtya maharṣayaḥ ।
darśanaṁ te mahārājñaścodayanti kṛtatvarāḥ ।
prīyamāṇā naravyāghra yamunātīravāsinaḥ ।
7.60.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · ५ ॥
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् । प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः । ७.६०.५ ॥ ॥

tasya tadvacanaṁ śrutvā rāmaḥ provāca dharmavit ।
praveśyantāṁ mahābhāgā bhārgavapramukhā dvijāḥ ।
7.60.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · ६ ॥
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः । प्रवेशयामास तदा तापसान्सुदुरासदान् । ७.६०.६ ॥ ॥

rājñastvājñāṁ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ ।
praveśayāmāsa tadā tāpasānsudurāsadān ।
7.60.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · ७ ॥
शतं समधिकं तत्र दीप्यमानं स्वतेजसा । प्रविष्टं राजभवनं तापसानां महात्मनाम् । ७.६०.७ ॥ ॥

śataṁ samadhikaṁ tatra dīpyamānaṁ svatejasā ।
praviṣṭaṁ rājabhavanaṁ tāpasānāṁ mahātmanām ।
7.60.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · ८ ॥
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः । गृहीत्वा फलमूलं रामस्याभ्याहरन्बहु । ७.६०.८ ॥ ॥

te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtaiḥ ।
gṛhītvā phalamūlaṁ ca rāmasyābhyāharanbahu ।
7.60.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · ९ ॥
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः । तीर्थोदकानि सर्वाणि फलानि विविधानि च । ७.६०.९ ॥ ॥

pratigṛhya tu tatsarvaṁ rāmaḥ prītipuraskṛtaḥ ।
tīrthodakāni sarvāṇi phalāni vividhāni ca ।
7.60.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · १० ॥
उवाच महाबाहुः सर्वानेव महामुनीन् । इमान्यासनमुख्यानि यथार्हमुपविश्यताम् । ७.६०.१० ॥ ॥

uvāca ca mahābāhuḥ sarvāneva mahāmunīn ।
imānyāsanamukhyāni yathārhamupaviśyatām ।
7.60.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · ११ ॥
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः । बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते । ७.६०.११ ॥ ॥

rāmasya bhāṣitaṁ śrutvā sarva eva maharṣayaḥ ।
bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te ।
7.60.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · १२ ॥
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः । प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् । ७.६०.१२ ॥ ॥

upaviṣṭānṛṣīṁstatra dṛṣṭvā parapurañjayaḥ ।
prayataḥ prāñjalirbhūtvā rāghavo vākyamabravīt ।
7.60.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · १३ ॥
किमागमनकार्यं वः किं करोमि समाहितः । आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् । ७.६०.१३ ॥ ॥

kimāgamanakāryaṁ vaḥ kiṁ karomi samāhitaḥ ।
ājñāpyo 'haṁ maharṣīṇāṁ sarvakāmakaraḥ sukham ।
7.60.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · १४ ॥
इदं राज्यं सकलं जीवितं हृदि स्थितम् । सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः । ७.६०.१४ ॥ ॥

idaṁ rājyaṁ ca sakalaṁ jīvitaṁ ca hṛdi sthitam ।
sarvametaddvidārthaṁ me satyametadbravīmi vaḥ ।
7.60.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · १५ ॥
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् । ऋषीणामुग्रतपसां यमुनातीरवासिनाम् । ७.६०.१५ ॥ ॥

tasya tadvacanaṁ śrutvā sādhukāro mahānabhūt ।
ṛṣīṇāmugratapasāṁ yamunātīravāsinām ।
7.60.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · १६ ॥
ऊचुश्च ते महात्मानो हर्षेण महता वृताः । उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः । ७.६०.१६ ॥ ॥

ūcuśca te mahātmāno harṣeṇa mahatā vṛtāḥ ।
upapannaṁ naraśreṣṭha tavaiva bhuvi nānyataḥ ।
7.60.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · १७ ॥
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः । कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् । ७.६०.१७ ॥ ॥

bahavaḥ pārthivā rājannatikrāntā mahābalāḥ ।
kāryasya gauravaṁ matvā pratijñāṁ nābhyarocayan ।
7.60.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६० · १८ ॥
त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् । ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि । ७.६०.१८ ॥

tvayā punarbrāhmaṇagauravādiyaṁ kṛtā pratijñā hyanavekṣya kāraṇam ।
tataśca kartā hyasi nātra saṁśayo mahābhayātऺtrātumṛṣīṁstvamarhasi ।
7.60.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.