वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ५८ · २५ श्लोकाःSarga 58 · 25 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ५८ · १ ॥
एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा । प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा । ७.५८.१ ॥ ॥

evaṁ bruvati rāme tu lakṣmaṇaḥ paravīrahā ।
pratyuvāca mahātmānaṁ jvalantamiva tejasā ।
7.58.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · २ ॥
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् । निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह । ७.५८.२ ॥ ॥

mahadadbhutamāścaryaṁ videhasya purātanam ।
nirvṛttaṁ rājaśārdūla vasiṣṭhasya nimessaha ।
7.58.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · ३ ॥
निमिस्तु क्षत्रियः शूरो विशेषेण दीक्षितः । क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः । ७.५८.३ ॥ ॥

nimistu kṣatriyaḥ śūro viśeṣeṇa ca dīkṣitaḥ ।
na kṣamāṁ kṛtavānrājā vasiṣṭhasya mahātmanaḥ ।
7.58.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · ४ ॥
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः । उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् । ७.५८.४ ॥ ॥

evamuktastu tenāyaṁ śrīmān kṣatriyapuṅgavaḥ ।
uvāca lakṣmaṇaṁ vākyaṁ sarvaśāstraviśāradam ।
7.58.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · ५ ॥
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् । सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते । ७.५८.५ ॥ ॥

rāmo ramayatāṁ śreṣṭho bhrātaraṁ dīptatejasam ।
na sarvatra kṣamā vīra puruṣeṣu pradṛśyate ।
7.58.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · ६ ॥
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना । सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः । ७.५८.६ ॥ ॥

saumitre duḥsaho roṣo yathā kṣānto yayātinā ।
sattvānugaṁ puraskṛtya tannibodha samāhitaḥ ।
7.58.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · ७ ॥
नहुषस्य सुतो राजा ययातिः पौरवर्धनः । तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि । ७.५८.७ ॥ ॥

nahuṣasya suto rājā yayātiḥ pauravardhanaḥ ।
tasya bhāryādvayaṁ saumya rūpeṇāpratimaṁ bhuvi ।
7.58.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · ८ ॥
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता । शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः । ७.५८.८ ॥ ॥

ekā tu tasya rājarṣernāhuṣasya puraskṛtā ।
śarmiṣṭhā nāma daiteyī duhitā vṛṣaparvaṇaḥ ।
7.58.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · ९ ॥
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ । तु सा दयिता राज्ञो देवयानी सुमध्यमा । ७.५८.९ ॥ ॥

anyā tūśanasaḥ patnī yayāteḥ puruṣarṣabha ।
na tu sā dayitā rājño devayānī sumadhyamā ।
7.58.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · १० ॥
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ । शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा । ७.५८.१० ॥ ॥

tayoḥ putrau tu sambhūtau rūpavantau samāhitau ।
śarmiṣṭhā 'janayatpūruṁ devayānī yaduṁ tadā ।
7.58.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · ११ ॥
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च । ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् । ७.५८.११ ॥ ॥

pūrustu dayito rājño guṇairmātṛkṛtena ca ।
tato duḥkhasamāviṣṭo yadurmātaramabravīt ।
7.58.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · १२ ॥
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः । सहसे हृद्गतं दुःखमवमानं दुःसहम् । ७.५८.१२ ॥ ॥

bhārgavasya kule jātā devasyākliṣṭakarmaṇaḥ ।
sahase hṛdgataṁ duḥkhamavamānaṁ ca duḥsaham ।
7.58.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · १३ ॥
आवां सहितौ देवि प्रविशाव हुताशनम् । राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः । ७.५८.१३ ॥ ॥

āvāṁ ca sahitau devi praviśāva hutāśanam ।
rājā tu ramatāṁ sārdhaṁ daityaputryā bahukṣapāḥ ।
7.58.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · १४ ॥
यदि वा सहनीयं ते मामनुज्ञातुमर्हसि । क्षम त्वं क्षमिष्ये ऽहं मरिष्यामि संशयः । ७.५८.१४ ॥ ॥

yadi vā sahanīyaṁ te māmanujñātumarhasi ।
kṣama tvaṁ na kṣamiṣye 'haṁ mariṣyāmi na saṁśayaḥ ।
7.58.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · १५ ॥
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः । देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा । ७.५८.१५ ॥ ॥

putrasya bhāṣitaṁ śrutvā paramārtasya rodataḥ ।
devayānī tu saṅkruddhā sasmāra pitaraṁ tadā ।
7.58.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · १६ ॥
इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा । आगतस्त्वरितं तत्र देवयानी तु यत्र सा । ७.५८.१६ ॥ ॥

iṅgitaṁ tadabhijñāya duhiturbhārgavastadā ।
āgatastvaritaṁ tatra devayānī tu yatra sā ।
7.58.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · १७ ॥
दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् । पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् । ७.५८.१७ ॥ ॥

dṛṣṭvā cāprakṛtisthāṁ tāmaprahṛṣṭāmacetanām ।
pitā duhitaraṁ vākyaṁ kimetaditi cābravīt ।
7.58.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · १८ ॥
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् । देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् । ७.५८.१८ ॥ ॥

pṛcchantamasakṛttaṁ vai bhārgavaṁ dīptatejasam ।
devayānī tu saṅkruddhā pitaraṁ vākyamabravīt ।
7.58.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · १९ ॥
अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम । भक्षयिष्ये प्रवेक्ष्यामि तु शक्ष्यामि जीवितुम् । ७.५८.१९ ॥ ॥

ahamagniṁ viṣaṁ tīkṣṇamapo vā munisattama ।
bhakṣayiṣye pravekṣyāmi na tu śakṣyāmi jīvitum ।
7.58.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · २० ॥
मां त्वमवजानीषे दुःखितामवमानिताम् । वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः । ७.५८.२० ॥ ॥

na māṁ tvamavajānīṣe duḥkhitāmavamānitām ।
vṛkṣasyāvajñayā brahmaṁśchidyante vṛkṣajīvinaḥ ।
7.58.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · २१ ॥
अवज्ञया राजर्षिः परिभूय भार्गव । मय्यवज्ञां प्रयुङ्क्ते हि मां बहु मन्यते । ७.५८.२१ ॥ ॥

avajñayā ca rājarṣiḥ paribhūya ca bhārgava ।
mayyavajñāṁ prayuṅkte hi na ca māṁ bahu manyate ।
7.58.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · २२ ॥
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः । व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् । ७.५८.२२ ॥ ॥

tasyāstadvacanaṁ śrutvā kopenābhipariplutaḥ ।
vyāhartumupacakrāma bhārgavo nahuṣātmajam ।
7.58.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · २३ ॥
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् । जरया परया जीर्णः शैथिल्यमुपयास्यसि । ७.५८.२३ ॥ ॥

yasmānmāmavajānīṣe nāhuṣa tvaṁ durātmavān ।
jarayā parayā jīrṇaḥ śaithilyamupayāsyasi ।
7.58.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · २४ ॥
एवमुक्त्वा दुहितरं समाश्वास्य भार्गवः । पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः । ७.५८.२४ ॥ ॥

evamuktvā duhitaraṁ samāśvāsya ca bhārgavaḥ ।
punarjagāma brahmarṣirbhavanaṁ svaṁ mahāyaśāḥ ।
7.58.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५८ · २५ ॥
एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य देवयानीम् । पुनर्ययौ सूर्यसमानतेजा दत्त्वा शापं नहुषात्मजाय । ७.५८.२५ ॥

sa evamuktvā dvijapuṅgavāgryaḥ sutāṁ samāśvāsya ca devayānīm ।
punaryayau sūryasamānatejā dattvā ca śāpaṁ nahuṣātmajāya ।
7.58.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.